विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 370, कुल 493 में से
संदर्भ में पढ़ें( ३६२ ) भाषा दुश्चरित्र राजाओ के पाप से उनमें न जाने कहाँ से ऐसी बुद्धि अर्थात् द्धि आ जाती है जिससे राजलक्ष्मी, समुद्र के किनारे के पर्वतों से टकराई नाव के समान शीघ्र नष्ट हो जाती है। व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । ऽविनयपथवर्तिनं यदेताः प्रबलमपि प्रधनेषु वञ्चयन्ति ॥३०॥ अन्वयः इह निरङ्कुशे अपि कलौ शस्त्रदेवतानाम् इदं दृढं व्रतं यत् एताः अधुना अपि अविनयपथवर्तिनं प्रबलम् अपि प्रधनेषु वञ्चयन्ति । व्याख्या इहाऽस्मिन् जगति निरङ्कुशेऽपि निष्प्रतिबन्धेऽपि कलौ कलियुगे शस्त्राणामा- युधानां देवतास्तदधिष्ठातृदेवतास्तेषामधुनाऽपि साम्प्रतमपीदमेतद् दृढं निश्चितं व्रतं नियमो यद्यस्मात्कारणादेताः अत्राधिष्ठातृदेवता अविनयस्योद्धतस्य पन्था मार्गोऽविनयपथस्तस्मिन् वर्तत इत्यविनयपथवर्ती तं कुमार्गगामिनं प्रबलमपि प्रकृष्टबलवन्तं शूरमपि प्रधनेषु युद्धेषु 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । वञ्चयन्ति प्राङ्मुखास्तिति तत्समीहितं नोत्पादयन्ति । काव्य- लिङ्गमलङ्कारः । . भाषा इस जगत् में इस निरङ्कुश कलियुग में भी, शस्त्रों की अधिष्ठातृ देवताओं का सम्प्रति भी यह निश्चित नियम है कि वे अनीतिमार्गारूढ बलवान् से बलवान् को भी युद्धों में धोखा देती हैं । अर्थात् उनका साथ नहीं देतीं । इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः । बलभरबहुमानतः पतङ्ग-व्रतमुपयान्ति परप्रतापदीपे ॥३१॥ अन्वयः इति प्रयान्त्या श्रिया मुषितधियः दग्धभूपाः रभसवशात् अविचिन्त्य बलभरबहुमानतः परप्रतापदीपे पतङ्गव्रतम् उपयान्ति ।