भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ३३९ ) भाषा परस्पर आलिङ्गन के पश्चात् आधे सिंहासन पर बैठाने की कृपा से पूर्ण मनोरथ चोलराज वीरराजेन्द्र ने सभा में अपने दांतों के प्रकाश से अन्य राजाओ के मुकुटमणियो के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा। अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥६६॥ अन्वयः अङ्गानि चन्दनरसात् अपि शीतलानि (सन्ति) । अयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरिताप- गुरुः असौ प्रतापः क्व वसति । व्याख्या अङ्गानि ते शरीरावयवाश्चन्दनस्य श्रीखण्डस्य रसो द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभि कीर्तिभिश्चन्द्र- स्येन्दोरातपं ज्योत्स्नां चन्द्रकिरणसमानशीतकान्तिं वमति प्रकटयति । हे चालुक्यगोत्रतिलक ! हे चालुक्यवंशविभूषण ! ते तव दुर्वृत्तानां दुश्चरित्राणां भूपानां राज्ञां परितापस्य संतापस्य गुरुराचार्यों महीयांश्चातिशयसंताप- कारीत्यर्थः । अथवा परितापेन गुरुः प्रबलः प्रतापः । 'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । क्व कुत्र वसति । त्वयाऽऽलिङ्गनेन तवाव- यवेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहक तेजस्त्वय शरीरे कुत्र वसतीति तु न ज्ञायते इति भावः । अत्रैकविपरीतत्वाज्ज्ञातादृशप्रतापोभयो विस्मयावह इति विषमालङ्कारः । भाषा हे चालुक्य कुलभूषण ! तुम्हारे शरीर के विभिन्न अवयव, चन्दन के रस से भी शीतल हैं । तुम्हारी भुजा (श्वेत) कीर्तियो के कारण से चांदनी के

( ३४० ) ऐसी ठंडी कान्ति फैलाती है । तुम्हारा दुश्चरित राजाओं को विशेष तपाने वाला वह प्रताप तुम्हारे शरीर में कहाँ रहता है ? धैर्यस्य धाम निधिर्अद्भुतचेष्टितानां दृष्टान्तभूरनवधेः करुणारसस्य । त्वं वेधसा विरचितः सकलादिराज- निर्माणसारपरमाणुसमुच्चयेन ॥८७॥ अन्वयः वेधसा सकलादिराजनिर्माणसारपरमाणुसमुच्चयेन त्वं धैर्यस्य धाम, अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः । व्याख्या वेधसा ब्रह्मणा सकलास्समस्ता आदिराजानो मान्धातृदिलीपप्रभृतय आदि- नृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतम- भागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभृतिनृपरचनासारांशरूपसूक्ष्मतम- भागकदम्बेन त्वं भवान् धैर्यस्य गाम्भीर्यस्य धाम कुलगृहमद्भुतान्याश्चर्योत्पा- दकानि चेष्टितानि व्यापारास्तेषां निधिरकरोऽनवधेर्निर्मर्यादस्य करुणारसस्य दयार्द्रभावस्य दृष्टान्तभूदृष्टान्तभूमिस्तदुदाहरणमित्यर्थः । विरचितो निर्मितः । अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः । भाषा ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के सारभूत परमाणुओं के सङ्ग्रह से गाम्भीर्य के घर, आश्चर्यजनककार्यों का खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की । कन्या विभूषणमियं भुवनत्रयस्य सिंहासनं विपुलमेतदयं ममात्मा । व्यस्तं समस्तमथवा यदिदं गृहाण पुण्यैर्मम प्रणयमेतु यशःपताका ॥८८॥

( ३५१ ) अन्वयः इयं भुवनत्रयस्य विभूषणं कन्या, एतत् विपुलं सिंहासनम्, अयं मम आत्मा । तत् इदं व्यस्तम् अथवा समस्तं गृहाण । मम पुण्यैः यशः- पताका प्रणयम् एतु । व्याख्या इयं पुरतो दृश्यमाना भुवनानां लोकानां त्रयं तस्य त्रिभुवनस्य विभूषण- मलङ्कारः कन्या ममात्मजा, एतदग्रे वर्तमानं विपुलं विशालं सिंहासनं राज्या- धिष्ठातृसमुपवेशनस्थानं, अयं प्रत्यक्षदृश्यो मम मदीय आत्मा शरीरावच्छिन्न आत्मा । तदिदं पूर्वोक्तं वस्तुजातं व्यस्तमेकैकमथवा पक्षान्तरे समस्तं सर्वं मिलितं गृहाण स्ववशमानय । मम पुण्यैश्शुभकर्मजन्यादृष्टराशिभिर्यशःपताका मम कीर्तिवैजयन्ती 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । प्रणयमेतु स्फुरतु । भाषा तीनों लोकों की विभूषणस्वरूप यह मेरी लड़की, यह विशाल राजसिंहासन और यह इस शरीर से आवृत्त मेरी आत्मा, इन सब वस्तुओ या एक एक करके अथवा इन सभी वस्तुओ का इकट्ठा ही आप स्वीकार करें । मेरे पुण्यों से मेरी कीर्तिपताका प्रसन्नता पूर्वक फहराती रहे । अर्थात् मेरे पुण्यो से आपके सम्बन्ध से मेरा यश चिरस्थायी हो । कन्यान्तःपुरधान्नि धैर्यनिधिना माधुर्यधुर्यैः पदै रित्यादि द्रविड़ेश्वरेण निविड़प्रेम्णा मुहुर्व्याहृतः । चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं देवः सोऽथ विनोदयन्मुदमगाच्चालुक्यविद्याधरः ॥८६॥ अन्वयः अथ कन्यान्तःपुरधान्नि धैर्यनिधिना द्रविड़ेश्वरेण माधुर्यधुर्यैः पदैः इत्यादि निविड़प्रेम्णा मुहुः व्याहृतः सः चालुक्यविद्याधरः देवः चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं विनोदयन् मुदम् अगात् ।

( ३४२ ) व्याख्या अथाऽनन्तरं कन्यायाः स्वात्मजाया अन्तःपुरमवरोधनं 'स्त्रीगारं भूभुजामन्तः- पुरं स्यादवरोधनम्' इत्यमरः । एव धाम गृहं तस्मिन् कन्यावरोधगृहे धैर्यस्य गाम्भीर्यस्य निधिराकरस्तेन महार्घपर्वता द्रविड़ेश्वरेण द्रविडाधिपेन वीरराजेन्द्रेण माधुर्याणां मधुरभावानां धुर्या धोरेया अग्रगण्या इत्यर्थः । 'धूर्वहे धुर्य धोरेय धुरीणाः सपुरंधराः' इत्यमरः । तंविशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च निविड़प्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य चालुक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः 'नामैकदेशग्रहणे नाम- ग्रहणमिति' । चोलीनां चोलाङ्गनानां कुटिलासु वक्रासु कुन्तललतादोलासु केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टिं विनोदयन् व्यापारयन्मुद- मानन्दमगात्प्राप । शार्दूलविक्रीडितश्छन्दः । सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् । रूपकमलङ्कारः । भाषा इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड़ देश के राजा, वीरराजेन्द्र द्वारा, विशेष मधुर शब्दो में वार २ घनिष्ट प्रेम से ऐसी २ बातों से सम्बोधित उस चालुक्यवंश में श्रेष्ठ, विक्रमाङ्कदेव ने चोलदेश की अङ्गनाओं के घुंघराले केशलता रूपी झूलों पर अपनी चञ्चल नजर फेरते हुए, आनन्द प्राप्त किया । अर्थात् हवा से हिलने वाले घुंघराले बालवाली अङ्गनाओं को देख कर उसे हर्ष हुआ । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकमट्ट श्री विल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्ग । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात्. भारद्वाजसुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्रे रामकृष्णपण्डितवरात्संप्राप्तसाहाय्यक- श्लोकायुग्ममिदं स्माफरुणया सर्गे शुभे पञ्चमे ॥ ॐ शान्तिः शान्तिः शान्तिः ।

॥ श्री ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम्

षष्ठः सर्गः । सह विभवभरेण तत्र पुत्रीं गुणनिधये नृपनन्दनाय दत्त्वा । कथमपि परिणेतुरभ्यनुज्ञामथ समवाप्य चचाल चोलराजः ॥१॥ अन्वयः अथ चोलराजः तत्र गुणनिधये नृपनन्दनाय विभवभरेण सह पुत्रीं दत्त्वा कथमपि परिणेतुः अभ्यनुज्ञां समवाप्य चचाल । व्याख्या अथ विक्रमाङ्कदेवचोलराजयोस्संमेलनानन्तरं चोलवंशस्य नृपो राजा वीर- राजेन्द्रस्तत्र तुङ्गभद्रातटे गुणानां शौर्यादिगुणानां निधिराश्रयस्तस्मै गुणाश्रयाय नृपस्य राज्ञ आहवमल्लदेवस्य नन्दनाय पुत्राय विक्रमाङ्कदेवाय विभवस्य सम्पत्ते- र्भरस्समूहस्तेन समृद्धिराशिना सह सार्धं पुत्रीं स्वात्मजां दत्त्वा समर्प्य कथमपि केनाऽपि प्रकारेण परिणेतुर्विवाहकर्तुरभ्यनुज्ञामाज्ञां समवाप्य लब्ध्वा चचाल स्वराजधानीं प्रति प्रतस्थे । पुष्पिताग्रावृत्तम् । "अयुजि नयुगरेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताग्रा" इति लक्षणात् । भाषा विक्रमाङ्कदेव और चोलराज के मिलाप होने के अनन्तर, चोलदेश के राजा ने तुङ्गभद्रा नदी के तट पर उस गुण की खान, राजपुत्र विक्रमाङ्कदेव को बहुत सी सम्पत्ति के साथ कन्या प्रदान कर, बड़ी कठिनता से विवाह करने वाले विक्रमाङ्कदेव की आज्ञा पाकर अपनी राजधानी की ओर प्रस्थान किया ।

( ३४४ ) द्रविडनरपतेरदत्त वित्तं निरवधि कुन्तलनाथन्दनोऽपि । यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥२॥ अन्वयः कुन्तलनाथन्दनः अपि द्रविडनरपतेः निरवधि वित्तम् अदत्त । यशसि रसिकताम् उपागतानां गुणरागिणां धनेषु तृणगणना । व्याख्या कुन्तलनाथस्याऽऽहवमल्लदेवस्य नन्दनः पुत्रो विक्रमाङ्कदेवोऽपि द्रविडस्य द्रविडदेशस्य नरपते राज्ञश्चोलराजस्य नास्त्यवधिःसीमा यस्य तन्निरवधि प्रभूतं वित्तं धनमदत्त दत्तवान् याचकेभ्य इत्यर्थः । यशसि कीर्त्तौ 'यश. कीर्तिः समज्ञा च' इत्यमरः । रसिकतामानन्दानुभूतिमुपागतानां प्राप्तानां गुणेषु सौजन्यादिगुणेषु रागिणोऽनुरागमन्तस्तेषां गुणस्नेहिनां धनेषु वित्तेषु वित्तविषय इत्यर्थः । तृणस्य घासस्य 'शष्पं बालतृणं घासः' इत्यमरः । इव गणना दृष्टिर्भवति । यशस्विनां धनं तृणवन्निर्म्मूल्यमिति भावः । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासोऽलङ्कारः । भाषा कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने भी द्रविड राजा के अपरिमित वित्त को याचको को दे दिया । यश में रसिकता रखने वाले गुणग्राही जन, धन को तृणवत् समझते हैं । मुदितमनसि जातमानसिद्धौ गतवति तत्र गुणैकपक्षपाती । प्रतिपदमृदकण्ठत क्षितीन्दुः कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥ अन्वयः गुणैकपक्षपाती क्षितीन्दुः जातमानसिद्धौ मुदितमनसि तत्र गतवति (सति) प्रतिपदम् उदकण्ठत । निर्मलानां मनांसि कुसुममृदूनि (भवन्ति) । व्याख्या गुणेष्वेव सौजन्यादिगुणेष्वेवैको मुख्यः पक्षपातः स्नेहो यस्य स गुणैकानुरक्तः क्षिते पृथ्व्या इन्दुश्चन्द्रो विक्रमाङ्कदेवो (आल्हादकत्वात्) जाता सम्पन्ना मान- स्याऽऽदरस्य सिद्धिर्निष्पत्तिर्यस्य स तस्मिन् मुदितं हृष्टं मनश्चित्तं यस्य स तस्मिन्

( ३४५ ) प्रहृष्टचेतसि तत्र द्रविडनृपतौ गतवति सति स्वनगरं प्रति प्रस्थिते सति प्रतिपदं प्रतिक्षणमुदकण्ठत समुत्सुको बभूव । तस्य स्मरणेन प्रसङ्गो बभूवेत्यर्थः । निर्मलानाम स्वच्छहृदयानां मनांसि चेतांसि कुसुमवत्पुष्पवन्मृदूनि कोमलानि भवन्ति । भाषा केवल गुणों से ही स्नेह करने वाला, पृथ्वी भर के लोगों को सुख देने वाला विक्रमाङ्कदेव, अपने आदर की सिद्धि से प्रसन्न चित्त, द्रविड राजा के चले जाने पर, क्षण २ में उसके लिये उत्कण्ठित होता था । स्वच्छ हृदय वाले मनुष्यों के मन, फूल के ऐसे कोमल होते हैं । द्रविडपतिकथाद्भुत क्षणेषु क्षितिपति सूनुरसौ गुणानुरागी । पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयाञ्चकार ॥४॥ अन्वयः विपुलमतिः गुणानुरागी असौ क्षितिपतिसूनुः द्रविडपतिकथाद्भुत- क्षणेषु पुलकपरिकरैः कपोलपालीं परिपूरयाञ्चकार । व्याख्या विपुला विशुद्धोदारेत्यर्थः । मतिर्बुद्धि 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मति' इत्यमरः । मह्य स उदारप्रज्ञो गुणेषु सौजन्यादिगुणेष्वनुरागः प्रेम यस्य स गुणस्नेह्यसौ प्रसिद्ध क्षितिप्तेर्नृपस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेशो द्रविडपतेश्चोलराजस्य कथानां वार्तानामद्भुता आश्चर्यन्विता क्षणा अवसरास्तेषु चोलराजसम्बन्धिप्रवृत्तन्तचर्चाकालेषु पुलकानां रोमाञ्चानां परिकरास्समूहास्तै रोमाञ्चप्रकरै कपोलपालीं गण्डस्थलीं परिपूरयाञ्चकार परिपूर्णाञ्चकार । तस्य चोलराजस्य स्मरणमात्रेण प्रेम्णा स रोमाञ्चितोऽभूदिति भावः । भाषा निर्मल बुद्धि वाले गुणग्राही राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के गाल, चोलराज की अद्भुत बातचीत के सिलसिले में रोमाञ्चित हो उठते थे । किमिति न गमनान्निवारितोऽसौ परिचयमेष्यति चक्षुषोः पुनः किम् । इति सुजनशिरोमणिः कुमारः किमपि चिरं परिचिन्तयाञ्चकार ॥५॥

( ३४६ ) अन्वयः असौ गमनात् किम् इति न निवारितः । सुजनशिखामणिः किम् पुनः चक्षुषोः परिचयम् एष्यति इति कुमारः किमपि चिरं परिचिन्तयाञ्चकार । व्याख्या असौ द्रविडनरपतिर्गमनात्स्वनगरप्रयाणात् किमिति न कुतो न निवारितः प्रतिषिद्धः । सुजनानां सज्जनानां शिखामणिशिरोरत्न श्रेष्ठ इत्यर्थः । द्रविडा- धिराजः किमिति प्रश्ने पुनः भूयश्चक्षुषोर्नयनयोः परिचयं गोचरत्वमेष्यति समाग- मिष्यतीतीत्यं प्रकारेण कुमारो विक्रमाङ्कदेवः किमपि विचित्रमवर्णनीयं चिरं बहुकाल परिचिन्तयाञ्चकार विचारं कृतवान् । भाषा मैंने द्रविडराजा को अपने घर जाने से क्यो नही रोका ? क्या वह सज्जन शिरोमणि फिर कभी दृष्टि-गोचर होगा ? वह राजकुमार विक्रमाङ्कदेव ऐसी २ चिरकाल तक चिन्ता किया करता था । द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसम्पदास्पदं सः । प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ अन्वयः सः द्रविडनृपतिपुत्रिकां त्रिभुवनदुर्लभसम्पदास्पदं चकार । प्रणयिषु शुभचेतसां प्रसादः सन्ततिम् अपि अनुग्रहीतुं प्रसरति । व्याख्या स विक्रमाङ्कदेवो द्रविडनृपतेश्चोलाधीशवरस्य पुत्रिकामात्मजां त्रिभुवनस्य त्रैलोक्यस्य दुर्लभा दुष्प्राप्या या सम्पत्सम्पत्तिस्तस्या आस्पदं स्थानं चकार निष्पादितवान् । विक्रमाङ्कदेवस्तत्कन्यायै प्रभूतसम्पत्तिं ददावित्यर्थः । प्रणयिषु स्नेहाद्विनिष्ठेषु शुभं कल्याणकारि चेतश्चित्तं येषां ते तेषां महोपकारिणां महाजनानां प्रसादः प्रसन्नता ‘प्रसादस्तु प्रसन्नता’ इत्यमरः । सन्तति सन्तानमपि कन्यापुत्रादीनपीत्यर्थः । अनुग्रहीतुं कृपां प्रदर्शयितुं प्रसरति प्रवर्तते । द्रविडराज- प्रेम्णा तत्पुत्रीमप्यनुगृह्णाति स्मेति भावः । पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्त- रन्यासो ऽलङ्कारः ।

( ३४७ ) भाषा उसने द्रविडराज की लड़की को तीनों लोकों में दुर्लभ सम्पत्ति दी । अपने स्नेहियों के सम्बन्ध में कल्याण करने की चित्तवृत्तिवालों की कृपा, उनके कन्या पुत्रादि पर भी हो जाती है । रणरभसविलासकौतुकेन स्थितिमथ बिभ्रदमौ यशोवतंसाम् । विधिहतकदुराग्रहादकाण्डे गतमशृणोद्द्रविडेन्द्रमिन्द्रधाम्नि ॥७॥ अन्वयः अथ रणरभसविलासकौतुकेन यशोवतंसां स्थिति बिभ्रत् असौ' विधिहतकदुराग्रहात् अकाण्डे द्रविडेन्द्रम् इन्द्रधाम्नि गतम् अशृणोत् । व्याख्या अथ किञ्चित्कालानन्तरं रणो युद्ध तस्य रभसो हर्षः 'रभसो हर्षवेगो' इति विश्वः । तस्य विलास क्रीड़ा लीला तस्य कौतुकं कुतूहलं तेन युद्धजनितहर्षलीला- कुतूहलेन यश कीर्तिरवतंसो भूषणं यस्यास्ता तां कीर्तिभूषणां स्थितिमवस्थां बिभ्रद्धारयन्नसौ विक्रमाङ्कदेवो विधिर्ब्रह्मा स एव हतको नीचस्तस्य दुराग्रहाद्- दुरभिनिवेशादकाण्डेऽनवसरे द्रविडेन्द्रं चोलराजमिन्द्रधाम्नि स्वर्गे गत प्राप्तं मृतमित्यर्थं । अशृणोदाकर्णितवान् । भाषा कुछ काल के अनन्तर, युद्ध जनित हर्ष की लीला के कुतूहल द्वारा यश से विभूषित अवस्था में विद्यमान उस विक्रमाङ्कदेव ने क्रूर दैव के दुराग्रह से द्रविड़देश के राजा की असमय में ही स्वर्ग में जाने की बात सुनी । मृदुहृदयतया गुणानुरागादतिमहतः प्रणयाच्च राजपुत्रः । हिमकरकरकाण्डपाण्डुगण्ड-स्थलगलदश्रुजलश्चिरं ललाप ॥८॥ अन्वयः राजपुत्रः मृदुहृदयतया गुणानुरागात् अतिमहतः प्रणयात् च हिमकर करकाण्डपाण्डुगण्डस्थलगलदश्रुजलः (सन्) चिरं शलाप ।

( ३४८ ) व्याख्या राजपुत्रो नृपनन्दनो विक्रमाङ्कदेवो मृदु कोमलं हृदयं चित्तं यस्य स मृदु- हृदयस्तस्य भावो मृदुहृदयता तया कोमलचित्तत्वात् गुणेषु सौजन्यादिगुणेष्व- नुरागः प्रेम तस्माद्गुणपक्षपातित्वादतिमहतोऽतिबृहतः प्रणयाच्च स्नेहाच्च हिमाश्शीतलाः कराः किरणा यस्य स हिमकरश्चन्द्रस्तस्य करा अंशवः 'किरणो- स्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचिः स्त्री पुंसयोर्दीधितिः स्त्रियाम्' इत्यमरः । तेषां काण्डानि समूहास्तद्वत्पाण्डु श्वेतं गण्डस्थलं कपोलस्त- स्माद्गलत्परिपतद्बाष्पजलं बाष्पाम्भो यस्य स चन्द्रकिरणश्वेतकपोलगलद्बाष्पा- म्बुस्सन् चिरं बहुकालं रुलाप विललाप विलापं चकारेत्यर्थः । अत्राऽनुप्रासः 'शब्दालङ्कार । अत्र 'रुलाप' इति क्रियापदे अवाचकत्वं नाम दोषः, उपसर्ग विनाऽर्थबोधकत्वाऽभावात् । भाषा वह राजपुत्र, कोमल हृदय होने से, गुणों के अनुराग के कारण तथा अत्यधिक प्रेम से, चन्द्रमा की किरणों के समान सफेद पड़ गए हुए गालों पर से आंसुओं को गिराता हुआ बहुत देर तक विलाप करता रहा । द्रविडविषयराज्यविप्लवेन श्रवणपथातिथिना ततः सखेदः । व्यभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुच्चचाल ॥६॥ अन्वयः ततः असौ श्रवणपथातिथिना द्रविडविषयराज्यविप्लवेन सखेदः (सन्) अभिजनवति चोलराजपुत्रे श्रियम् अभिषेक्तुं समुच्चचाल । व्याख्या ततश्चोलराजविषयकशोकानन्तरमसौ विक्रमाङ्कदेवः श्रवणयोः कर्णयोः पन्था मार्ग इति श्रवणपथः कर्णकुहरमार्गस्तस्याऽतिथिर्विषयस्तेन श्रुतेनेत्यर्थः । द्रविड- विषयो द्रविडदेशस्तस्य राज्यं शासनं तस्मिन् विप्लवो डिम्बः 'डिम्बे डमर- विप्लवौ' इत्यमरः । तेन, खेदेन दुःखेन सहितः सखेदो दुःखाक्रान्तस्सन्नभिज- नवति कुलीने 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । चोलराजपुत्रे वीरराजेन्द्रात्मजेऽधिराजराजेन्द्रनामके श्रियं राज्यलक्ष्मीमभिषेक्तुं प्रतिष्ठापयितुं समुच्चचाल प्रतस्थे ।

भाषा • शोक मनाने के बाद, द्रविड़देश के राज्य में विप्लव होने की खबर सुन कर, दुःखिन हो, वह विक्रमाङ्कदेव, कुलीन चोलराजा वीर राजेन्द्र के अधिराज- राजेन्द्र नामक पुत्र को राजगद्दी पर बैठाने के लिये चल पड़ा । करटिशतविकीर्णकर्णताल-व्यजनसमीरणशीतलीकृतानि । अथ धरणिभुजां पिबन्यशांसि क्षितिपतिरादिपुरीमवाप काञ्चीम् ॥१०॥ अन्वयः अथ क्षितिपतिः करटिशतविकीर्णकर्णतालव्यंजनसमीरणशीतलीकृतानि धरणिभुजां यशांसि पिबन् आदिपुरीं काञ्चीम् अवाप । व्याख्या अथ चोलदेशम्प्रति प्रस्थानानन्तर क्षितिपतिः पृथिव्या अधिष्ठाता करटीनां गजाना शतं तेन विकीर्णानि विक्षिप्तानि कर्णा एव तालाः तालवृक्षपर्णानि तान्येव व्यजनानि तालवृन्तानि तेषां समीरणेन पवनेन शीतलीकृतानि, अशोतलानि शीतलानि कृतानीति शीतलीकृतानि 'ष्विः' प्रत्ययः । विपक्षनृपाणा प्रतापजनि- तोष्मानिवार्य हिमीकृतानि धरणिभुजा पृथिवीपालानां यशांसि कीर्तीः दुग्धमिव पिबन् गृह्णन्नादिपुरीं प्रथमनागरीं काञ्चीं तन्नामचोलराजधानीमवाप सम्प्राप्तः । यशसः श्वैत्य प्रसिद्धमिति शुग्धरूपता व्यज्यते, एधं शत्रुभूपानां यशोदुग्धं पिवन्निव समाऽऽजगामेति भावः । भाषा चोलदेश के प्रति प्रस्थान करने के अनन्तर, सैकडो हाथियो के हिलाए हुए कान रूपी ताल पत्र के पंखो से उत्पन्न वायु से ठण्डे किए हुए विपक्षी राजाओ के यशो का पान करते हुए वह पृथ्वी का सरक्षक विक्रमाङ्कदेव प्राचीन नगरी काञ्ची में पहुँच गया । अर्थात् हाथी की सेना से शत्रुओ को परास्त कर उनकी प्रताप की गर्मी शान्त होने से उनका शीतल दुग्ध के समान यश, अपने परिश्रम से लगी प्यास को मिटाने के लिए, पान करता हुआ काञ्ची नगरी में पहुँचा ।

( ३५० ) समजनि कलमेखलाकलाप-ध्वनिजयडिण्डिमसज्जपुष्पचापम् । अथ चडुलकटाक्षबाणवर्ष-प्रगुणममुष्य पुरः पुरन्ध्रिचक्रम् ॥११॥ अन्वयः अथ अमुष्य पुरः पुरन्ध्रिचक्रं कलमेखलाकलापध्वनिजयडिण्डिम- सज्जपुष्पचापं चडुलकटाक्षबाणवर्षप्रगुणं समजनि । व्याख्या अथ काञ्चीपुरीसमागमनान्तरममुष्य विक्रमाङ्कदेवस्य पुरोऽग्रे पुरन्ध्रीणा साध्वीना ललनाना 'पुरन्ध्री'सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । चक्र समूहो मेखलाना काञ्चीना कलापस्समूहस्तस्य ध्वनिस्स्वन इति मेखलाकलाप- ध्वनिः कलो मधुरो यो मेखलाकलापध्वनिः स एव जयडिण्डिमो विजयसूचक- वाद्यविशेषशब्दस्तेन सज्जस्सुसज्जितः पुष्पचापः कुसुमायुधः कामो येन तत्, चटुलाश्चञ्चलाः कटाक्षा एव बाणाश्शरास्तेषां वर्षे वृष्टिस्तेन प्रगुणं प्रकृष्टगुण- युक्तं समजन्यभूत् । तत्र नागरीणा काञ्चीशब्देन कटाक्षवीक्षणेन च काम- साम्राज्यमिव प्रदर्शितमिति भावः । भाषा विक्रमाङ्कदेव के काञ्चीनगरी में पहुंचने पर इसके सामने वहां की नागरिक ललनाएं मानो सुन्दर करधनियो के शब्द रूप जयध्वनि के नगाडे के शब्द से कामदेव को उत्साहित करने वाली तथा चञ्चल कटाक्ष रूपी बाणो की वृष्टि करने वाली, हो गई । अधरहसितकिंशुका शुकाय क्रमुकदलं वदनस्थमर्पयन्ती । क्षितिपतितनयेऽत्र कापि नेत्र-प्रणयिनि चुम्बनचातुरीमुवाच ॥१२॥ अन्वयः अधरहसितकिंशुका का अपि वदनस्थं क्रमुकदलं शुकाय अर्पयन्ती (सती) नेत्रप्रणयिनि अत्र क्षितिपतितनये चुम्बनचातुरीम् उवाच । व्याख्या अधरेण अधरोष्ठेन रक्तवर्णत्वात् हसितः अधरीकृतः किंशुको रक्तवर्णपला- शपुष्पं यया सा स्वरक्तवर्णाधरेणाधरीकृतरक्तवर्णकिंशुका रक्तवर्णाधरोष्ठेति

( ३५१ ) भावः । काऽपि नगररमणी वदने मुखे तिष्ठतीति तं मुखान्तर्वर्तिनं क्रमुकस्य पूगस्य दलं खण्डं शुकाय कीराय मुखेनैवार्पयन्ती ददती सती नेत्रयोः कामिनीनयनयोः प्रणयः स्नेहोऽस्त्यस्मिन्निति नेत्रप्रणयी तस्मिन्नेत्रप्रणयिनि दृष्टिगोचरेऽग्रवर्त्तिनि क्षितिफ्ते राज्ञ आहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे चुम्बनस्य वक्त्रसंयोगस्य चातुरी वैदग्ध्यं सा चुम्बनवैदग्ध्यमुवाच प्रकटयाम्बभूव । भाषा अपने लाल अधर पल्लव से पलास के लाल फूल की हंसी उड़ाने वाली नागरी ललना, अपने मुख में विद्यमान सुपारी के टुकड़े को अपने मुख से ही सुग्गे के मुख मे देती हुई मानो राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के प्रति चुम्बन करने के कौशल को प्रकट करती थी । गृहशिखरमगम्यमप्यरोहद् द्रुतमवधीरितपातभीतिरन्या । मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुणयः ॥१३॥ अन्वयः अन्या अवधीरितपातभीतिः (सती) अगम्यं गृहशिखरं द्रुतम् अध्य- रोहत् । मनसिजपौरुषवासिताः तरुण्यः मरणम् अपि तृणं समर्थयन्ते । व्याख्या अन्याऽपरा रमण्यवधीरिता तिरस्कृता त्यक्तेत्यर्थः । पातस्य पतनस्य भीतिर्भयं यया सा त्यक्तपतनभया सती गन्तु योग्यं गम्यं न गम्यमगम्यमारोदु- मनर्हं गृहाणा गेहाना 'गृहं गेहोऽध्यवसितम्' इत्यमरः । शिखरं शृङ्गं सर्वोच्च- स्थानमित्यर्थः । द्रुतं शीघ्रमध्यरोहदारुरोह । मनसिजस्य कामस्य पौरुषेण विक्रमेण वासिता युक्ताः कामवासनाभिभूतास्तरुण्यो युवतयो मरणमपि मृत्युमपि तृण तृणवत्तुच्छ समर्थयन्ति मन्यन्ते । अत्र पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्तर- न्यासो नामाऽलङ्कारः । भाषा कोई नागरी इसको देखने के लिये, गिरने का भय छोड़ कर जल्दी से न चढ़े जाने योग्य घर के सबसे ऊंचे भाग पर चढ़ गई । कामदेव के पराक्रम से अभिभूता अर्थात् कामासक्त युवतियाँ, मौत को भी तृण के समान तुच्छ समझती हैं ।

( ३५२ ) कलकलमपरा मुधा विधाय क्षितितिलकान्नयनान्तमाससाद । अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥१४॥ अन्वयः अपरा मुधा कलकलं विधाय क्षितितिलकात् नयनान्तम् आससाद । मृगीदृशां तृतीयं मनसिजचक्षुः उपायदर्शनेषु अवतरति । व्याख्या अपरा काचित् कामिनी मुधा व्यर्थमेव प्रयोजनमन्तरेणैवेत्यर्थः । कलकलं कोलाहलं 'कोलाहलः कलकलः' इत्यमरः । विधाय कृत्वा क्षितितिलकाद्भूमि- भूषणाद् विक्रमाङ्कदेवाश्रयनोर्नेत्रयोरन्तमपाङ्गभागमाससाद प्राप । कलकल- मिषेण तस्य दृष्टिमाचकर्षेति भावः । मृगीणां हरिणीना दृशो नेत्राणीव दृशो यासां तास्तासां हरिणनयनानां तृतीयं तृतीयसंख्याकं मनसिजः कामः एव चक्षुर्नयनं कामनयनमुपायान् यत्किञ्चिद्व्याजरूपोपायानां दर्शनमवलोकनं प्रयोग इत्यर्थः । तेषु स्वाभीष्टसिद्धयुपायप्रयोगेष्ववतरति फलति । काम एव तरुणीनां विभ्रमा- दिचमत्कृतानन्यसाधारणव्यवहारशिक्षक इति भावः । पूर्वार्धस्योत्तरार्धेन समर्थना- दर्थान्तरन्यासोऽलङ्कारः । भाषा किसी अन्य स्त्री ने, अकारण कोलाहल मचाकर, विक्रमाङ्कदेव का दृष्टिकोण अपनी ओर आकर्षित कर लिया । मृगनयनियों का कामरूपी तृतीय नेत्र, (ऐसे २) उपायों को सुझा देता है । हृदि विहितपदेन शुद्धभासा कृतमधरं धरणीन्द्रसूनुनेव । निपतितमवधीर्य हारमन्या हरिणविलो लत्रिलोचना जगाम ॥१५॥ अन्वयः हरिणविलो लत्रिलोचना अन्या शुद्धभासा हृदि विहितपदेन धरणीन्द्र- सूनुना अधरं कृतम् इव निपतितं हारम् अवधीर्य जगाम । व्याख्या हरिणस्य मृगस्य इव विलोले चञ्चले विलोचने नेत्रे यस्याः सा मृगचञ्चल- नयनान्या काचित्तरुणी शुद्धा निर्मला भाः कान्तिर्यस्य तेन निर्मलकान्तिमत्ता 'स्पृः

, प्रभाहरुचिस्त्विड्भा भाश्छविद्युतिदीप्तय' इत्यमरः । हृदि वक्षःस्थलेऽन्त करणे च विनिहितं स्थापितं पदं स्थानं येन स तेन कृतस्थानेन धरणीन्द्रस्य नृपतेराहवमल्ल- देवस्य सूनुः पुत्रस्तेन विक्रमाङ्कदेवेनाऽधरं निम्नस्थानस्थितं गुणैर्न्यूनञ्च कृतमिव सम्पादितमिवाऽत एव निपतितमधोभ्रष्टं हारं मुक्तामालामवधीर्य परित्यज्य जगाम गता। कुमारं द्रष्टुं गताऽन्या काऽपि स्त्री रभसात् निपतितां हृदिस्थां मुक्तामालां परित्यज्य जगाम । यत हारस्य स्थाने ललनाहृदयं शुद्धभासा कुमारेणाऽश्रितंत्वात्तस्य निम्नस्थानगतत्वात्पतनमुत्प्रेक्षितमिति भावः । श्लेषा- नुप्रणितोत्प्रेक्षा । भाषा मृग के समान चञ्चल नेत्र वाली कोई ललना, निर्मलकान्तिवाले और ललना के हृदय में स्थान बनाने वाले राज पुत्र से, मानो नीचे खसकाए गये हुए अतएव वक्ष स्थलपर से गिरे हुए हार की परवाह न कर चली गई । उरसि मनसिजावतंसलीला-समुचितकोमलपल्लवानुकाराम् । नखलिपिमपरा प्रकाशयन्ती सुरतविमर्दसहत्वमाचचक्षे ॥१६॥ अन्वयः अपरा उरसि मनसिजावतंसलीलासमुचितकोमलपल्लवानुकारां नखलिपिं प्रकाशयन्ती सुरतविमर्दसहत्वम् आचचक्षे । व्याख्या अपराऽन्या कामिन्युरसि वक्षःस्थले मनसिजस्य कामस्य याऽवतंसलीला भूषणरूपविलासात्तस्याः समुचितो योग्यः कोमलपल्लवो मृदुकिसलयः 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । तस्याऽनुकारोऽनुकणं यस्याः सा तां मन्मथभूषण- विलासयोग्यमृदुकिसलयसदृशाकृतिंमर्द्धवृत्ताकारामित्यर्थः । नखलिपिं नखक्षत- परम्परां प्रकाशयन्ती प्रदर्शयन्ती सुरते निधुवनक्रीडायां यो विमर्दः संप्रधर्षस्तं सहते इति सुरतविमर्दसहस्तस्य भावस्तत् सुरतक्रीडासंघर्षक्षमत्वमाचचक्षे कथितवती । भाषा अन्य किसी नारी न अपनी छाती पर कामदेव के भूषण की शोभा के योग्य कोमल पत्तो की आकृति के अर्धवृत्ताकार नखक्षतो को दिखाते हुए, अपनी सुरत कालीन झकझोर को सहने की योग्यता प्रकट की । २३

( ३५४ ) अभजत मणिकुण्डलं परस्याः श्रवणपरिच्युतमंसदेशमेत्य । गलविगलितपुष्पबाणचक्र-श्रियमसितोत्पलचारुलोचनायाः ॥१७॥ अन्वयः असितोत्पलचारुलोचनायाः परस्याः मणिकुण्डलं श्रवणपरिच्युतं (सन्) अंसदेशम् एत्य गलविगलितपुष्पबाणचक्रश्रियम् अभजत । व्याख्या असितं नीलमुत्पलं कमल तद्वच्चारूणी सुन्दरे लोचने नेत्रे यस्याः सा तस्या नीलकमलवत्सुन्दरनेत्रायाः परस्या अन्यस्याः ललनाया मणिकुण्डल रत्नावतंसः श्रवणाभ्यां कर्णाभ्या परिच्युतं पतित सत् अंसदेशं स्कन्धस्थलमेत्य सम्प्राप्य गले कण्ठदेशे विगलितास्सम्प्राप्ताः पुष्पबाणाः कुसुमसायकास्तेषा चक्रं समूहस्तस्य श्रियं शोभामभजत धारयामास । मणिकुण्डलस्य पुष्पबाणेन साम्यादुपमा । मणिकुण्डलस्य वर्तुलाकारत्वात् कामस्य चक्रश्रियंमभजतेत्यर्थः समीचीनः । परन्तु कामस्य चक्रधारणमप्रसिद्धम् । भाषा किसी नीले कमल के ऐसे सुन्दर नेत्रवाली नारी के कान में का मणिकुण्डल गिर कर उसके गले पर आ पडने से वह गले पर पडे हुए कामदेव के फूल के बाण समूहों की शोभा को प्राप्त करता था । कान के आभूषण के गोल होने से कामदेव के चक्र की शोभा अर्थ ही ठीक है । परन्तु कामदेव का चक्र धारण अप्रसिद्ध है । परिकलितचुलुक्यराजपुत्र-प्रथमविलोकनकौतुक्त्वराणाम् । इति नगरकुरङ्गलोचनाना-मभवदनङ्गविलोभनो विलासः ॥१८॥ अन्वयः परिकलितचुलुक्यराजपुत्रप्रथमविलोकनकौतुक्त्वराणां नगरकुरङ्गलोच- नानाम् इति अनङ्गविलोभनः विलासः अभवत् । व्याख्या परिकलितेति विदितः कँश्चिच्चिह्नविशेषैर्विज्ञात इत्यर्थं । यश्चुलुक्यराजपुत्रो

( ३५५ ) विक्रमाङ्कदेवस्तस्य प्रथमवलोकनस्य सर्वप्रथमसद्दर्शनस्य यत्कौतुकं कौतूहलं तस्मिन् त्वरा सम्भ्रमो यासां तास्तासां नगरस्य काञ्चीपुर्याः कुरङ्गीलोचना मृगनय- नास्तासां कामिनीनामिति पूर्वोक्तप्रकारोऽनङ्गस्य कामस्य विलोभनो विमोहनोऽ- ऽनङ्गविलोभनो मदनमोहनो विलासो नानाविधकामसम्बन्धिचेष्टाविशेषोऽभवत् प्रादुर्बभूव । भाषा किसी प्रकार चिह्नादि से पहिचान में आए हुए चालुक्य वंशीय राजकुमार विक्रमाङ्कदेव के पहिले पहिल दर्शन की उत्कण्ठा से त्वरा करने वाली नागरिक मृगनयनियों की पूर्वोक्त प्रकार की काम सम्बन्धि चेष्टाएं हुईं । 'नरपतितनयः कयापि कोप-स्फुरितरदच्छदलेखयालुलोके । प्रकटितपटुपञ्चबाणलीला-कलकिलकिञ्चितमीक्षणाञ्चलेन ॥१६॥ अन्वयः कोपस्फुरितरदच्छदलेखया कया अपि ईक्षणाञ्चलेन प्रकटितपटुपञ्च- बाणलीलाकलकिलकिञ्चितं नरपतितनयः आलुलोके । व्याख्या कोपेन क्षोभेण स्फुरितस्सञ्चलितः कम्प्यमानो वा यो रदच्छदोऽधरस्तस्य लेखा अधरदेशः 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । यस्याः सा तया क्रोधकम्पितसूक्ष्माधररेखया कयाऽपि नायिकया ईक्षणयोर्नेत्रयोरञ्चलः प्रान्त- भागस्तेन कटाक्षेण प्रकटिता प्रकाशिता पटुर्विदग्धवैदग्ध्यसमेता या पञ्चबाणस्य कामस्य लीला क्रीडा तया कलं मधुरं किलकिञ्चितं कामजनितक्रोधाश्रुहर्ष- भीत्यादिमिश्रितभावविशेषो यस्मिन्कर्मणि तद्यथास्यात्तथा नरपतितनयो राजपुत्रो विक्रमाङ्कदेव आलुलोके सद्दष्टः । भाषा क्रोध से फुरफुराने वाले ओंठ से युक्त, किसी नारी ने कामदेव की चातुरी युक्त मनोहर लीला से आभ्यन्तरिक राग क्रोधादि भावों को प्रकट करते हुए, राजपुत्र विक्रमाङ्कदेव को कटाक्ष से देखा । १ सन्दर्भदृष्ट्या श्लोकोऽयं पूर्वश्लोकात्प्रागेव स्थानमपेक्षते ।

( ३५६ ) कनक सदनवेदिकान्तराल-ग्रथितपदः क्षितिपालनन्दनोऽसौ । सुरशिखरिटटीविटङ्कमध्य-प्रणयिनमुष्णकरं निराचकार ॥२०॥ अन्वयः कनक सदनवेदिकान्तरालग्रथितपदः असौ क्षितिपालनन्दनः सुरशिख- रिटटीविटङ्कमध्यप्रणयिनम् उष्णकरं निराचकार । व्याख्या कनकस्य सुवर्णस्य यत्सदनं गृहं तस्य वेदिका समुपवेशनाय परिष्कृता भूमिः 'वेदिः परिष्कृता भूमि.' इत्यमरः । तस्या अन्तरालं मध्यं 'अभ्यन्तरं त्वन्तरालम्' इत्यमरः । तस्मिन् ग्रथितं विहितं पदं चरणं येन स असावथ क्षितिपालस्याह- हवमल्लदेवस्य नन्दनः कुमारो विक्रमाङ्कदेवः सुराणां देवानां शिखरी पर्वतस्सु- वर्णाद्रिः सुमेरुस्तस्य तटी प्रान्तभाग एव विटङ्कमुन्नतस्थानं तस्य मध्यं मध्यभाग- स्तस्य प्रणयी स्नेहवान्भवंस्तद्वर्तित्यर्थः । समुष्णकरं सूर्यं निराचकार तिरश्चकार । निजोग्रप्रतापेन स्वर्णवेदिविद्यमानत्वेनानुपमशोभया तिरश्चकारेति भावः । भाषा सोने के घर के चौतरे पर चरण रखने वाले राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने (सोने के) सुमेरु पर्वत के प्रान्त भाग की उच्च भूमि के मध्य में विराजित सूर्य को नीचा दिखाया । अर्थात् सूर्य के समान तेजस्वी विक्रमाङ्क- देव के सोने के बने घर की वेदिका पर विराजित होने से इसकी शोभा के सामने सुमेरु पर्वत के प्रान्तभाग में विराजित सूर्य की शोभा फीकी पड गई । कतिचिदपि दिनानि तत्र नीत्वा परिसरभूमिषु भूरिभिर्विलासैः । चरणतलनिपिष्टदुष्टवर्गः पुरमवलोकयति स्म गाङ्गकुण्डम् ॥२१॥ अन्वयः चरणतलनिपिष्टदुष्टवर्गः (असौ) तत्र परिसरभूमिषु भूरिभिः विलासैः कतिचित् अपि दिनानि नीत्वा गाङ्गकुण्डं पुरम् अवलोकयति स्म । व्याख्या चरणतले पादतले निपिष्टा दलिता दुष्टवर्गाः शत्रुसमूहा येन स असौ

( ३५७ ) विक्रमाङ्कदेवस्तत्र काञ्चीनगरे परिसरभूमिषु नगरबहिर्भागेषु भूरिभिर्बहुविधवि- लासैर्मनोविनोदकृत्यैः कतिचिदपि कानिचिदपि विनाय्यहानि नीत्वा व्यतीत्य गाङ्गकुण्डं पुरं राजेन्द्रचोलनिर्मापितां गाङ्गकुण्डचोलपुराख्यां चोलदेशस्यैकां राजधानीम् अवलोकयति स्म पश्यति स्म तत्र गतवानित्यर्थः । भाषा विपक्षी दुष्ट राजाओ को अपने पैर तले कुचलने वाले राजपुत्र विक्रमाङ्क- देव ने काञ्ची नगरी के आस पास के प्रदेशो के विहार में कुछ दिन बिताकर राजेन्द्रचोल द्वारा बसाए हुए गाङ्गकुण्ड चोल पुर को देखा अर्थात् वहाँ गया । श्लोकद्वयेन गाङ्गकुण्डचोलपुरं वर्णयति कविः— द्रविडनरपतिप्रतापभीत्या किमपि गते पयसां निधौ परस्तात् । यदविहितविवाहमङ्गलाया बहिरिव निर्गतमादिधाम लक्ष्म्याः ॥२२॥ अन्वयः यत् पयसां निधौ द्रविडनरपतिप्रतापभीत्या किमपि परस्तात् गते (सति) ऽविहितविवाहमङ्गलायाः लक्ष्म्याः आदिधाम बहिः निर्गतम् इव । व्याख्या यद्गाङ्गकुण्डचोलपुरं पयसां जलानां निधावाकरे समुद्रे द्रविडस्य नरपतिर्भूं पस्तस्य प्रतापः प्रभावस्तस्माद्भीतिर्भयं तया चोलदेशनृपभयेन किमपि किञ्चिदपि परस्तात् पृष्ठभागे गते प्राप्ते सति स्वस्थानं विमुच्य किञ्चित्स्थलप्रदेशमपसृते सति न विहितमविहितमसम्पादितं विवाहमङ्गलं पाणिग्रहणोत्सवो यस्याः सा तस्या अपरिणीताया लक्ष्म्याः श्रिय आदिधाम प्रथमगृहं बहिर्निर्गतमिव समुद्राद्बहिरा- गतमिव । गाङ्गकुण्डचोलपुरस्य लक्ष्मीप्रथमगृहत्वेनोत्प्रेक्षणादपरिमितसम्प- त्तिशालित्वञ्च द्योत्यते । अत्रोत्प्रेक्षालङ्कारः । भाषा जो गाङ्गकुण्डचोलपुर द्रविड देश के राजा के प्रताप के भय से (डरकर) समुद्रके कुछ पीछे सरक जाने से, अविवाहित अवस्था में समुद्र में लक्ष्मी के रहने का आदिनिवास स्थान ही मानो बाहर निकल आया था ।

( ३५८ ) गगनमुपगतेन शोभते य-न्निरुपमकाञ्चनवप्रमण्डलेन । सुरपुरमिव हेमशैलमध्ये विबुधविभूतिभरात्कृतप्रवेशम् ॥२३॥ अन्वयः यत् विबुधविभूतिभरात् गगनम् उपगतेन निरुपमकाञ्चनवप्रमण्डलेन हेमशैलमध्ये कृतप्रवेशं सुरपुरम् इव शोभते । व्याख्या यद्गाङ्गकुण्डचोलपुरं विबुधानां देवानां पण्डितानां वा विभूतिभरावैश्वर्या- तिशयाद्धेतोरन्यत्र भारात्—इदं साधर्म्यनिष्पादकहेतुनिरूपकं पदम् । गगनमाका- शमुपगतेन प्राप्तेन नास्ति उपमा सादृश्यं यस्य तन्निरुपममद्वितीयं यत्काञ्चनस्य सुवर्णस्य वप्रमण्डलं प्राकारपरम्परा (चहड़िवारी इति भाषायाम्) तेनाद्भुतम- सुवर्णनिर्मितप्राकारपरम्पराहेतुना हेम्न सुवर्णस्य शैलः पर्वतः सुमेरुस्तस्य मध्ये- ऽभ्यन्तरे कृतो विहितः प्रवेशोऽभ्यन्तरस्थितिर्येन तद्विहितप्रवेशं सुराणां देवानां पुरं नगरममरावतीव शोभते विलसति । काञ्चनप्राकारान्तर्गतगाङ्गकुण्डचोल- पुरस्योपरि सुमेरुपर्वतान्तर्गतसुरपुरत्वस्योत्प्रेक्षणादुत्प्रेक्षा । भाषा जो गाङ्गकुण्ड चोलपुर, विद्वानों की अधिक समृद्धि से और आकाश चुम्बि अनुपम सोने की चाहर दिवारी से मानो देवों की अधिक समृद्धि से (अर्थात् बोझ से स्वर्ग से नीचे आई हुई) और (ऊंचे) सोने के पर्वत सुमेरु के बीच में प्रविष्ट, अमरावती नगरी के समान शोभित होता था । विघटितपरिपन्थिसैन्यसार्थः पदमधिरोप्य स तत्र चोलसूनुम् । नयनचुलुकलुठ्यमानकान्तिर्द्रविड़वधूभिरुवास मासमात्रम् ॥२४॥ अन्वयः विघटितपरिपन्थिसैन्यसार्थः सः चोलसूनुं पदम् अधिरोप्य तत्र द्रविड़- वधूभिः नयनचुलुकलुण्ठ्यमानकान्तिः सन् मासमात्रम् उवास । व्याख्या विघटिताः शकलीकृताः परिपन्थिनां शत्रूणां सैन्यसार्थाः सैनिकसमूहा येन