विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 335, कुल 493 में से
संदर्भ में पढ़ें( ३२७ ) व्याख्या सुराणां देवानां पांसुलाजनः स्वैरविहारिणीजनः कुसुमानां पुष्पाणां धूलयः परागः 'परागः सुमनोरजः' इत्यमरः । ताभिर्वासितासुरभीकृतास्तैः पुष्परेणु- भुरभीकृतैर्नन्दनस्येन्द्रवनस्य द्रुमा वृक्षास्तेषां निकुञ्जा लतादिपिहितोदराः 'निकुञ्जकुञ्जौ वा क्लीवे लतापिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्री- भूतास्तैर्नन्दनोद्यानवृक्षकुञ्जतत्स्थितैः पांसुभिः क्षितितलोत्थितरेणुभिश्चोपेणऽ- प्रशस्तरूपेण केलिः क्रीडा चौर्यकेलिः परपुरुषैस्समं परनारीणां रतोत्सवरतदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशय्यानिर्माणार्थोप- योगात् तुष्यति स्म सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुत्थितायास्तदा- न्ताया स्थितायाश्च धूलेः कोमलत्वाच्चौर्यरतितत्परसुरापांसुलाजनस्य कोमलशय्या- प्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिरलङ्कारः । भाषा स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उठ कर नन्दन वन के कुञ्जों में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विष्यादि करने में कोमल शय्या के सदृश उस भूमि का उपयोग होने से, सन्तुष्ट हुआ । वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः । अन्धकारपटलच्छलेन यद् भृङ्गपूरितमिवाभवन्नभः ॥६६॥ अन्वयः पांसुदूषितं पुष्पमधु वीक्ष्य अलिभिः नन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् । व्याख्या पांसुभिः क्षोणीतलोत्थितरजोभिः 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । दूषितं कलुषीकृतं पुष्पाणां कुसुमानां मधु रसं मकरन्दं वीक्ष्य दृष्ट्वा- ऽलिभिर्भ्रमरैः 'षट्पदभ्रमरादयः' इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं निश्चयेनाऽमुच्यत परित्यक्तम् । यद्यस्मात्कारणान्नभ आकाशमन्धकारस्य धूलिजनितध्वान्तस्य पटलं समूहस्तस्य छलेन व्याजेन भृङ्गैर्भ्रमरैः पूरितं व्याप्तमिवाभवज्जातम् । कृष्णायान्धकारे भृङ्गपटलयोरुत्प्रेक्षणादुत्प्रेक्षा- लङ्कारः ।