विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 47, कुल 493 में से
संदर्भ में पढ़ें( २२ ) लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः । स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥ अन्वयः यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रैः कवयः न कोपनीयाः । व्याख्या यल्लङ्कापते रावणस्य यश कीर्ति 'यश कीर्ति समज्ञा च स्तम स्तोत्र स्तुति- र्नुति' इत्यमर । सङ्कुचितमविस्तृतं नष्टमित्यर्थं । यद्रघुराजस्य दशरथस्य पुत्रो राम कीर्तिपात्र यशोभाजन जात स सर्व एवाऽऽदिकवेर्वाल्मीके प्रभाव- कौशलं कार्यमित्यर्थं । अतः क्षितीन्द्रै राजभि कवयो न कोपनीया न क्रोधनीया नापमाननीया इतिभाव । यदिति वाक्यार्थपरामर्शकः । भाषा रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जो कीर्ति के पात्र हुए, यह सब आदि कवि वाल्मीकि का ही प्रताप है । इसलिए राजाओ को कभी भी कवियो को कुपित न करना चाहिये । गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । के वा न शुष्कां मृदमभ्रसिन्धु-सम्बन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥ अन्वयः मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्ति प्रवर्तन व्यापारो वा नृपते राज्ञो विक्रमाङ्कदेवस्य चरित्रैश्चरितैर्हेतुभिर्मान्या पूज्या भवित्री भाविनी । प्रकृत्या चारु राज्ञश्चरितमत्र वर्णितमिति हेतोरिदं काव्यं विदुषा रसनीयत्वमुप- यास्यत्येवेति भावः । के वा मनुष्या शुष्कां रसरहितामभ्रसिन्धोर्जाह्नव्या सम्बन्धिनीं तटगतां मृदं मृत्तिकां मूर्द्धनि शिरसि न धारयन्ति नाऽवतंसयन्ति ।