विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ३१९ ) वेत्सि मे पतिमवञ्चकं यदि स्वच्छतां स्पृशति चात्र ते मनः । तन्निवृत्य कुरु तुङ्गभद्रया मुद्रिते पदमुपान्तवर्त्मनि ॥५६॥ अन्वयः यदि मे पतिम् अवञ्चकं वेत्सि, अत्र ते मनः च स्वच्छतां स्पृशति तत् निवृत्य तुङ्गभद्रया मुद्रिते उपान्तवर्त्मनि पदं कुरु । व्याख्या (हे राजन् ! ) यदि त्वं मे मम पतिं स्वामिनं द्राविड़ेश्वरमवञ्चकं निष्क- पटहृदयं स्वच्छान्तःकरणमित्यर्थः वेत्सि जानासि । अत्राऽस्मिन्विषये ते तव मनश्च चेतश्च स्वच्छतां नैर्मल्यं स्पृशत्यालिङ्गति तत्तर्हि निवृत्याऽस्मात्स्थानात्प- रावृत्य तुङ्गभद्रया तन्नामनद्या मुद्रिते चिन्हित उपान्ते वर्त्म तस्मिन् सीमान्तप्रदेशे पदं स्थितिं स्वनिवासमित्यर्थः । कुरु विधेहि । भाषा यदि आप मेरे स्वामी द्राविड़ेश्वर को निष्कपट समझते हैं और इस सम्बन्ध में आप का मन यदि सन्देह रहित हैं तो आप यहाँ से लौट कर तुङ्गभद्रा नदी से चिन्हित सीमान्तप्रदेश में अपना डेरा डालिये । कैश्चिदेव सततप्रयाणकैस्तत्र शुद्धहृदयः करिष्यति । स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥५७॥ अन्वयः तत्र शुद्धहृदयः सः कैश्चित् एव सततप्रयाणकैः प्रतापिना त्वया पर्वणि इन्दुः तिग्मरश्मिना इव परिचयं करिष्यति । व्याख्या तत्र तुङ्गभद्रासीमान्तप्रदेशे शुद्धं निष्कपटं हृदयं मनो यस्य स निर्मलमानसः स द्राविड़ेश्वरः कैश्चिदेव कियद्भिरेव सततं निरन्तरं प्रयाणकानि गमनानि प्रस्थानानि या तैः प्रतापिना प्रभावशालिना त्वया भवता सह पर्वण्यमावा- स्यामिन्दुश्चन्द्रस्तिग्मरश्मिना सूर्येणेव परिचयं सम्मेलनं करिष्यति विधास्यति । अत्रोपमालङ्कारः ।
( ३२० ) भाषा तुङ्गभद्रा के सीमान्त प्रदेश में निष्कपट हृदय वाले मेरे स्वामी द्राविड़ेश्वर, प्रतापी आप से, अमावस्या को, चन्द्रमा के तेजस्वी सूर्य से मिलने के समान, रास्ते में लगातार कुछ ही डेरे डालते हुए, आ मिलेंगे। गाहतेऽत्र धृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् । तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥५८॥ अन्वयः अत्र धृतकार्मुके त्वयि प्रीतिदानम् अपि भीतिदानतां गाहते तेन यत्र गुणपक्षपातितां वेत्सि तस्य महती विलक्षता। व्याख्या अत्राऽस्मिन् चोलराजप्रधाननगर्यां धृतं गृहीतं कार्मुकं धनुर्येन स तस्मिन् सज्जधनुषि त्वयि विक्रमाङ्कदेवे प्रीत्या प्रेम्णा दानं कन्यायाः प्रदानमपि भीत्या भयेन दानं तस्य भावस्तां भीतिदानतां भयजन्यदानत्वं गाहते प्राप्नोति । सज्जधनुषाय तुभ्यं यत्प्रीतिपूर्वकमपि दास्यते तद्भयेन दत्तमिति सर्वेषां ज्ञानं भवेदिति भावः । तेन कारणेन यत्र यस्य द्राविडराज्यस्य विषये गुणेषु तदीयेषु गुणेषु सौजन्यादिषु यस्ते पक्षपातस्समादरस्तस्य भावो गुणपक्षपातितां तां वेत्सि जानासि धारयसीत्यर्थ । तस्य द्राविडाधिपस्य महती विपुला विलक्षता सलज्जत्वम् । अथवा तं प्रति सर्वेषां विस्मयान्वितत्वं यदेवं शौर्ययुक्तोऽपि भयात् कन्या ददातीति। 'विलक्षो विस्मयान्विते' इत्यमर । स्वद्रूपत्रासेन कन्या प्रदत्तेति तस्य महदपयशस्तेन यस्य कृते तव गुणपक्षपातित्वं वर्तते स लज्जास्पदं मा भूपादिति हेतोः सीमान्तप्रान्त एव तव दर्शनं वरमिति भावः । भाषा उस द्राविड़ राजा के राज्य की प्रधान नगरी में धनुष लेकर (अपनी सेना के साथ) आये हुए तुमको जो प्रेम पूर्वक भी दिया जाएगा वह लोगों की दृष्टि में भय से दिया गया समझा जाएगा। इस कारण से जिसके गुणों के प्रति आप का समादर है उस चोलदेश के राजा को लज्जित होना पड़ेगा । या सब लोग उसके सम्बन्ध में आश्चर्य करने लगेंगे कि इतना पराक्रमी और शौर्ययुक्त होने पर भी उसने भय से अपनी लड़की कैसे दे दी।
( ३२१ ) नाद्य यावदवलोकिता जनैः क्वापि तस्य वचसामसत्यता । मादृशां शुभविपर्ययाद्यदि व्यक्तिमेष्यति भवादृशेषु सा ॥५६॥ अन्वयः अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता । यदि मादृशां शुभविपर्ययात् सा भवादृशेषु व्यक्तिम् एष्यति । व्याख्या अद्य यावदाधुनिककालपर्यन्तं जनैर्लोकैस्तस्य वचसां वाणीनामसत्यता मिथ्यात्वं क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्तिं प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ- वेदिति भावः । भाषा आज तक लोगों को किसी भी विषय में द्राविड़ेश्वर की वाणी की असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है । एवमादिभिरनेन बोधितः कौविदेन वचनैः पुनः पुनः । ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नदीतटम् ॥६०॥ अन्वयः कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञातचोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् । व्याख्या कौविदेन पण्डितेन लोकिव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि- रेतादृशैर्वचनैः पुनः पुनौ भूयो भूयो बोधितो विज्ञापितः स्वयञ्च गुप्तचरादि- भिर्ज्ञातं परीक्षितं चोलस्य चोलदेशाधिपस्य हृदयं येन स विज्ञातचोलराज- हार्दिग्भावः स विक्रमाङ्कदेवः प्राक् पूर्वं निवेदितं सूचितं नदीतटं तुङ्गभद्रानदी- तीरमपाऽजगाम । २१
( ३२२ ) भाषा इस चतुर व लौकिकव्यवहार में कुशल दूत द्वारा ऐसी ऐसी बातो से बार बार समझाया हुआ और स्वयं भी अपने गुप्तचरों से चोल राजा के हार्दिक भाव को जान लेने वाला, विक्रमाङ्कदेव, पूर्व सूचित तुङ्गभद्रानदी के तट पर गया। चोलभूमिपतिरप्यनन्तरं निर्जगाम नगरात्कृतोत्सवः । पुष्पसायकपताकया तया कन्यया सह सहासवक्त्रया ॥६१॥ अन्वयः अनन्तरं कृतोत्सवः चोलभूमिपतिः अपि सहासवक्त्रया पुष्पसायक- पताकया तया कन्यया सह नगरात् निर्जगाम । व्याख्या अनन्तर विक्रमाङ्कदेवस्य तुङ्गभद्रानदीतटप्राप्त्यनन्तर कृतो विहित उत्सवो महो 'मह उद्धव उत्सव' इत्यमरः । येन स विहितमहश्छोलस्य चोलदेशस्य भूमिपति पृथ्वीपतिश्चोलेश्वरोऽपि हासेन सहितं सहासं वक्त्रमाननं यस्यास्सा तया प्रफुल्लाननया पुष्पाण्येव सायका बाणा यस्य स पुष्पसायक कामस्तस्य पताका वैजयन्ती 'पताका वैजयन्ती स्यात्केतन ध्वजमहित्रियाम्' इत्यमरः । कामोद्बोधकत्वात्तत्स्वरूपा तया मन्मथध्वजरूपया तया प्रसिद्धया कन्यया स्वसुतया सह नगराद्विजनराजधान्या निर्जगाम बहिर्निर्गतवान् । भाषा विक्रमाङ्कदेव के तुङ्गभद्रा नदी के तट पर पहुँचने पर चोलदेश का राजा भी मङ्गलोत्सव मनाकर, प्रसन्न वदन और कामदेव की ध्वजा के समान अपने स्वरूप से कामोद्दीपन करने वाली अपनी कन्या के साथ अपनी राजधानी से बाहर निकल पडा । सन्धिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना । शान्तसाध्यसमहारुजः प्रजाः स्वेषु धामसु बबन्धुरादरम् ॥६२॥ अन्वयः प्रजाः तस्य कुन्तलेन्द्रसूनुना निश्चलं सन्धिबन्धम् अवलोक्य शान्त- साध्यसमहारुजः (सत्यः) स्वेषु धामसु आदरं बबन्धुः ।
( ३२३ ) व्याख्या प्रजा जनास्तस्य द्राविड़ेश्वरस्य कुन्तलेन्द्रस्य कुन्तलराजस्याऽऽहवमल्लदेवस्ये सूनुः पुत्रो विक्रमाङ्कदेवस्तेन सह निश्चलं दृढं सख्यैः स्नेहस्य बन्धं बन्धनं सन्धिवन्धं प्रेमबन्धनमवलोक्य ज्ञात्वा शान्तं समाप्तं साध्वसं भयमेव महादृक् महापीड़ा यासा ता दूरीकृतमहाव्यथा रत्यः रमेयु निजेषु धामसु गृहेष्वादरं प्रेम प्रबन्धुर्वभूः । अयं विक्रमाङ्कदेवः स्नेहराभ्यागतेन न तु दिग्विजयपर्यमत्राऽऽगत इति विनिश्चित्य त्यक्तचिन्ता जना आक्रमणकालिकगृहत्यागादिकं सम्प्रत्यनावश्य- कमिति सुखेन स्वगृहेषु निवासं चक्रुरिति भावः । भाषा प्रजागण अपने राजा द्रविड़ेश्वर का कुन्तलराज आहवमल्लदेव के पुत्र विक्रमाङ्कदेव से दृढ़ प्रेम सम्बन्ध जानकर भय रूपी महाव्यथा से शान्त होकर, अपने अपने घरों में सुख से रहने लगे । अर्थात् आक्रमण काल में जो अपना घर छोड़ सुरक्षित स्थान में रहने जाना पड़ता था उसकी आवश्यकता न समझ वे सुख से अपने अपने घर में ही रहे । दिग्गजश्रवणभङ्कारिभिर्दुन्दुभिध्वनिभिरस्य भैरवैः । अभ्रमभ्रमुभुजङ्गडिण्डिम-ध्वाननिर्भरमिव व्यराजत ॥६३॥ अन्वयः अस्य दिग्गजश्रवणभङ्कारिभिः भैरवैः दुन्दुभिध्वनिभिः अभ्रम् अभ्रमुभुजङ्गडिण्डिमध्वाननिर्भरम् इव व्यराजत । व्याख्या अस्य चोलदेशाधिपस्य दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । गजा हस्तिनो दिग्गजास्तेषां श्रवणानि कर्णान्तेषां भङ्गो बधिरीकरणं तत्कुर्वन्तीति तैर्दिङ्नागकर्णबधिरोकरणसम्पादकैर्भीरवैर्भयान- केंदुंदुभीनां भेरीणां 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वानमस्यनास्तैर्भेरी- स्वनैरभ्रं नभोऽभ्रमुंरैरावतकान्ता हस्तिनी 'ऐरावतोऽभ्रमातङ्गैरवणाऽभ्रमुवल्लभाः' इत्यमरः । तस्या भुजङ्ग पतिरैरावतस्तस्य डिण्डिमो वाद्यविशेषः डिण्डम- सदृशो ध्वनिवां 'वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य ध्वाननेन
( ३२४ ) कठोरशब्देन निर्भरमिव व्याप्तमिव व्यराजताऽजायत । दुन्दुभिध्वनिधैरावत- डिण्डिमध्वनित्वस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा दिग्गजों के कानों को बहिरा कर देने वाले इस चोल राजा की तुरहियों के भयंकर शब्दों से मानो ऐरावत के नगाड़े की ध्वनि से या नगाड़े के समान शब्द से आकाश गूंज उठा हो, ऐसा प्रतीत होने लगा । सर्वतः श्रवणभैरवस्फुरद्—दुन्दुभिप्रतिरवापदेशतः । सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥ अन्वयः सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरदवृन्दघट्टनात् दिगन्तभित्तयः सस्वनम् अस्फुटन् इव । व्याख्या सर्वत सकलेषु प्रदेशेषु श्रवणेभ्य कर्णेभ्यो भैरवा भयानका ये स्फुरन्त प्रकटीभवन्तो दुन्दुभीना भेरीणा प्रतिरवा प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदाना गजाना वृन्द्वानि समूहास्तेषा घट्टनात्सपर्पणाच्च दिशामन्ता दिगन्तास्तेषा दिगन्तप्रदेशाना भित्तय कुड्यानि 'भित्ति' स्त्री कुड्यम्' इत्यमर । सस्वन सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भाव । अत्रोत्प्रेक्षालङ्कार । भाषा चारो ओर जोर २ से बजने वाली भेरियो के वर्णकटु प्रतिध्वनियो के भिय से और हाथियों के समूहों के परस्पर धक्कों से मानो दिगन्तप्रदेशों की दीवारें शब्द करती हुई फट रही थी । कर्णतालपवनोर्मिशीतलैः सिञ्चति स्म करशीकराम्बुभिः । दिग्गजानिव भयेन मूर्च्छितांस्तस्य वारणपरम्परा पुरः ॥६५॥ अन्वयः तस्य वारणपरम्परा कर्णतालपवनोर्मिशीतलैः करशीकराम्बुभिः पुरः भयेन मूर्च्छितान् दिग्गजान् सिञ्चति स्म इव ।
( १२५ ) व्याख्या तस्य चोलदेशाधिपस्य वारणानां गजानां परम्परा श्रेणिर्गजयूथा इत्यर्थः । कर्णास्ताला इवेति कर्णतालास्तालपत्रसदृशश्रोत्राणि तेषां पवना वायवस्तेषामूर्म्मि- भिस्तरङ्गैःशीतलानि तैस्तालपत्राकारविशालश्रोत्रस्फुरणजनितवायुतरङ्गशीतैः कराणां शुण्डानां शीकराम्बूनि जलकणजलानि 'शीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तैर्हस्तिशुण्डानिःसरज्जलबिन्दुधाराभिः पुरोऽग्रे भयेन महाशब्द- जनितभीत्या मूर्च्छितान् चेतनारहितान् दिग्गजान् दिङ्नागान् सिञ्चति स्मेव पुनरपि चेतनाप्राप्त्यर्थं शीतजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रूपी ताड़ के पत्तों या पंखों से उत्पन्न वायु की लहरों से ठण्डे भए हुए सूँड से छूटने वाले फुवारों के जल से, मानो सामने दिखाई देने वाले भय से मूर्छित दिग्गजों को फिर से होश में लाने के लिये, शीतोपचार कर रहा था । तच्चमूरजसि दूरमुद्गते यन्न दिग्भ्रममघत्त भास्करः । हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६॥ अन्वयः तच्चमूरजसि दूरम् उद्गते (सति) भास्करः यत् दिग्भ्रमं न अधत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः । व्याख्या तस्य चोलराजस्य चमूःसेना 'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः' इत्यमरः । तस्या रजो धूलिस्तस्मिन् तत्सेनाधूलौ दूरमत्यूर्ध्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रान्तिं नाधत्त न बभाराऽत्राऽस्मिन्नर्थे कुञ्जराणां हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभागानां वीजनैःसंचलनैर्गजो- परिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसां धूलीनां निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यलिङ्गमलङ्कारः । भाषा उसकी सेना के चलने से उडी धूलि के बहुत ऊँचाई तक छा जाने पर,
( ३२६ ) सूर्य को जो रास्ते का भ्रम न हुआ अर्थात् भुलावा न पड़ा, इसका कारण, हाथियों पर के झण्डो की झण्डियों के हिलते रहने से, उसकी हवा से धूलि का हट जाना ही है । अर्थात् झण्डियों के, खूब ऊपर फड़फड़ाते रहने से उसकी हवा से धूलि के हट जाने से सूर्य को साफ २ मार्ग दिखाई देता था । क्षोणिरेणुमिपतः सदाध्वगः स्यन्दने रचयति स्म भास्करः । पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थमिव संग्रहं मृदः ॥६७॥ अन्वयः सदाध्वगः भास्करः क्षोणिरेणुमिषतः पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थम् इव स्यन्दने मृदः संग्रहं रचयति स्म । व्याख्या सदा निरन्तरमध्वनि मार्गे गच्छतीति सदाध्वगः सदैव गमनशीलः पान्थ इत्यर्थः । 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि' इत्यमरः । भास्करः सूर्यः क्षोणेः पृथिव्या रेणुर्धूलिस्तस्य मिषतो व्याजात् पृथ्वीधूलिव्याजात् पश्चिमाद्रिः पश्चिमपर्वतस्तस्य विषमा उन्नतानताः स्थलयो भूमिभागास्तासामस्ताचलस्थि- तगर्तानां पूरणार्थमिव भरणार्थमिव समीकरणार्थमित्यर्थः । स्यन्दने स्वरथे मृदो मृत्तिकायास्संग्रहमेकत्रीकरणं रचयति स्म सम्पादयति स्म । अत्रोत्प्रेक्षालङ्कारः । भाषा सदैव चलते रहने वाला सूर्य, पृथ्वी की धूलि के बहाने से मानो पश्चिमाचल अर्थात् अस्ताचल की ऊंची नीची जमीन को भर कर समथल बनाने के लिये अपने रथ पर मिट्टी एकत्रित कर रहा था । नन्दनद्रुमनिकुञ्जपुञ्जितैः पांसुभिः कुसुमधूलिवासितैः । चौर्यकेलिशयनोपयोगतस्तुष्यति स्म सुरपांसुलाजनः ॥६८॥ अन्वयः सुरपांसुलाजनः कुसुमधूलिवासितैः नन्दनद्रुमनिकुञ्जपुञ्जितैः पांसुभिः चौर्यकेलिशयनोपयोगतः तुष्यति स्म ।
( ३२७ ) व्याख्या सुराणां देवानां पांसुलाजनः स्वैरविहारिणीजनः कुसुमानां पुष्पाणां धूलयः परागः 'परागः सुमनोरजः' इत्यमरः । ताभिर्वासितासुरभीकृतास्तैः पुष्परेणु- भुरभीकृतैर्नन्दनस्येन्द्रवनस्य द्रुमा वृक्षास्तेषां निकुञ्जा लतादिपिहितोदराः 'निकुञ्जकुञ्जौ वा क्लीवे लतापिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्री- भूतास्तैर्नन्दनोद्यानवृक्षकुञ्जतत्स्थितैः पांसुभिः क्षितितलोत्थितरेणुभिश्चोपेणऽ- प्रशस्तरूपेण केलिः क्रीडा चौर्यकेलिः परपुरुषैस्समं परनारीणां रतोत्सवरतदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशय्यानिर्माणार्थोप- योगात् तुष्यति स्म सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुत्थितायास्तदा- न्ताया स्थितायाश्च धूलेः कोमलत्वाच्चौर्यरतितत्परसुरापांसुलाजनस्य कोमलशय्या- प्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिरलङ्कारः । भाषा स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उठ कर नन्दन वन के कुञ्जों में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विष्यादि करने में कोमल शय्या के सदृश उस भूमि का उपयोग होने से, सन्तुष्ट हुआ । वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः । अन्धकारपटलच्छलेन यद् भृङ्गपूरितमिवाभवन्नभः ॥६६॥ अन्वयः पांसुदूषितं पुष्पमधु वीक्ष्य अलिभिः नन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् । व्याख्या पांसुभिः क्षोणीतलोत्थितरजोभिः 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । दूषितं कलुषीकृतं पुष्पाणां कुसुमानां मधु रसं मकरन्दं वीक्ष्य दृष्ट्वा- ऽलिभिर्भ्रमरैः 'षट्पदभ्रमरादयः' इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं निश्चयेनाऽमुच्यत परित्यक्तम् । यद्यस्मात्कारणान्नभ आकाशमन्धकारस्य धूलिजनितध्वान्तस्य पटलं समूहस्तस्य छलेन व्याजेन भृङ्गैर्भ्रमरैः पूरितं व्याप्तमिवाभवज्जातम् । कृष्णायान्धकारे भृङ्गपटलयोरुत्प्रेक्षणादुत्प्रेक्षा- लङ्कारः ।
( ३२८ ) भाषा पृथ्वी से उठी धूलि से पुष्पो का मकरन्द, गन्दा हुआ देखकर, भ्रमरो ने नन्दन वन को निश्चय ही त्याग दिया था । क्यों कि धूलिजनित अन्धकार के आधिक्य के मिष से आकाश मानो भौरो से छाया हुआ था । अर्थात् धूलि जनित कृष्णवर्ण अन्धकार मानो कृष्णवर्ण के भौरे ही थे । जैत्रवाजिपृतना-खुरक्षत-क्षोणिधूलिपटलीभिरध्वसु । तद्दलस्य सुगमत्वमागमन् पूरितानि विषमस्थलान्यपि ॥७०॥ अन्वयः अध्वसु जैत्रवाजिपृतनाखुरक्षोणिधूलिपटलीभिः पूरितानि विषमस्थलानि अपि तद्दलस्य सुगमत्वम् आगमन् । व्याख्या अध्वसु मार्गेषु जैत्रा जयशीला 'जैत्रस्तु जेता योजयच्छत्यलं विद्विषतः प्रति' इत्यमरः । या वाजिनामश्वाना पृतनाः सेनाः 'पृतनाऽनीकिनी चमूः' इत्यमरः । तासा खुरैः शफैः क्षता विदारिता क्षोणि. पृथ्वी तस्या धूलयो रजांसि तासां पटलीभिस्समूहैर्जयन्शीलाश्वसेनाशफविदारितभूमिसमुत्थितरजस्समूहैः पूरितानि व्याप्तानि समीकृतानीत्यर्थः । विषमस्थलाम्युच्चावचस्थानान्यपि तस्य चोलराजस्य बलं सैन्यं तस्य तद्दलस्य सुगमत्वं सुखपूर्वकगमनाईत्वमागमन् प्रापुः । मार्गेषु तत्सेनाया अनायासेन गमनाय सेनाश्वखुरविदारितपृथ्वीरजोभिर्विषमस्थलानि पूरितानीति भाव । अत्र समाधिर्नामाऽलङ्कार. । "समाधि सुकरे कार्ये दैवाद्वस्त्वन्तरागमात्" इति लक्षणात् । भाषा मार्गों में, विजयी घोडो की सेनाओ के खुरो से खुदी भूमि के धूलि समूहो से भरी गई हुई नीची ऊँची जमीन, समतल होकर, चोल राजा की सेना के सुगमता से चलने के काम में आई । चेतसोऽपि दधतीरलङ्घ्यतां लङ्घयद्भिरवटस्थली भुवः । तस्य वाजिभिरजायत क्षितिर्भ्रान्तवातहरिखेव सर्वतः ॥७१॥
( ३२९ ) अन्वयः चेतसः अपि अलङ्घ्यतां दधतीः अवटस्थलीभुवः लङ्घयद्भिः तस्य वाजिभिः क्षितिः सर्वतः भ्रान्तवातहरिणा इव अजायत । व्याख्या चेतसोऽपि चित्तस्याऽपि 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । अलङ्घ्यतामशक्यत्वां पारं गन्तुमशक्यत्तामित्यर्थः । इपतीरीरयतोऽवटा गर्ताः 'गर्तावटो भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गर्तबहुला भूमीर्लङ्घयद्भिः पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता भयाच्चकिता वातहरिणा वातमृगाः 'वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः' इत्यमरः । यस्यां सैव निजस्थानपरिभ्रष्ट-भयचकितवातमृगयुक्तेवाऽराजत शुशुभे । अत्रोत्प्रेक्षालङ्कारः । भाषा मन से भी लांघने की कल्पना न की जाने योग्य ऊबड़ खाबड़ जमीन को लांघने वाले उस चोलराज के घोड़ों से मानो पृथ्वी चारो ओर घबड़ाए हुए वातमृगों से युक्त शोभित हो रही थी । तेन सैन्यधनुषां शिलीमुख-ज्यालताप्रणयिनां विभूतिभिः । तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ॥७२॥ अन्वयः तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः कृते तत्र तत्र केलिकाननम् इव व्यधीयत । व्याख्या तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषा ते शिलीमुखा बाणा भ्रमराइव 'अलिबाणौ शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्वीरूपलताश्च तासां प्रणयिनः स्नेहिनः सम्बन्धिनस्तेषां, सैन्यानां चमूनां धनुषि चापाः प्रियालवृक्षाश्च 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने' इत्यमरः । तेषां विभूतिभिः समृद्धिभिर्वि- जयश्रियो विजयलक्ष्म्पाः कृतेऽर्थे तत्र तत्र तत्तत्स्थाने केलिकाननं क्रीडोद्यानमिव व्यधीयत रचितम् । चोलराजेन बाणज्यालतासम्बन्धिसैन्यचापप्रतापैस्तत्र तत्र
विजयं प्राप्य विजयलक्ष्म्याः कृते विजयप्राप्तिस्थानेषु शान्तिं प्रस्थाप्य क्रीडोद्यान- मिव रचितम् । पक्षे भ्रमरव्यालपलताप्रणयिप्रियालवृक्षाणां समृद्धिभिस्तेन राजलक्ष्म्याः कृते क्रीडोद्यानमिव रचितमिति भावः । श्लेषानुप्रणितोत्प्रेक्षा- लङ्कारः ।
भाषा चोल देश के राजा ने बाण तथा मौर्वी से सम्बन्ध रखने वाले सेना के धनुषो के प्रभाव से जहाँ तहाँ शान्ति स्थापन कर मानो विजयलक्ष्मी के सैल सपाटे के लिये बाग बना दी थी । पक्ष में भौंरे और लता से प्रेम करने वाले प्रियाल वृक्षो के आधिक्य से मानो विजयलक्ष्मी के लिये जहाँ तहाँ बिहार करने के लिये बाग बना दी थी ।
अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरङ्गिणीम् । कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥
अन्वयः सः पार्थिवः अप्रयाणरहितैः कैः अपि दिनैः तरङ्गिणीं प्राप । धीमतां कार्यजातम् असमाप्य निद्रया परिचयः अपि कीदृशः ।
व्याख्या सः पार्थिवश्चोलदेशनृपोऽप्रयाणं विश्रामस्तेन रहिता हीनास्तैर्विश्रान्तिरहितैः कैरपि कैश्चिदेव दिनेर्दिवसैस्तरङ्गिणीं तुङ्गभद्रानदीं प्राप संप्राप्तः । धीमतां बुद्धिमतां जनानां कार्यजातं कार्यसमूहमसमाप्य परिपूर्णमकृत्वा निद्रया विश्रामेण परिचयोऽपि सम्बन्धोऽपि कीदृशो भवति । न भवतीत्यर्थः । बुद्धिमन्तो विनैव कार्यसमाप्तिं विश्रामं नाऽऽश्रयन्तीति भावः । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तर- न्यासालंकारः ।
भाषा वह चोलदेश का राजा रास्ते में कहीं बिना विश्राम लिए कुछ ही दिनो में तुङ्गभद्रा नदी के पास पहुँच गया । बुद्धिमान् लोगों को बिना कार्य समाप्त किये निद्रा का परिचय कैसा ? अर्थात् बुद्धिमान् लोग बिना सम्पूर्ण कार्य पूरा किए विश्राम नहीं लेते ।
( ३३१ ) रञ्जितः परिजनोऽस्य शीतल-स्वच्छया सपदि तुङ्गभद्रया । आगताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥७४॥ अन्वयः अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जितः । ये तु किम् अपि पृष्ठतः आगताः ते पङ्कशेषं जलम् अलभन्त । व्याख्या अस्य चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपदि तत्क्षणं 'सद्यः सपदि तत्क्षणे' इत्यमरः । शीतला शीता चासौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्बु- युक्तया तुङ्गभद्रया नद्या रञ्जितः प्रसन्नो जातः । ये तु जनाः किमपि पृष्ठतः किञ्चित्कालान्तरमागतास्तुङ्गभद्रा प्राप्तास्ते पङ्क एव शेषो यस्मिंस्तत्पङ्कशेषं कर्दमावशिष्टं जलं सलिलमलभन्त प्राप्तवन्तः । अनेन चोलराजेन सहागतस्य जनसमूहस्याऽऽधिक्यं सूचितम् । भाषा उस चोल राजा के नौकर चाकर शीघ्र ही ठंडे और निर्मल जल वाली तुङ्ग भद्रा नदी से प्रसन्न हो गए । अर्थात् तुङ्गभद्रा नदी के शीतल और निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला । परन्तु जो लोग कुछ देर करके आए उनको गदला पानी ही मिला । अर्थात् उस राजा के साथ में अत्यधिक नौकर चाकर आदि आए थे । दक्षिणार्णवतटादुपागतैस्तद्गलैः पिशुनतां गतैरिव । शीघ्रमक्रियत मध्यवर्त्तिभिः सा प्रतीपगतिरब्धिवल्लभा ॥७५॥ अन्वयः सा अब्धिवल्लभा दक्षिणार्णवतटात् उपागतैः मध्यवर्त्तिभिः तद्गलैः पिशुनतां गतैः इव शीघ्रं प्रतीपगतिः अक्रियत । व्याख्या सा प्रसिद्धा अब्धेस्समुद्रस्य वल्लभा प्रिया समुद्रसीमन्तिनी तुङ्गभद्रा नदी दक्षिणोऽर्णवस्समुद्रस्तस्य तटात्तीरादर्वाचीनसमुद्रकूलादुपागतैस्समागतेर्मध्यवर्त्ति-
( ३३२ ) भिर्नदीजलमध्यावस्थितैस्तस्य चोलदेशनृपस्य गजा हस्तिनस्तैः पिशुनतां दुर्जनतां गतैः प्राप्तेरिव शीघ्रं द्रुतं प्रतीपा प्रतिकूला गतिर्गमनं यस्यास्सा प्रतीपगतिः प्रतिकूलगामिन्यक्रियंत सम्पादिता । यथा केचन पिशुना अन्योन्यं भेदमुत्पाद्यो- भयथाऽपि मध्यस्थाः सन्तः सीमन्तिनीं स्वपत्युर्विपरीतमार्गगामिनीं कुर्वन्ति तथैव पिशुनतामिव गतैस्तैर्गजैनंदीमध्यस्थैः प्रवाणावरोधेन तुङ्गभद्रा समुद्राद्विपरीत- देशवाहिनी कृतेति भावः । गजेषु दुर्जनत्वस्योत्प्रेक्षणादुत्प्रेक्षा । गजव्यवहारे दुर्जनव्यवहारारोपात्समासोक्तिश्च । अतस्तयोस्संकरः । भाषा जिस प्रकार स्त्री पुरुष में, दोनो ओर से मध्यस्थ बन कर, परस्पर भेद भाव उत्पन्न करने वाले दुर्जन चतुर लोग शीघ्र ही स्त्री को पति के प्रतिकूल बना देते हैं वैसे ही इस चोल राजा के दक्षिण समुद्रतट से आए हुए हाथियों ने, तुङ्गभद्रा नदी के बीच में खड़े होकर, प्रवाह के विपरीत बहने से मानो दुर्जनता को प्राप्त भए के समान, तुङ्गभद्रा नदी को समुद्र से विपरीत दिशा में बहने वाली बना दिया । सिन्धुतीरनिलयानुरोधतस्तत्तथा बलमवाप दीर्घताम् । अन्तरक्षपितरात्रिभिर्जनैः प्राप्यते स्म नृपमन्दिरं यथा ॥७६॥ अन्वयः तत् बलं सिन्धुतीरनिलयानुरोधतः तथा दीर्घताम् अवाप यथा अन्तर- क्षपितरात्रिभिः जनैः नृपमन्दिरं प्राप्यते स्म । व्याख्या तत् चोलराजस्य बलं सैन्यं सिन्धोस्तुङ्गभद्राया नद्यास्तीरे तटं तस्मिन्निलयो निवासस्तस्याऽनुरोधोऽनुवर्तनं 'अनुरोधोऽनुवर्तनम्' इत्यमरः । तस्मात्तुङ्गभद्रा- नदीतटनिवासानुवर्तनात्तथा तादृशीमपूर्वामितिमहतीं दीर्घतां विशालतामवाप प्राप्तं यथा येन प्रकारेणाऽन्तरे मध्ये 'अन्तरमवकाशावधिपरिधानान्तर्धिभेद सादृश्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । क्षपिता यापिता रात्रिर्निशा यैस्ते सैर्मार्गगमनेनैव व्यतीतराज्यवच्छिन्नकालैर्जनैः प्रजाभि- र्नृपस्य राज्ञो मन्दिरं राजभवनं प्राप्यते स्म गम्यते स्म । तीरभूमेरसंकीर्णत्वा- त्तीरे सेनाया बहुदूरपर्यन्तं श्रेणिबद्धनिवासेन पश्चादागता ये केचन राजमन्दिरं
( १३३ ) जिगमिषयंस्ते नदीतीरमार्गं सम्पूर्णरात्रिसमयं व्यतीत्यैव राजभवनं प्राप्ता इति सेनाया विशालत्वं दूरदेशव्यापित्वञ्च सूचितम् । भाषा चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की संकीर्णता से कतार में बहुत दूर तक टिकी होने से) यह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुँच पाते थें । चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा । सा हिमाचलविटङ्कनिर्गता जाह्नवीव तटिनी व्यराजत ॥७७॥ अन्वयः चोलकेलिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमा- चलविटङ्कनिर्गता जाह्नवी इव व्यराजत । व्याख्या चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थ- जलस्नानं तेन प्राप्तो लब्धो भूरि घनसारः प्रचुरकर्पूरस्तेन पाण्डुरा शुभ्रवर्णा सा प्रसिद्धा तटिनी तुङ्गभद्रानदी 'तरङ्गिणी शैवलिनी तटिनी ह्रदिनी धुनी' इत्यमरः । हिमाचलस्य तुषाराद्रेर्विटङ्कं शिखरं 'कपोतपालिकायान्तु विटङ्क पुंनपुंसकम्' इत्यमर । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गेव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गेव शुभ्रं जातमिति भावः । विटङ्कः कपोतपालिकावाचकमत्र लक्षणया शिखरवाचकमिति । अत्रोपमा- सङ्करः । भाषा चोलदेशीय राजा और प्रजा के जलक्रीड़ा सहित स्नान करने से, उनके शरीर में पोते हुए कपूर से श्वेतवर्ण को प्राप्त तुङ्गभद्रानदी, हिमालय के शिखरों से निकली गङ्गानदी के समान शोभित हुई । तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुरवलोक्य तद्बलम् । बाहुमाह्वयसहस्रदीधितिं वन्दते स्म परिचुम्बति स्म च ॥७८॥
( ३३४ ) अन्वयः तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुः तद्वलम् अवलोक्य आहवशहस्र- दीक्षितं बाहुं वन्दते स्म परिचुम्बति स्म च । व्याख्या तत्र तस्मिन् दक्षिणतटे तुङ्गभद्राया दक्षिणतीरे कृता सम्पादिता स्थिति- र्निवासो येन सः कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवस्तस्य चोलराजस्य बलं सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसह- स्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं करोति स्म च । स्वबाहोर्महती श्लाघा कृतेति भावः । भाषा तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्क- देव ने चोल देश के राजा की सेना को देखकर हजारो युद्धो का अनुभव करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी भुजा का आदर व प्रेम किया । द्राविडोऽपि नृपतिः कुतूहलाद्वीक्ष्य तत्कटकमुकटद्विपम् । राज्यमुद्धृतमनर्थपङ्कतः कन्यकावितरणादमन्वत ॥७६॥ अन्वयः द्राविडः नृपतिः अपि उत्कटद्विपं तत्कटकं कुतूहलात् वीक्ष्य कन्यका- वितरणात् राज्यम् अनर्थपङ्कतः उद्धृतम् अमन्यत । व्याख्या द्राविडो द्रविडदेशीयो नृपतिश्चोलदेशाधिपो चोलराजेन्द्रनामको भूपतिरप्यु- त्कटा मदान्धा द्विपा गजा यस्मिंस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाङ्कदेवस्य कटकं सैन्यं कुतूहलात्कौतुकात् 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । वीक्ष्यावलोक्य कन्यकायाः स्वात्मजाया वितरणं दानं तस्मात् स्वसुताप्रदानात् राज्यं स्वचोलराज्यमनयं एवाऽनिष्टमेव पङ्कः कर्दमस्तस्मादनिष्टकर्दमत उद्धृतं बहिर्निस्सारितममन्यत विज्ञातवान् ।
( ३३५ ) भाषा. द्रविडदेश के चोलवंशीय राजा वीरराजेन्द्र ने भी कौतुक से विक्रमाङ्कदेव की मदोन्मत्त हाथियो से युक्त सेना को देखकर कन्या प्रदान से अनिष्ट रूपी कीचड से अपने राज्य का उद्धार हुआ ऐसा माना । प्रेषितैरथ तयोः परस्परं प्रेम्णि योग्यपुरुषैः प्रपञ्चिते । संगमः सकललोकसंमतो जायते स्म गुरुपुष्ययोरिव ॥८०॥ अन्वयः अथ प्रेषितैः योग्यपुरुषैः परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव सकललोकसम्मतः संगमः जायते स्म । व्याख्या अथ विक्रमाङ्कदेववीरराजेन्द्रयोस्तुङ्गभद्रातटप्राप्त्यनन्तरं प्रेषितैरुभयपक्षान्प्रा- पितैर्योग्यपुरुषैश्चतुरजनैः परस्पर मिथः प्रेम्णि स्नेहे प्रपञ्चिते सम्बर्धिते सति तयोर्विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बृहस्पतिपुष्यनक्षत्रयोरिव सकललोकैस्स- म्पूर्णजनैस्सम्मतस्समीपतः संगमः सम्मेलनं जायते स्म जातम् । १ज्योतिषशास्त्रे गुरुपुष्ययोगः प्रशस्त्येन वर्णितः । सर्वे जना तद्योगस्य शुभफलप्रदत्वच्छाद्ध- भवन्ति । अत्रोपमालङ्कारः भाषा विक्रमाङ्कदेव और वीरराजेन्द्र चोल के तुङ्गभद्रानदी के तटपर आ जाने पर, दोनो ने भेजे हुए कार्यकुशल पुरुषो के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगो को अभीष्ट गुरुपुष्ययोग के समान उनदोनो का योग अर्थात् मिलाप हुआ । एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः । इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥८१॥ १ गुरुपुष्ययोग पञ्चप्रस्थस्यावामृतसिद्धियोगेष्वेवत्त्वम । यदि विष्टिर्व्यतीपातो दिन वाप्यशुभ भवेत् । हन्यतेऽमृतयोगेन भास्वरेण तमो यथा ॥ मुहूर्तचिन्तामणिटीकायां पीयूषधाराया दीर्घशावरस्य वचनम् । , ,
( ३३६ ) अन्वयः सः कुन्तलक्षितिपतेः प्रभावतः एषः स्वयं सः श्रियः प्रियतमः मम शुभेन कर्मणा दर्शितः इति उद्वधूनयनः सन् अमंस्त । व्याख्या स वीरराजेन्द्रचोलः कुन्तलक्षितिपतेः कुन्तलदेशाधिपस्याऽऽहवमल्लदेवस्य प्रभावतः प्रतापस्य माहात्म्यादेव विक्रमाङ्कदेवः स्वयं साक्षात् स प्रसिद्धः श्रियो लक्ष्म्याः प्रियतमो विष्णुर्मम शुभेन कर्मणा मम पुण्येन दर्शितः प्रत्यक्षीकृत इति पूर्वोक्तमुद्गतान्त्युत्थितान्यश्रूणि हर्ष्याश्रूणि ययोस्ते उद्वधुनी नयने नेत्रे 'लोचनं नयन नेत्रमीक्षणं चक्षुरक्षिणि' इत्यमरः । यस्य स प्रेमाश्रुपूर्णनयनस्सन्नमंस्त ज्ञातवान् । वैदिकपद्धत्या कन्याप्रदान विष्णुरूपिणे वरायैव क्रियत इति तस्य विष्णुस्वरूपत्वमङ्गीकृतमिति भावः । भाषा वीरराजेन्द्र चोल ने, कुन्तलराज आहवमल्लदेव के प्रभाव के माहात्म्य से यह विक्रमाङ्कदेव साक्षात् लक्ष्मी का पति, मेरे पुण्य से मेरे दृष्टिगोचर कराया गया है ऐसा, आनन्द के आँसुओ को नेत्रो से बहाते हुए, माना । पादयोः प्रणतये कृतोद्यमं तं मुदा द्रविडपार्थिवं ततः । विक्रमाङ्कनृपतिर्न्यवर्तयत् तस्य संभ्रमविशेषतोषितः ॥८२॥ अन्वयः ततः विक्रमाङ्कनृपतिः तस्य संभ्रमविशेषतोषितः (सन्) मुदा पादयोः प्रणतये कृतोद्यमं तं द्रविडपार्थिवं न्यवर्तयत् । व्याख्या ततः साक्षात्कारानन्तरं विक्रमाङ्कनृपतिस्तस्य वीरराजेन्द्रचोलस्य सम्भ्रम- विशेषेण हर्षजनितविशिष्टत्वरया समादरविशेषेण वा तोषितः प्रसादितस्सन् मुदा हर्षेण पादयोर्विक्रमाङ्कदेवचरणयोः प्रणतये प्रणमाय कृतस्सम्पादित उद्यम उद्योगो येन स तं कृतोत्साहं तं प्रसिद्धं द्रविडपार्थिवं द्रविड़नृपं वीरराजेन्द्रं न्यवर्तयत् न्यवारयन्निषेधति स्मेत्यर्थः ।
( ३३७ ) भाषा सामना होने के अनन्तर विक्रमाङ्कदेव ने, वीरराजेन्द्र चोल के हर्ष जनित स्वरा से या आदर से प्रसन्न होकर, आनन्द से अपने पाओं पर पड कर प्रणाम करने का उत्साह दिखाने वाले द्रविड राजा को वैसा करने से रोका । किं करोषि वयसाधिकेन मे क्षिप्यतां शिरसि पादपल्लवः । अद्यजातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ अन्वयः अधिकेन वयसा किं करोषि, मे शिरसि पादपल्लवः क्षिप्यताम् । किं वयोवृद्धैः अद्यजातम् अपि अमलं रत्नं मूर्ध्नि न धार्यते । व्याख्या अधिकेन स्वदपेक्षयाऽधिकेन वयसाऽवस्थया वार्धक्यविचारेणेत्यर्थः । किं करोषि कथ निषेधसि । मे मम शिरसि मूर्ध्नि पादश्चरण एव पल्लवः कोमल- पत्रं चरणपल्लवः क्षिप्यताम् निषीद्यताम् । कि कथ वयसाऽवस्थयाऽधिकाः श्रेष्ठास्तैर्वयोवृद्धैरद्यजातमद्योत्पन्नं शाणादिना सज्जीकृत नवीनमित्यर्थ । अप्यमलं निर्मलं रत्न मणिर्मूध्नि शिरसि न धार्यते नोह्यते, अपि तु धार्यत एव । दृष्टान्तालङ्कारः । भाषा मैं अवस्था में बड़ा हूँ ऐसा विचार कर क्यों मुझे चरण पर पड़ने से रोकते हो । मेरे मस्तक पर अपना चरणपल्लव रक्खो अर्थात् मुझे चरण पर पड़कर प्रणाम करने दो । क्या वयोवृद्ध आज ही प्राप्त अर्थात् नवीन निर्मल मणि को अपने मस्तक पर नहीं धारण करते अर्थात् करते ही हैं । • इत्युदीरितवता निरन्तरं तेन हर्षजलपूर्णचक्षुषा । कुन्तलेन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिङ्ग च ॥८४॥ अन्वयः इति उदीरितवता निरन्तरं हर्षजलपूर्णचक्षुषा तेन कुन्तलेन्दुः परां मुदम् अगमत् द्राविडक्षितिपम् आलिलिङ्ग च । २२
( ३३८ ) व्याख्या इति पूर्वोक्तमुदीरितवतोक्तवता निरन्तरमविच्छिन्नं हर्षजलेन प्रेमाश्रुना पूर्णे व्याप्ते चक्षुषी नेत्रे यस्य तेनाऽऽनन्दाश्रुपरिप्लुतनेनेन तेन द्रविडाधिपेन कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवः परामुत्कृष्टां मुदं हर्षमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिङ्ग च आलिष्टवांश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः । भाषा पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुओं से भरे नेत्र वाले द्रविड देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और उसको गले लगा लिया । अर्धासनप्रणयपूर्णमनोरथोऽथ श्रीकुन्तलेश्वरमवोचत चोलभूपः । प्रत्यादिशन्दशनचन्द्रिकया किरीट- रत्नातपं सदसि राजपरम्पराणाम् ॥८५॥ अन्वयः अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया राजपरम्पराणां किरीटरत्नातपं प्रत्यादिशन् (सन्) श्रीकुन्तलेश्वरम् अवोचत । व्याख्या अथ परस्परालिङ्गनानन्तरं (सिंहासने) अर्धासनस्य प्रणयेन कृपयाऽर्धा- सनप्रदानरूपयेत्यर्थः । पूर्णस्सफलो मनोरथो वाञ्छितार्थो यस्य स चोलभू- पञ्चोलनृपो वीरराजेन्द्रः सदसि सभायां 'समज्या परिषद्गोष्ठी सभा- समितिसंसदः । आस्थानी क्लीवमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । दशनानां दन्तानां चन्द्रिका प्रकाशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां किरीटे मुकुटे रत्नानि मणयस्तेषामातपं प्रकाशं प्रत्यादिशन् निराकुर्वन् सन् श्री- कुन्तलेश्वरं विक्रमाङ्कदेवं प्रत्यवोचतोवाच । एतेन द्राविडेश्वरस्य स्वात्मनि गौरवातिशयो व्यज्यते । वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तभजाः जगौगः' । इति लक्षणात् ।