विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 354, कुल 493 में से
संदर्भ में पढ़ें( ३४६ ) अन्वयः असौ गमनात् किम् इति न निवारितः । सुजनशिखामणिः किम् पुनः चक्षुषोः परिचयम् एष्यति इति कुमारः किमपि चिरं परिचिन्तयाञ्चकार । व्याख्या असौ द्रविडनरपतिर्गमनात्स्वनगरप्रयाणात् किमिति न कुतो न निवारितः प्रतिषिद्धः । सुजनानां सज्जनानां शिखामणिशिरोरत्न श्रेष्ठ इत्यर्थः । द्रविडा- धिराजः किमिति प्रश्ने पुनः भूयश्चक्षुषोर्नयनयोः परिचयं गोचरत्वमेष्यति समाग- मिष्यतीतीत्यं प्रकारेण कुमारो विक्रमाङ्कदेवः किमपि विचित्रमवर्णनीयं चिरं बहुकाल परिचिन्तयाञ्चकार विचारं कृतवान् । भाषा मैंने द्रविडराजा को अपने घर जाने से क्यो नही रोका ? क्या वह सज्जन शिरोमणि फिर कभी दृष्टि-गोचर होगा ? वह राजकुमार विक्रमाङ्कदेव ऐसी २ चिरकाल तक चिन्ता किया करता था । द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसम्पदास्पदं सः । प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ अन्वयः सः द्रविडनृपतिपुत्रिकां त्रिभुवनदुर्लभसम्पदास्पदं चकार । प्रणयिषु शुभचेतसां प्रसादः सन्ततिम् अपि अनुग्रहीतुं प्रसरति । व्याख्या स विक्रमाङ्कदेवो द्रविडनृपतेश्चोलाधीशवरस्य पुत्रिकामात्मजां त्रिभुवनस्य त्रैलोक्यस्य दुर्लभा दुष्प्राप्या या सम्पत्सम्पत्तिस्तस्या आस्पदं स्थानं चकार निष्पादितवान् । विक्रमाङ्कदेवस्तत्कन्यायै प्रभूतसम्पत्तिं ददावित्यर्थः । प्रणयिषु स्नेहाद्विनिष्ठेषु शुभं कल्याणकारि चेतश्चित्तं येषां ते तेषां महोपकारिणां महाजनानां प्रसादः प्रसन्नता ‘प्रसादस्तु प्रसन्नता’ इत्यमरः । सन्तति सन्तानमपि कन्यापुत्रादीनपीत्यर्थः । अनुग्रहीतुं कृपां प्रदर्शयितुं प्रसरति प्रवर्तते । द्रविडराज- प्रेम्णा तत्पुत्रीमप्यनुगृह्णाति स्मेति भावः । पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्त- रन्यासो ऽलङ्कारः ।