विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 358, कुल 493 में से
संदर्भ में पढ़ें( ३५० ) समजनि कलमेखलाकलाप-ध्वनिजयडिण्डिमसज्जपुष्पचापम् । अथ चडुलकटाक्षबाणवर्ष-प्रगुणममुष्य पुरः पुरन्ध्रिचक्रम् ॥११॥ अन्वयः अथ अमुष्य पुरः पुरन्ध्रिचक्रं कलमेखलाकलापध्वनिजयडिण्डिम- सज्जपुष्पचापं चडुलकटाक्षबाणवर्षप्रगुणं समजनि । व्याख्या अथ काञ्चीपुरीसमागमनान्तरममुष्य विक्रमाङ्कदेवस्य पुरोऽग्रे पुरन्ध्रीणा साध्वीना ललनाना 'पुरन्ध्री'सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । चक्र समूहो मेखलाना काञ्चीना कलापस्समूहस्तस्य ध्वनिस्स्वन इति मेखलाकलाप- ध्वनिः कलो मधुरो यो मेखलाकलापध्वनिः स एव जयडिण्डिमो विजयसूचक- वाद्यविशेषशब्दस्तेन सज्जस्सुसज्जितः पुष्पचापः कुसुमायुधः कामो येन तत्, चटुलाश्चञ्चलाः कटाक्षा एव बाणाश्शरास्तेषां वर्षे वृष्टिस्तेन प्रगुणं प्रकृष्टगुण- युक्तं समजन्यभूत् । तत्र नागरीणा काञ्चीशब्देन कटाक्षवीक्षणेन च काम- साम्राज्यमिव प्रदर्शितमिति भावः । भाषा विक्रमाङ्कदेव के काञ्चीनगरी में पहुंचने पर इसके सामने वहां की नागरिक ललनाएं मानो सुन्दर करधनियो के शब्द रूप जयध्वनि के नगाडे के शब्द से कामदेव को उत्साहित करने वाली तथा चञ्चल कटाक्ष रूपी बाणो की वृष्टि करने वाली, हो गई । अधरहसितकिंशुका शुकाय क्रमुकदलं वदनस्थमर्पयन्ती । क्षितिपतितनयेऽत्र कापि नेत्र-प्रणयिनि चुम्बनचातुरीमुवाच ॥१२॥ अन्वयः अधरहसितकिंशुका का अपि वदनस्थं क्रमुकदलं शुकाय अर्पयन्ती (सती) नेत्रप्रणयिनि अत्र क्षितिपतितनये चुम्बनचातुरीम् उवाच । व्याख्या अधरेण अधरोष्ठेन रक्तवर्णत्वात् हसितः अधरीकृतः किंशुको रक्तवर्णपला- शपुष्पं यया सा स्वरक्तवर्णाधरेणाधरीकृतरक्तवर्णकिंशुका रक्तवर्णाधरोष्ठेति