विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 346, कुल 493 में से
संदर्भ में पढ़ें( ३३८ ) व्याख्या इति पूर्वोक्तमुदीरितवतोक्तवता निरन्तरमविच्छिन्नं हर्षजलेन प्रेमाश्रुना पूर्णे व्याप्ते चक्षुषी नेत्रे यस्य तेनाऽऽनन्दाश्रुपरिप्लुतनेनेन तेन द्रविडाधिपेन कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवः परामुत्कृष्टां मुदं हर्षमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिङ्ग च आलिष्टवांश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः । भाषा पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुओं से भरे नेत्र वाले द्रविड देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और उसको गले लगा लिया । अर्धासनप्रणयपूर्णमनोरथोऽथ श्रीकुन्तलेश्वरमवोचत चोलभूपः । प्रत्यादिशन्दशनचन्द्रिकया किरीट- रत्नातपं सदसि राजपरम्पराणाम् ॥८५॥ अन्वयः अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया राजपरम्पराणां किरीटरत्नातपं प्रत्यादिशन् (सन्) श्रीकुन्तलेश्वरम् अवोचत । व्याख्या अथ परस्परालिङ्गनानन्तरं (सिंहासने) अर्धासनस्य प्रणयेन कृपयाऽर्धा- सनप्रदानरूपयेत्यर्थः । पूर्णस्सफलो मनोरथो वाञ्छितार्थो यस्य स चोलभू- पञ्चोलनृपो वीरराजेन्द्रः सदसि सभायां 'समज्या परिषद्गोष्ठी सभा- समितिसंसदः । आस्थानी क्लीवमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । दशनानां दन्तानां चन्द्रिका प्रकाशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां किरीटे मुकुटे रत्नानि मणयस्तेषामातपं प्रकाशं प्रत्यादिशन् निराकुर्वन् सन् श्री- कुन्तलेश्वरं विक्रमाङ्कदेवं प्रत्यवोचतोवाच । एतेन द्राविडेश्वरस्य स्वात्मनि गौरवातिशयो व्यज्यते । वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तभजाः जगौगः' । इति लक्षणात् ।