विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 347, कुल 493 में से
संदर्भ में पढ़ें( ३३९ ) भाषा परस्पर आलिङ्गन के पश्चात् आधे सिंहासन पर बैठाने की कृपा से पूर्ण मनोरथ चोलराज वीरराजेन्द्र ने सभा में अपने दांतों के प्रकाश से अन्य राजाओ के मुकुटमणियो के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा। अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥६६॥ अन्वयः अङ्गानि चन्दनरसात् अपि शीतलानि (सन्ति) । अयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरिताप- गुरुः असौ प्रतापः क्व वसति । व्याख्या अङ्गानि ते शरीरावयवाश्चन्दनस्य श्रीखण्डस्य रसो द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभि कीर्तिभिश्चन्द्र- स्येन्दोरातपं ज्योत्स्नां चन्द्रकिरणसमानशीतकान्तिं वमति प्रकटयति । हे चालुक्यगोत्रतिलक ! हे चालुक्यवंशविभूषण ! ते तव दुर्वृत्तानां दुश्चरित्राणां भूपानां राज्ञां परितापस्य संतापस्य गुरुराचार्यों महीयांश्चातिशयसंताप- कारीत्यर्थः । अथवा परितापेन गुरुः प्रबलः प्रतापः । 'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । क्व कुत्र वसति । त्वयाऽऽलिङ्गनेन तवाव- यवेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहक तेजस्त्वय शरीरे कुत्र वसतीति तु न ज्ञायते इति भावः । अत्रैकविपरीतत्वाज्ज्ञातादृशप्रतापोभयो विस्मयावह इति विषमालङ्कारः । भाषा हे चालुक्य कुलभूषण ! तुम्हारे शरीर के विभिन्न अवयव, चन्दन के रस से भी शीतल हैं । तुम्हारी भुजा (श्वेत) कीर्तियो के कारण से चांदनी के