विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 378, कुल 493 में से
संदर्भ में पढ़ें( २७८ ) रयान्न्रश्च सर्पन्ते कुलपर्वताः' । मुखैरुर्ध्वमार्गेविगलिता स्रवन्ती धातुतरङ्गिणी रक्ताश्याननदी तस्या भियेण व्याजेनाऽजस्रं निरन्तरमथ रुधिर 'रुधिरेऽ- लोहितास्रक्षतजशोणितम्' इत्यमरः । मुमुचुरिव ससृजुरिव वममु- वेत्यर्थः । गजसंघट्टनात्ताडिताः कुलपर्वता उपरिष्टात्पतद्गैरिकादिरक्त- तूनदीभियेन मुखैरस्रं निरन्तरं ववमुरिवेति भावः । अत्रोत्प्रेक्षालङ्कारः ।
भाषा अङ्कुश की परवाह न कर, वेग से दौडने वाले इन हाथियो से, तट भाग में टक्कर खाए हुए, अत एव चोटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली लाल रंग की गेरू आदि धातुओ की नदी के बहाने से मानो मुखो से लगातार रक्त की वम कर रहे थे ।
निजदशनयुगैकबद्धवासां श्रियमिव कर्तुमुपोढकौतुका ये । स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४२॥
अन्वयः श्रियं निजदशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरांसि सततं स्मरणशरणपङ्कजानि चक्रुः ।
व्याख्या श्रियं लक्ष्मीं निज स्वकीय यद्दशनयोर्दन्तयोर्युगं युगलमेवैक केवलं तस्मिन् बद्धो दृढतया कृतो वासो संस्थितिर्यया सा तां कर्तुमिव विधातुमिवोपोढं सञ्जातं कौतुकं कुतूहलं येषां ते 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । अमर्षः क्रोधः पुरस्सरो मुख्यो येषां ते ये सोमदेवनृपस्य गजा सरांसि तडागान् सततं निरन्तरं स्मरणं स्मृतिरेव शरणं रक्षास्थानं येषां तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि स्मृतिगोचरकमलानि पद्मरहितानीत्यर्थः । यद्विदुः । हस्तिनां दन्तेषु श्रियः स्थानं प्रसिद्धम् । तदुत्पत्तिमत्प्रेक्षते कविः । यत्सरोवरगतलक्ष्मी-निवास- स्थानकमलसमूहविनाशेन स्वदन्तेषु स्थिर लक्ष्मीनिवासस्थानं ते चक्रुरिति भावः ।
भाषा मानो लक्ष्मी को केवल अपने दोनो दातो की ही निवासिनी बनाने के ध्येय से अत्यन्त उत्सुक तथा क्रोध से भरे सोमदेव के हाथियों ने सरोवरों को स्मृतिमात्र