विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 38, कुल 493 में से
संदर्भ में पढ़ें( १३ ) व्याख्या पदानां शब्दानां रसगुणालङ्कारादिप्रत्यायकत्वेन चमत्कारित्वं प्रौढिस्तस्याः प्रकर्षेणोत्कटत्वेन पुराणी प्राचीना या रीतिरथवा पुराणानां कवीनां या रीतिः परिपाटी तस्या व्यतिक्रमः परित्यागः श्लाघ्यतमः प्रशस्यतमो भवति । अत्युच्चतया स्फोटितानि दार्ढ्यातिशयात्त्रोटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणा- शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र दृष्टान्तालङ्कारः । भाषा प्रौढि प्रकर्ष से अर्थात् रस गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना करने योग्य होते हैं । व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥ अन्वयः आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते । व्याख्या आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः । यया साऽऽवर्जितकोविदाऽपि पण्डितानामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्पत्तिर्नू- तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादायै न क्रमते न समर्था भवति । मौक्तिकेषु मुक्तासु छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोधं रन्ध्रं श्वभ्रं वपा सुषिः' इत्यमरः । करोतीति रन्ध्रकरी शलाका सूची टङ्किकायाः पाषाण- दारणलोहकीलस्य 'टङ्कः पाषाणदारणः' इत्यमरः । कर्मणि कठिनपाषाणविदारणं कर्तुं न प्रगल्भते न समर्था भवति । अत्र दृष्टान्तालङ्कारः ।