भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 344, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 344

( ३३६ ) अन्वयः सः कुन्तलक्षितिपतेः प्रभावतः एषः स्वयं सः श्रियः प्रियतमः मम शुभेन कर्मणा दर्शितः इति उद्वधूनयनः सन् अमंस्त । व्याख्या स वीरराजेन्द्रचोलः कुन्तलक्षितिपतेः कुन्तलदेशाधिपस्याऽऽहवमल्लदेवस्य प्रभावतः प्रतापस्य माहात्म्यादेव विक्रमाङ्कदेवः स्वयं साक्षात् स प्रसिद्धः श्रियो लक्ष्म्याः प्रियतमो विष्णुर्मम शुभेन कर्मणा मम पुण्येन दर्शितः प्रत्यक्षीकृत इति पूर्वोक्तमुद्गतान्त्युत्थितान्यश्रूणि हर्ष्याश्रूणि ययोस्ते उद्वधुनी नयने नेत्रे 'लोचनं नयन नेत्रमीक्षणं चक्षुरक्षिणि' इत्यमरः । यस्य स प्रेमाश्रुपूर्णनयनस्सन्नमंस्त ज्ञातवान् । वैदिकपद्धत्या कन्याप्रदान विष्णुरूपिणे वरायैव क्रियत इति तस्य विष्णुस्वरूपत्वमङ्गीकृतमिति भावः । भाषा वीरराजेन्द्र चोल ने, कुन्तलराज आहवमल्लदेव के प्रभाव के माहात्म्य से यह विक्रमाङ्कदेव साक्षात् लक्ष्मी का पति, मेरे पुण्य से मेरे दृष्टिगोचर कराया गया है ऐसा, आनन्द के आँसुओ को नेत्रो से बहाते हुए, माना । पादयोः प्रणतये कृतोद्यमं तं मुदा द्रविडपार्थिवं ततः । विक्रमाङ्कनृपतिर्न्यवर्तयत् तस्य संभ्रमविशेषतोषितः ॥८२॥ अन्वयः ततः विक्रमाङ्कनृपतिः तस्य संभ्रमविशेषतोषितः (सन्) मुदा पादयोः प्रणतये कृतोद्यमं तं द्रविडपार्थिवं न्यवर्तयत् । व्याख्या ततः साक्षात्कारानन्तरं विक्रमाङ्कनृपतिस्तस्य वीरराजेन्द्रचोलस्य सम्भ्रम- विशेषेण हर्षजनितविशिष्टत्वरया समादरविशेषेण वा तोषितः प्रसादितस्सन् मुदा हर्षेण पादयोर्विक्रमाङ्कदेवचरणयोः प्रणतये प्रणमाय कृतस्सम्पादित उद्यम उद्योगो येन स तं कृतोत्साहं तं प्रसिद्धं द्रविडपार्थिवं द्रविड़नृपं वीरराजेन्द्रं न्यवर्तयत् न्यवारयन्निषेधति स्मेत्यर्थः ।