विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 377, कुल 493 में से
संदर्भ में पढ़ें( ३७० ) अथ षड्भिः पद्यैः सोमदेवहस्तिनो वर्णयति कविः— अनुसरदसितातपत्रमैत्रीं मधुकरमण्डलमाससाद येषाम् । अतिविपुलकपोलदानपङ्क–प्रभवसरोरुहिणीदलानुकारम् ॥४०॥ अन्वयः असितातपत्रमैत्रीम् अनुसरत् मधुकरमण्डलं येषाम् अतिविपुलकपोल- दानपङ्कप्रभवसरोरुहिणीदलानुकारम् आससाद । व्याख्या असितस्य कृष्णवर्णस्याऽऽतपत्रस्य छत्रस्य मैत्रीं सादृश्यं तामनुसरत्सपारयन्म- धुकराणां भ्रमराणां मण्डलं समूहो येषां सोमदेव गजानामतिविपुलेष्वत्यन्त- प्रशस्तेषु कपोलेषु गण्डस्थलेषु दान मद एव पङ्कः कर्दम स एव प्रभव उत्पत्तिस्थानं यासां तासां सरोरुहिणीनां कमलिनीनां दलानां पत्राणां ‘पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्’ इत्यमरः । अनुकारं साम्यमाससाद भेजेऽनुप्रापेत्यर्थः । भाषा काले रंग के छत्र के समान कृष्णवर्ण भौंरों के समूह, सोमदेव के हाथियों के अति विशाल गण्डस्थलों पर के मद रूपी कीचड में उत्पन्न नीले रंग की कमलिनी के पत्तों की समानता प्राप्त कर रहे थे । अर्थात् नील कमलिनी के पत्तों के ऐसे शोभित होते थे । अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु । मुमुचुरिव मुखैरजस्रमस्रं विगलितधातुतरङ्गिणीमिषेण ॥४१॥ अन्वयः अगणितसृणिभिः प्रधावितैः यैः तटेषु परिघट्टिताः कुलगिरयः मुखैः विगलितधातुतरङ्गिणीमिषेण अजस्रम् अस्रं मुमुचुः इव । व्याख्या अगणिता उपेक्षिता सृणयोऽङ्कुशा यैस्ते तैरङ्कुशनिक्षेपाऽनियन्त्रितैः प्रधावितैस्तीक्ष्णवेगेन सचलद्भिर्यैर्गजैस्तटेषु प्रान्तभागेषु परिघट्टिता सङ्घट्टं प्रापिताः कुलगिरयः कुलपर्वता 'महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च