विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 333, कुल 493 में से
संदर्भ में पढ़ें( १२५ ) व्याख्या तस्य चोलदेशाधिपस्य वारणानां गजानां परम्परा श्रेणिर्गजयूथा इत्यर्थः । कर्णास्ताला इवेति कर्णतालास्तालपत्रसदृशश्रोत्राणि तेषां पवना वायवस्तेषामूर्म्मि- भिस्तरङ्गैःशीतलानि तैस्तालपत्राकारविशालश्रोत्रस्फुरणजनितवायुतरङ्गशीतैः कराणां शुण्डानां शीकराम्बूनि जलकणजलानि 'शीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तैर्हस्तिशुण्डानिःसरज्जलबिन्दुधाराभिः पुरोऽग्रे भयेन महाशब्द- जनितभीत्या मूर्च्छितान् चेतनारहितान् दिग्गजान् दिङ्नागान् सिञ्चति स्मेव पुनरपि चेतनाप्राप्त्यर्थं शीतजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रूपी ताड़ के पत्तों या पंखों से उत्पन्न वायु की लहरों से ठण्डे भए हुए सूँड से छूटने वाले फुवारों के जल से, मानो सामने दिखाई देने वाले भय से मूर्छित दिग्गजों को फिर से होश में लाने के लिये, शीतोपचार कर रहा था । तच्चमूरजसि दूरमुद्गते यन्न दिग्भ्रममघत्त भास्करः । हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६॥ अन्वयः तच्चमूरजसि दूरम् उद्गते (सति) भास्करः यत् दिग्भ्रमं न अधत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः । व्याख्या तस्य चोलराजस्य चमूःसेना 'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः' इत्यमरः । तस्या रजो धूलिस्तस्मिन् तत्सेनाधूलौ दूरमत्यूर्ध्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रान्तिं नाधत्त न बभाराऽत्राऽस्मिन्नर्थे कुञ्जराणां हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभागानां वीजनैःसंचलनैर्गजो- परिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसां धूलीनां निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यलिङ्गमलङ्कारः । भाषा उसकी सेना के चलने से उडी धूलि के बहुत ऊँचाई तक छा जाने पर,