भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 343, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 343

( ३३५ ) भाषा. द्रविडदेश के चोलवंशीय राजा वीरराजेन्द्र ने भी कौतुक से विक्रमाङ्कदेव की मदोन्मत्त हाथियो से युक्त सेना को देखकर कन्या प्रदान से अनिष्ट रूपी कीचड से अपने राज्य का उद्धार हुआ ऐसा माना । प्रेषितैरथ तयोः परस्परं प्रेम्णि योग्यपुरुषैः प्रपञ्चिते । संगमः सकललोकसंमतो जायते स्म गुरुपुष्ययोरिव ॥८०॥ अन्वयः अथ प्रेषितैः योग्यपुरुषैः परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव सकललोकसम्मतः संगमः जायते स्म । व्याख्या अथ विक्रमाङ्कदेववीरराजेन्द्रयोस्तुङ्गभद्रातटप्राप्त्यनन्तरं प्रेषितैरुभयपक्षान्प्रा- पितैर्योग्यपुरुषैश्चतुरजनैः परस्पर मिथः प्रेम्णि स्नेहे प्रपञ्चिते सम्बर्धिते सति तयोर्विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बृहस्पतिपुष्यनक्षत्रयोरिव सकललोकैस्स- म्पूर्णजनैस्सम्मतस्समीपतः संगमः सम्मेलनं जायते स्म जातम् । १ज्योतिषशास्त्रे गुरुपुष्ययोगः प्रशस्त्येन वर्णितः । सर्वे जना तद्योगस्य शुभफलप्रदत्वच्छाद्ध- भवन्ति । अत्रोपमालङ्कारः भाषा विक्रमाङ्कदेव और वीरराजेन्द्र चोल के तुङ्गभद्रानदी के तटपर आ जाने पर, दोनो ने भेजे हुए कार्यकुशल पुरुषो के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगो को अभीष्ट गुरुपुष्ययोग के समान उनदोनो का योग अर्थात् मिलाप हुआ । एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः । इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥८१॥ १ गुरुपुष्ययोग पञ्चप्रस्थस्यावामृतसिद्धियोगेष्वेवत्त्वम । यदि विष्टिर्व्यतीपातो दिन वाप्यशुभ भवेत् । हन्यतेऽमृतयोगेन भास्वरेण तमो यथा ॥ मुहूर्तचिन्तामणिटीकायां पीयूषधाराया दीर्घशावरस्य वचनम् । , ,