विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 359, कुल 493 में से
संदर्भ में पढ़ें( ३५१ ) भावः । काऽपि नगररमणी वदने मुखे तिष्ठतीति तं मुखान्तर्वर्तिनं क्रमुकस्य पूगस्य दलं खण्डं शुकाय कीराय मुखेनैवार्पयन्ती ददती सती नेत्रयोः कामिनीनयनयोः प्रणयः स्नेहोऽस्त्यस्मिन्निति नेत्रप्रणयी तस्मिन्नेत्रप्रणयिनि दृष्टिगोचरेऽग्रवर्त्तिनि क्षितिफ्ते राज्ञ आहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे चुम्बनस्य वक्त्रसंयोगस्य चातुरी वैदग्ध्यं सा चुम्बनवैदग्ध्यमुवाच प्रकटयाम्बभूव । भाषा अपने लाल अधर पल्लव से पलास के लाल फूल की हंसी उड़ाने वाली नागरी ललना, अपने मुख में विद्यमान सुपारी के टुकड़े को अपने मुख से ही सुग्गे के मुख मे देती हुई मानो राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के प्रति चुम्बन करने के कौशल को प्रकट करती थी । गृहशिखरमगम्यमप्यरोहद् द्रुतमवधीरितपातभीतिरन्या । मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुणयः ॥१३॥ अन्वयः अन्या अवधीरितपातभीतिः (सती) अगम्यं गृहशिखरं द्रुतम् अध्य- रोहत् । मनसिजपौरुषवासिताः तरुण्यः मरणम् अपि तृणं समर्थयन्ते । व्याख्या अन्याऽपरा रमण्यवधीरिता तिरस्कृता त्यक्तेत्यर्थः । पातस्य पतनस्य भीतिर्भयं यया सा त्यक्तपतनभया सती गन्तु योग्यं गम्यं न गम्यमगम्यमारोदु- मनर्हं गृहाणा गेहाना 'गृहं गेहोऽध्यवसितम्' इत्यमरः । शिखरं शृङ्गं सर्वोच्च- स्थानमित्यर्थः । द्रुतं शीघ्रमध्यरोहदारुरोह । मनसिजस्य कामस्य पौरुषेण विक्रमेण वासिता युक्ताः कामवासनाभिभूतास्तरुण्यो युवतयो मरणमपि मृत्युमपि तृण तृणवत्तुच्छ समर्थयन्ति मन्यन्ते । अत्र पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्तर- न्यासो नामाऽलङ्कारः । भाषा कोई नागरी इसको देखने के लिये, गिरने का भय छोड़ कर जल्दी से न चढ़े जाने योग्य घर के सबसे ऊंचे भाग पर चढ़ गई । कामदेव के पराक्रम से अभिभूता अर्थात् कामासक्त युवतियाँ, मौत को भी तृण के समान तुच्छ समझती हैं ।