विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 353, कुल 493 में से
संदर्भ में पढ़ें( ३४५ ) प्रहृष्टचेतसि तत्र द्रविडनृपतौ गतवति सति स्वनगरं प्रति प्रस्थिते सति प्रतिपदं प्रतिक्षणमुदकण्ठत समुत्सुको बभूव । तस्य स्मरणेन प्रसङ्गो बभूवेत्यर्थः । निर्मलानाम स्वच्छहृदयानां मनांसि चेतांसि कुसुमवत्पुष्पवन्मृदूनि कोमलानि भवन्ति । भाषा केवल गुणों से ही स्नेह करने वाला, पृथ्वी भर के लोगों को सुख देने वाला विक्रमाङ्कदेव, अपने आदर की सिद्धि से प्रसन्न चित्त, द्रविड राजा के चले जाने पर, क्षण २ में उसके लिये उत्कण्ठित होता था । स्वच्छ हृदय वाले मनुष्यों के मन, फूल के ऐसे कोमल होते हैं । द्रविडपतिकथाद्भुत क्षणेषु क्षितिपति सूनुरसौ गुणानुरागी । पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयाञ्चकार ॥४॥ अन्वयः विपुलमतिः गुणानुरागी असौ क्षितिपतिसूनुः द्रविडपतिकथाद्भुत- क्षणेषु पुलकपरिकरैः कपोलपालीं परिपूरयाञ्चकार । व्याख्या विपुला विशुद्धोदारेत्यर्थः । मतिर्बुद्धि 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मति' इत्यमरः । मह्य स उदारप्रज्ञो गुणेषु सौजन्यादिगुणेष्वनुरागः प्रेम यस्य स गुणस्नेह्यसौ प्रसिद्ध क्षितिप्तेर्नृपस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेशो द्रविडपतेश्चोलराजस्य कथानां वार्तानामद्भुता आश्चर्यन्विता क्षणा अवसरास्तेषु चोलराजसम्बन्धिप्रवृत्तन्तचर्चाकालेषु पुलकानां रोमाञ्चानां परिकरास्समूहास्तै रोमाञ्चप्रकरै कपोलपालीं गण्डस्थलीं परिपूरयाञ्चकार परिपूर्णाञ्चकार । तस्य चोलराजस्य स्मरणमात्रेण प्रेम्णा स रोमाञ्चितोऽभूदिति भावः । भाषा निर्मल बुद्धि वाले गुणग्राही राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के गाल, चोलराज की अद्भुत बातचीत के सिलसिले में रोमाञ्चित हो उठते थे । किमिति न गमनान्निवारितोऽसौ परिचयमेष्यति चक्षुषोः पुनः किम् । इति सुजनशिरोमणिः कुमारः किमपि चिरं परिचिन्तयाञ्चकार ॥५॥