विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 39, कुल 493 में से
संदर्भ में पढ़ें( १४ ) भाषा पण्डितो को भी आकर्षित करने वाली नवीन कल्पना या काव्यरचना की कुशलता मूर्खों को आनन्दित नही कर सकती । मोती में छेद करने की सुई टांकी का काम नही कर सकती । अर्थात् सूक्ष्म बातो को कुशाग्रबुद्धि ही समझ सकता है । स्थूल बुद्धिवालो को उनसे कोई सुख नही मिलता । कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥१७॥ अन्वयः ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थि- पर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति । व्याख्या ये जनाः कयोना क्रान्तदर्शिनां कवीना कथासु रचनासु लब्धः प्राप्तो रस आनन्दो यैस्ते लब्धरसा अनुभूतलाह्लादास्ते कथान्तरेष्वन्यासु क्षुकविरचनासु नाऽ- नुरज्यन्ति नाऽनुरक्ता भवन्ति । ग्रन्थिपर्णीनाम सुगन्धिक्षुपविशेषः 'ग्रन्थिपर्णं शुकं बर्हपुष्पं स्योणेषुकुकुशुरं' इत्यमरः । 'गठिवन' 'भटोरा' इति भाषायां ख्यातः । तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकाया गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु 'शष्पं बालतृणं घासः' इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र दृष्टान्तालङ्कारः । भाषा जो लोग अच्छे कवियों के काव्यो को पढकर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियों के काव्यों में आनन्द नही प्राप्त कर सकते । गठिवन नाम के सुगन्धित पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नही चरते । जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्योतिषि किं करोति ॥१८॥ अन्वयः जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्ता- ग्निनिर्वापणगर्वम् अम्बु रत्नाङ्कुरज्योतिषि कि करोति ।