विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 371, कुल 493 में से
संदर्भ में पढ़ें( ३६४ ) व्याख्या इति पूर्वोक्तापयगामित्वाद्धेतोः प्रयान्त्या नृपमेकं परित्यज्यान्यत्र गच्छन्त्या श्रिया राजलक्ष्म्या मुषिताऽपहृता धीः सदसद्विवेकिनी बुद्धिर्येषां तेऽपहृतसम्मतयो दग्धभूपा दुष्टराजानो रभसवशादविमृश्यकारित्वादविचिन्त्याऽज्ञातवैव बलस्य सैन्यस्य भरोऽतिशयस्तस्य बहुमानोऽतिदर्पस्तस्मात् स्वसैन्याधिक्यातिदर्पतः परेषां शत्रूणां प्रतापस्तेज एव दीपस्तस्मिन् पतङ्गानां शलभकीटानां व्रतं गतिं शलभत्व- मित्यर्थः । उपयान्ति प्राप्नुवन्ति । शलभत्वत्परप्रतापदीपशिखायां भस्म- साद्भवन्तीति भावः । पतङ्गानां व्रतमिव व्रतं प्राप्नुवन्तीत्यर्थपरामर्शात् पदार्थ- निदर्शनालङ्कारः । भाषा अनीतिमार्ग पर आरूढ होने से, उन राजाओ को छोड़ कर अन्यत्र जाने वाली राजलक्ष्मी के द्वारा अपहृत सुबुद्धि वाले दुष्ट राजा लोग, बिना विचारे शीघ्रता से कार्य करने के कारण, बडी पलटन होने के अधिक गर्व से अनजान में ही शत्रु के प्रताप रूपी दीपक में फतिङ्गो के समान जलकर भस्म हो जाते हैं । सकलमपि विदन्ति हन्तशून्यं क्षितिपतयः प्रतिहारवारणाभिः । क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ अन्वयः क्षितिपतयः प्रतिहारवारणाभिः सकलम् अपि शून्यं विदन्ति हन्त । यत् प्रकृतिजडाः अमी परलोकचिन्तनाय क्षणम् अपि न संरभन्ते । व्याख्या क्षितिपतयो राजानः प्रतिहारैर्द्वारपालैर्वारणाः सर्वजनप्रवेशनिषेधकरणानि तैर्द्वारपालकृतसकललोकापसारणैः सकलमपि सम्पूर्णमपि जगत् शून्यं स्व विहाया- न्यनियन्तृरहितं विदन्ति जानन्ति हन्तेति खेदे अथवा सर्वशून्यमिति बौद्धमत- मवलम्बते । यदस्मात्कारणात् प्रकृत्या स्वभावेन जडा मूर्खा अमी भूपाः परलोकस्य मर्त्यलोकं विहायाऽन्यलोकस्येहकृतकर्मफलभोगाश्रयभूतस्य जन्मान्तरस्य या चिन्तनमस्तित्वविचारस्तस्मै परलोकचिन्तनाय क्षणमपि स्वल्पकालमपि न संरभन्ते न चेष्टां विदधति । बौद्धा अपि पुनर्जन्म नोररीकुर्वन्ति । पूर्ववाक्या-