भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २७८ ) रयान्न्रश्च सर्पन्ते कुलपर्वताः' । मुखैरुर्ध्वमार्गेविगलिता स्रवन्ती धातुतरङ्गिणी रक्ताश्याननदी तस्या भियेण व्याजेनाऽजस्रं निरन्तरमथ रुधिर 'रुधिरेऽ- लोहितास्रक्षतजशोणितम्' इत्यमरः । मुमुचुरिव ससृजुरिव वममु- वेत्यर्थः । गजसंघट्टनात्ताडिताः कुलपर्वता उपरिष्टात्पतद्गैरिकादिरक्त- तूनदीभियेन मुखैरस्रं निरन्तरं ववमुरिवेति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा अङ्कुश की परवाह न कर, वेग से दौडने वाले इन हाथियो से, तट भाग में टक्कर खाए हुए, अत एव चोटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली लाल रंग की गेरू आदि धातुओ की नदी के बहाने से मानो मुखो से लगातार रक्त की वम कर रहे थे ।

निजदशनयुगैकबद्धवासां श्रियमिव कर्तुमुपोढकौतुका ये । स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४२॥

अन्वयः श्रियं निजदशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरांसि सततं स्मरणशरणपङ्कजानि चक्रुः ।

व्याख्या श्रियं लक्ष्मीं निज स्वकीय यद्दशनयोर्दन्तयोर्युगं युगलमेवैक केवलं तस्मिन् बद्धो दृढतया कृतो वासो संस्थितिर्यया सा तां कर्तुमिव विधातुमिवोपोढं सञ्जातं कौतुकं कुतूहलं येषां ते 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । अमर्षः क्रोधः पुरस्सरो मुख्यो येषां ते ये सोमदेवनृपस्य गजा सरांसि तडागान् सततं निरन्तरं स्मरणं स्मृतिरेव शरणं रक्षास्थानं येषां तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि स्मृतिगोचरकमलानि पद्मरहितानीत्यर्थः । यद्विदुः । हस्तिनां दन्तेषु श्रियः स्थानं प्रसिद्धम् । तदुत्पत्तिमत्प्रेक्षते कविः । यत्सरोवरगतलक्ष्मी-निवास- स्थानकमलसमूहविनाशेन स्वदन्तेषु स्थिर लक्ष्मीनिवासस्थानं ते चक्रुरिति भावः ।

भाषा मानो लक्ष्मी को केवल अपने दोनो दातो की ही निवासिनी बनाने के ध्येय से अत्यन्त उत्सुक तथा क्रोध से भरे सोमदेव के हाथियों ने सरोवरों को स्मृतिमात्र

( ३७२ ) में आने योग्य कमल वाले बनादिया अर्थात् लक्ष्मी के निवास स्थान कमलो को नष्ट कर दिया जिससे उनके दातो में ही लक्ष्मी वास करे। श्रवणमधुरविस्फुरद्ध्वनीनां व्यधुरुपकारधियेव षट्पदानाम्। मदमलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥४३॥ अन्वयः ये श्रवणमधुरविस्फुरद्ध्वनीनां षट्पदानाम् उपकारधिया इव विटपि- विधूननपातिभिः प्रसूनैः मदसलिलम् उदारसौरभं व्यधुः। व्याख्या ये सोमदेवगजा श्रवणयोः कर्णयोर्मधुरं सुश्राव्यः कोमल इत्यर्थं । विस्फुर- द्विलसद् ध्वनि शब्दो येषा ते तेषा श्रवणमधुरविलसच्छब्दाना षट्पदाना भ्रमराणा ‘षट्पदभ्रमरालय’ इत्यमर । उपकारधिया हितसम्पादनबुद्धयेव विटपिना वृक्षाणा विधूननेनाऽन्दोलनेन पातिभिरथ पतनशीलै प्रसूनै पुष्पैर्मद- सलिल मदजलमुदारोऽधिक सौरभ सुगन्धो यस्मिंस्तत्तथप्पू रचक्रु । कर्णमधुर- शब्देनोपकृता गजा स्वमद पुष्परसेनाधिकं सुरबासु विधाय भ्रमरान् प्रत्युप- कुर्वन्ति स्मेति कविरुत्प्रेक्षते । गज-भ्रमरयो परस्परमादानप्रदानाभ्यां परिवृत्तिर्नामालङ्कार । भाषा इन सोमदेव के हाथियों ने कान में आनन्द देने वाली गूंजार करने वाले भौंरों पर मानो उपकार करने की बुद्धि से वृक्षों को झकझोरने से गिरे हुए फूलों से अपने मद जल को अधिक सुगन्धित बना दिया। अर्थात् भ्रमरों के शब्द द्वारा आनन्द देने से उपकृत होकर उनके लिये अपने मद जल को फूलों से अधिक सुगन्धित बनाकर उनका प्रत्युपकार किया। निजतनूभरगौरवाद्गलन्तीं क्षितिमिर ये दधति स्म शैलतुङ्गाः। मदमुकुलितलोचनाश्चलन्तः किमपि करैः सविलासमुन्नमद्भिः ॥४४॥ अन्वयः शैलतुङ्गाः मदमुकुलितलोचनाः सविलासं चलन्तः ये उन्नमद्भिः करैः निजतनूभरगौरवात् गलन्ती क्षितिं किमपि दधति स्म इव ।

( ३७३ ) व्याख्या ईषत्पर्वतवत्तुङ्गा उन्नता पर्वतवद्विशालोच्चशरीरा मदेन दानेन मुकुलितानि नेमीलितानि लोचनानि नयनानि येषां ते सविलासं सलीलं चलन्तो मन्दविक्षेपं कुर्वन्तो ये सोमदेवगजा उपरिष्टादूर्ध्वं क्रियमाणैः करैः शुण्डादण्डैर्निजाः स्वकीया- स्तनवो देहास्तेषां भरस्य भारस्य गौरवात् स्थूलत्वेन गुरुत्वाद्गलन्तीमधो विशन्तीं क्षितिं भूमिं किमपि किञ्चिदपि दधति स्मेवोपरि गृह्णन्ति स्मेव । भाषा पर्वत के ऐसे ऊँचे, मद से अधखुली आंखवाले व मस्ती से झूम झूम कर धीरे धीरे चलने वाले सोमदेव के हाथी, अपने शरीर के बोझे से नीचे धँसने वाली पृथ्वी को मानो अपनी सूँड ऊपर उठा कर कुछ उभार रहे थे । रणजलधिविलोडनप्रचण्डा गिरय इव द्विरदेश्वरास्तदीयाः । दधुरतिमहतीमतीतसंख्याः श्रियमधिरोहितयोधमण्डलास्ते ॥४५॥ अन्वयः अतीतसंख्याः अधिरोहितयोधमण्डलाः रणजलधिविलोडनप्रचण्डाः गिरयः इव ते तदीयाः द्विरदेश्वराः अतिमहतीं श्रियं दधुः । व्याख्या अतीतसंख्याः संख्यामतिक्रम्य वर्तन्त इत्यतीतसंख्या गणनारहिता अधिरो- हितानि स्वपृष्ठोपरि स्थापितानि योधानां सुभटानां मण्डलानि समूहा यैस्ते रणे युद्धमेव जलधिसमुद्रस्तस्य विलोडनेऽवगाहने मन्थने प्रचण्डा निष्णाता गिरय इव पर्वता इव विशाला इत्यर्थः । ते प्रसिद्धास्तस्य सोमदेवस्येमे इति तदीया द्विरदेश्वरा गजेन्द्रा 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप.' इत्यमरः । अतिमहतीमत्यधिकां श्रियं शोभां दधुः धारयामासुः । गिरिपक्षेऽसंख्याका योधमण्डलपुञ्जा, जलधौ रण इव तद्विलोडने मन्दराचलवत्प्रचण्डा गिरय इवेति दिक् । भाषा असंख्य, योद्धाओं को अपनी पीठ पर धारण करने वाले पक्ष में अपने शिखरों पर रखने वाले, रणरूपी समुद्र को मन्थन करने में प्रवीण, पक्ष में समुद्र को रण

( ३७४ ) मन्दराचल के समान मन्थन करने वाले पर्वतों के समान सोमदेव के गजेन्द्र अत्यन्त शोभा को प्राप्त हो रहे थे । इति सम्बन्धकुलकम्—कुलकमित्यर्थ । अथ सोमदेवसेनाश्वान्पञ्चभिः श्लोकैर्वर्णयति कविः— कुलिशकठिनलोहबन्धयोगान्निजगृहकुट्टिमवद्विलङ्घ्यते स्म । विशिखशकलकण्टकावतीर्णा रणखुरली खुरमण्डलैर्यदीयैः ॥४६॥ अन्वयः यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशकलकण्ट- कावकीर्णा रणखुरली निजगृहकुट्टिमवत् विलङ्घ्यते स्म । व्याख्या येषामश्वानामिमे इति यदीयास्तैः खुरमण्डलैः शफसमूहैः 'शफं क्लीबे खुरः पुमान्' इत्यमरः । कुलिशवद्वज्रवत्कठिनानां कठोराणां लोहबन्धानां खुरेषु कीलितलोहानां "नाल" इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां बाणानां शकलानि खण्डान्येव कण्टकास्तैरवकीर्णा व्याप्ता रणखुरली युद्धभूमि- र्निजानि स्वकीयानि गृहाणि गेहाः 'गृहं गेहोदवसितम्' इत्यमरः । तेषां कुट्टिमा निबद्धा भूस्तद्वत् 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । विलङ्घ्यते स्मातिक्राम्यते स्म । भाषा जिन घोडो के खुरो से, वज्र के समान कड़ी नांल बधी होने के कारण, बाणो के टुकडे रूपी काटो से आच्छादित युद्धभूमी, घुडसाल की फरशबन्दी के समान लाघी जाती थी अर्थात् घोड़े, खुरो में कड़ी नाल जड़ी होने के कारण आराम से घुडसाल की पक्की सतह पर चलन के समान बाणो के टुकडे रूपी कांटो से आच्छादित रणभूमि पर भी आराम से चलते थे । व्यजनचटुलवालधिप्रपञ्च-प्रचुरसमीरणपुञ्जमध्यवर्ती । त्वरितगमनलङ्घितोऽपि येषां मरुदविभाव्यतया न लज्जते स्म ॥४७॥

( ३७५ ) अन्वयः व्यजनचटुलवालधिप्रपञ्चप्रचुरसमीरखपुञ्जमध्यवर्ती मरुत् येषां त्वरित- गमनलङ्घितः अपि अविभाव्यतया न लज्जते स्म । व्याख्या व्यजनानि तालवृन्तानीव चटुलाश्चपला वालधयः पुच्छप्रदेशपुञ्जाः 'पुच्छोऽस्त्री लूमलांगूले बालहस्तश्च वालधिः' इत्यमरः । तेषां प्रपञ्चा विस्तारास्तेभ्यः प्रचुरा बहुलाः समीराणा वायवस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यजनचटुलवालधिप्रपञ्चप्रचुर-समीरणपुञ्जमध्यवर्ती भरद्वापुर्यषा- मश्वानां त्वरितगमनेन शीघ्रगतिविशेषेण लङ्घितोऽप्यतिक्रान्तोऽप्यविभाव्य- तयाऽलक्ष्यतया न लज्जते स्म नु त्रपते स्म । मरुद्गतिस्तु प्रसिद्धैव । परमश्वानां गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्यजनचटुल- वालधिप्रपञ्चप्रचुरसमीरजपुञ्जवर्तित्वादविभाव्यतया को मां पश्यतीति भावेन लज्जा न सजातेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा ताड के पंखो के समान चंचल पूंछो के हिलने से उत्पन्न अधिक हवाओ के समूह के मध्य में विद्यमान पवन, घोडो से तीव्रगति में पराजित होने पर भी अदृश्य होने से लज्जित न हुआ । अर्थात् घोडो से गति में हरा दिये जाने पर भी अन्य वायुओ के मध्य में रहने से मुझे कौन पहचान सकेगा इस भावना से मरुत् लज्जित न हुआ । प्रतिफलननिभात्सहसमासा मणियमपल्ययनप्रविष्ठितेन । निजरथवहनाथमथिता ये स्वयमधिरुह्य परीक्षिता इवासन् ॥४८॥ अन्वयः ये प्रतिफलनानिभात् काणिमयपल्ययनप्रतिष्ठितेन सहसमासा निजवाह- नार्थम् अर्थिताः (सन्तः) स्वयम् अधिरुह्य परीक्षिताः इव आसन् । व्याख्या येऽश्वाः प्रतिफलनस्य प्रतिबिम्बस्य निभात् व्याजात् 'निभ व्याजसदृक्षयोः' इति कोशः । मणीनां विकार इति मणिमय तादृश पल्ययन पर्याणं (काठी)ति

( ३७६ ) भाषायाम्) तस्मिन् प्रतिष्ठितेन समुपविष्टेन मणिमयपर्ययनप्रतिबिम्बितेनेत्यर्थः । सहस्रं भासो मयूखा यस्य तेन सहस्रभानुना सूर्येण तेषामश्वानां सर्वश्रेष्ठत्वा- न्निजवहनायं स्ववाहनकल्पनाय प्रार्थिता अपेक्षिताः सन्तः स्वयं साक्षात्स्वयमेव तानधिरुह्याश्वोपरि समुपविश्य परीक्षितास्तीव्रतमा गतिरस्ति न वेति निरीक्षिता इवासन् । सूर्याश्वतोऽपि तेषामश्वानां श्रेष्ठत्वमिति भावः । सापह्ववोत्प्रेक्षालङ्कारः । भाषा इन घोड़ों की रत्न जड़ित काठियों पर सूर्य के प्रतिबिम्ब पड़ने के मिष से (अपने घोड़ों से अच्छे समझ) सूर्य द्वारा अपना वाहन बनाने के लिये मागे हुए इन घोड़ों पर मानो स्वयं सूर्य ने सवारी कर उनकी परीक्षा की हो । जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाथ पृथ्वी । नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिषन्ति ४६ अन्वयः (हे) नाथ ! पृथ्वी जवसमुचितधावनानुरूपा पृथुला किमिति न कृता इति नभसि स्फुरद्भिः खुरपुटैः ये विधिं मुहुः प्रतिक्षिषन्ति स्म इव । व्याख्या हे नाथ ! हे स्वामिन् ब्रह्मन् । पृथ्वी मेदिनी जवस्य वेगस्य समुचितं योग्यं धावनं तीव्रगमनं तस्यानुरूपाऽनुकूला पृथुला विस्तृता महतीत्यर्थः 'विशङ्कटं पृथुबृहद्विशालं पृथुलं महत्' इत्यमरः । किमिति कस्माद्धेतोर्न कृता न विहिता । इति हेतोरीदृशमनौचित्यं मनसि परिज्ञाय नभसि व्योम्नि स्फुरद्भिस्ततस्ततः समुच्छलद्भिः खुरपुटैः शफसम्पुटैः येऽश्वा विधिं ब्रह्माणं मुहुर्भूयः प्रतिक्षिषन्ति स्मेव समुपालभन्ते स्मेव । खे खुरपुटस्फुरणे ब्रह्मण उपालम्भस्याहार्यसंभावना- दुत्प्रेक्षालङ्कारः । भाषा हे ब्रह्मा जी ! आपने इस पृथ्वी को वेग के अनुसार दौड़ लगाने योग्य विस्तृत क्यो नहीं बनाया । इसीलिए मानो वे घोड़े आकाश में ऊपर दिखाई देने वाले अपने खुरपुटों से ब्रह्मा को उलाहना दे रहे थे या ब्रह्मा की लिहाड़ी ले रहे थे ।

( ३७७ ) प्रतिदिशमधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः । अगणितकृतपङ्क्तयो हयास्ते कमिव न चक्रुरुपक्रमं तदीयाः ॥५०॥ अन्वयः अधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत- पङ्क्तयः ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्रुः । व्याख्या अधिरोहितास्स्वपृष्ठोपरि समुपवेशिता अश्ववाराः सादिनः 'अश्वारोहास्तु सादिनः' इत्यमरः । यैस्ते परिचितानि गात्रेषु शोभार्थं निर्मितानि काञ्चनस्य सुवर्णस्य चित्राः विचित्राः वर्मबन्धाः कवचानि येषां तेऽगणितः संख्यामतिक्रान्ताः कृता बद्धाः पङ्क्तयः श्रेणयो येषां ते तथोक्तास्ते प्रसिद्धस्तदोवास्सोमदेव- सम्बन्धिनो हया अश्वाः प्रतिदिशं दिशि दिशि कमिवोपक्रमं रमणयोगं न चक्रुः न विदधुः सर्वमेवोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकारित्वं सूचितम् । भाषा घुड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र कवचों को धारण करने वाले, असंख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के घोडों ने प्रत्येक दिशा में कौनसा साहसयुक्त कार्य नहीं किया । इति पञ्चभिः कुलकम् । असिविलसितेन तद्बलानामतिलतिकानिबहेन निर्मलेन । गगनगिरितटो नवेन्द्रनील-द्युतिशतनिर्झरधारिणेव रेजे ॥५१॥ अन्वयः गगनगिरितटी तद्बलानाम् असिविलसितेन निर्मलेन असिलतिका- निवहेन नवेन्द्रनीलद्युतिशवनिर्झरधारिणी इव रेजे । व्याख्या गगनमाकाशमेव गिरिः पर्वतस्तस्य तटी प्रान्तभागः (कर्त्री) तस्य सोमदेवस्य बलानि सैन्यानि 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । तेषां

( ३७८ ) सोमदेवसैन्याना असित कृष्णं विलसितं चेष्टितं स्वरूपं वा यस्य स तेन श्याम- वर्णेन निर्मलेन विशदेनाऽस्य खङ्गा एव लतिका लतास्तासा निवहेन समूहेन हेतुना नवो नवीनो य इन्द्रनीलो मरकतमणिस्तस्य द्रुतीनां द्रवीभूतपदार्थाना शतानि तेषा निर्झरान् वारिप्रवाहान् 'वारिप्रवाहो निर्झरो झर' इत्यमरः। धारयतीति नवेन्द्रनीलद्रुतिशतनिर्झरधारिणीव नवीनमरकतमणिद्रवीभूतपदार्थ- शतप्रवाहधारिणीव रेजे शुशुभे। खड्गलतान्वहे कृष्णत्वसाम्यादिन्द्रनीलद्रव- शतनिर्झरत्वस्य सम्भावनादुत्प्रेक्षालङ्कारः। भाषा आकाशरूपी पर्वत का प्रान्तभाग, सोमदेव की सेना के कृष्णवर्ण निर्मल तलवार रूपी लताओं के समूह से मानो नये मरकत मणी (पन्ने) के पानी के सैकड़ो झरनों को धारण करता हुआ शोभित होता था। क्व नु न विलसति स्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्रीः। क्षणमविरहिता विपक्षसेना-भटशिरसामिव मण्डलैस्तदीया ॥५२॥ अन्वयः कलितशिखण्डिशिखण्डमण्डनश्रीः तदीया कुन्तलमाला विपक्षसेना- भटशिरसा मण्डलैः क्षणम् अविरहिता इव क्व नु न विलसति स्म। व्याख्या कलिता धारिता शिखण्डिना मयूराणां शिखण्डं पिच्छमेव मण्डनं भूषणं, तस्य श्री शोभा यया सा तदीया सोमदेवसैन्यसम्बन्धिनी कुन्तमाला प्रासपङ्क्तिः 'प्रासस्तु कुन्त' इत्यमरः। विपक्षाणां शत्रूणा सेना सैन्यं तासां भटा योद्धार- स्तेषां शिरांसि मूर्धानस्तेषां मण्डलस्समूहैः क्षणमीषत्कालायाडविरहितेव युक्तेव क्व नु कस्मिन्समराङ्गणप्रदेशे न विलसति स्म न प्रस्फुरति स्म। सर्वत्र विलसति स्मेति भावः। मयूरपिच्छशोभितास्तदीयसेनाकुन्ता क्षण शत्रुंमस्तक- धारिण इव सर्वत्र दृश्यन्ते स्मेत्यर्थः। भाषा मोरपंख की सजावट से सजाया हुआ सोमदेव के भालों का समूह, थोड़ी देर के लिये, शत्रु की सेना के योद्धाओं के मस्तक समूहों से युक्त होने के समान, कहाँ नही दिखाई देता था अर्थात् सर्वत्र दिखाई देता था।

( ३७९ ) बहुभिरभिहितैः किमद्भुतैर्वा भयजननं भुवनैकमल्लसैन्यम् । रणरसचलितं विलोक्य केषामलभत चेतसि नान्तरं विकल्पः ॥५३॥ अन्वयः बहुभिः अद्भुतैः अभिहितैः किं वा । भयजनन भुवनैकमल्लसैन्यं रणरसचलितं विलोक्य केषां चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरनेकैर्द्भुतैराश्चर्यकारिभिरभिहितै कथितैर्वर्णनै रित्यर्थः । किं वा किम्फलं न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत् भयोत्पादक भुवने जगत्पेष्वेकोगद्वितीयो मल्लो वीरस्सोमदेवस्तस्य सैन्यं बल रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्तं विलोक्य दृष्ट्वा केषां नृपाणां चेतसि हृदये विकल्प संशयोन्तरमवकाश 'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये' इत्यमर । नालभत न प्राप । राजानोऽपि तद्वलं वीक्ष्य विजये संशय- युक्ता अभूवन्निति भाव । भाषा बहुत सी आश्चर्य जनक बातें कहने से क्या लाभ ? भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को युद्ध के उत्साह से आई हुई देखकर किन राजाओं के हृदय में सन्देह को अवकाश नहीं मिलता था अर्थात् सभी राजा इसकी पलटन देखकर विजय के विषय में सन्दिग्ध हो जाते थे । द्रविड़बलभरे क्रमादयात निकटमुदारभुजस्य राजसूनोः । अपि नृपतिरसौ समीपमागादपकरणावसरं चिरादवाप्य ॥५४॥ अन्वयः द्रविड़बलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अयाते (सति) असौ नृपतिः अपि अपकरणावसरं चिरात् अवाप्य समीपम् आगात् । व्याख्या द्रविड़बलानि द्रविड़देशाधिपति । चोलराजराजिसंख्यानि तेषां भरस्समूह- 'नित्यानवरताऽजस्रमप्यथातिशयो भर" इत्यमर । तस्मिन् द्रविड़राजसैन्य

समूहं उबारी महाशक्तिमन्तौ भुजो बाहू यस्य तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य क्रमात् क्रमशॊ निकटं समीपमवाप्ते प्राप्ते सन्नसौ प्रसिद्धो नृपतिर्भूमिपतिस्सोमदेवोऽप्यपकरणस्य वैरनिर्यातनस्याऽवसरं समुचितसमयं चिराद्ब- हुकालानन्तरमवाप्याऽधिगत्य समीप विक्रमाङ्कदेवसमीपमागादाजगाम । भाषा धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के, महा- शक्तिशाली भुजावाले राजपुत्र विक्रमाङ्कदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (विक्रमाङ्क देव के) समीप आ गया । ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः । किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाञ्चकार ॥५५॥ अन्वयः विक्रमाङ्कदेवः प्रहरणसम्मुखम् अग्रजं ग्रहकलितम् इव विलोक्य अश्रु- पूर्णनेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । व्याख्या विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्येष्ठभ्रातर सोमदेवं ग्रहैः शनैश्चरादिपापग्रहैः कलितं ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिर्बाष्पै पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्त्य विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । भाषा विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहो से गृहीत होने के समान, अपने बडे भाई सोमदेव को देखकर आंखो में आंसु भरकर बहुत देर तक कुछ सोच कर कुछ कहना प्रारम्भ किया । अहह महदनर्थभोजमेतद् विधिहतकेन विरोधसारिणीभिः । अविनयसपूरपूरिताभिर्विहितमकीर्तिफलप्रदानसज्जम् ॥५६॥

( ३८१ ) अन्वयः विधिहतकेन अधिनयरसपूरिताभिः विरोधसारिणीभिः अहह एतत् अकीर्तिफलप्रदानसज्ज महत् अनर्थबीजं विहितम् । व्याख्या विधिर्ब्रह्मैव भाग्यमेव वा हतको नीचस्तेन विधिहतकेन दुर्दैवेन 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि ' इत्यमरः । अधिनयो दुराचार एव रसो जलं तस्य पूरेण प्रवाहेण पूरिता परिपूर्णारिताभिर्दुराचारपूरपरिपूर्णाभिर्विरोधो वैरमेव सारिणी जलप्रणालिकाऽपनयो वा ताभिरहहेतिखेदे ! एतद्भ्रातृयुद्धमकीर्ति- र्यश एव फलं परिणामस्तस्य प्रदाने समुत्पादने सज्जं समुद्यतमकीर्तिफलप्रदान- समुद्यतं महत् विशिष्टमनर्थस्याऽनुचितकार्यस्य बीजं कारणं विहितं सम्पादितम् । भाषा अरे रे ! दुर्भाग्य ने, दुराचार रूपी जल की बाढ से भरे वैर रूपी नाला (की सहायता) से, यह, अपयश रूपी फल को पैदा करने में सन्नद्ध, एक विशिष्ट अनुचित कार्य (रूपी वृक्ष) के बीज को बो दिया है । अर्थात् बड़े दुःख की बात है कि दुर्दैव से यह भाइयों का परस्पर युद्ध होकर जगत् में अपकीर्ति फैल जाएगी । इह निह्नवनयः समागतो यत् समममुना परिपन्थिनाऽग्रजो मे । समरशिरसि सञ्चरन्पृषत्कैः कथमपरामृशता मया निवार्यः ॥५७॥ अन्वयः यत् निह्नवनयः मे अग्रजः अमुना परिपन्थिना समं इह समागतः (तन्) समरशिरसि सञ्चरन् (अयम्) पृषत्कैः अपरामृशता मया कथं निवार्यः । व्याख्या यद्यस्मात्कारणाद्निह्नतो न्याययुक्तधर्ममार्गाद्विच्युतो नयो राजनीतिर्यस्य स. परिभ्रष्टनीतिमार्गो मे ममाऽग्रजो ज्येष्ठभ्राता सोमदेवोऽमुनाऽनेन परिपन्थिना शत्रुना 'अभिघाति-पराराति प्रत्यर्थिपरिपन्थिन-' इत्यमरः । द्रविडाधिपति- राज्ञेनेन समं सह 'साकं सत्रा समं सह' इत्यमरः । इहास्मिन्प्रदेशे संग्रामभूमौ

( ३८२ ) समागतः प्राप्तः । ततस्तस्मात्कारणात् समरस्य रणस्य शिरस्यग्रे सञ्चरन्निर्भयं परिभ्रमन्नयं सोमदेवः पृथत्कैर्वाणैरपरामृशंस्ता स्पर्शमकुर्वता मया विक्रमाङ्कदेवेन कथं केन प्रकारेण निवार्यो दूरीकरणीयः । युद्धाय कृतनिश्चयोऽय सोमदेवो मत्कृतबाणप्रहारमन्तरा समराङ्गण विहाय कथं गमिष्यतीति भावः । भाषा चूंकि नीतिमार्ग से च्युत मेरा बडा भाई सोमदेव मेरे इस शत्रु द्रविडाधिपति राजिग के साथ यहाँ आया है इसलिए युद्ध में आए हुए अपने बडे भाई को में किस प्रकार बिना बाणो से आपात पहुँचाए दूर करूँ ? पितुरपि परिपन्थिनीं विधाय श्रियमहमत्र निवेशयाम्बभूव । सपदि कथममं कदर्थयामि व्यथयति मामहहा महाननर्थः ॥५८॥ अन्वयः अहं श्रियं पितुः अपि परिपन्थिनीं विधाय अत्र निवेशयाम्बभूव (अहं) इमं सपदि कथं कदर्थयामि । अहहा ! महान् अनर्थः मां व्यथयति । व्याख्या अह विक्रमाङ्कदेव श्रिय राज्यलक्ष्मीं पितुराहवमल्लदेवस्याऽपि परिपन्थिनीं विरुद्धा पित्राऽप्यननुमोदितामित्यर्थः । विधाय रचयित्वाऽत्र सोमदेवे निवेशया- म्बभूव स्थापयाञ्चकार । अह सपदि सद्य इम सोमदेव कथ कस्मात्कदर्थयामि पीडयामि अहहेति खेदे । महाननर्यो भाविमहदनिष्ट मा व्यथयति मे मनसि विपुलाधि जनयति । भाषा मैने ही अपने पिता आहवमल्लदेव की इच्छा के विरुद्ध, इसको राज्यलक्ष्मी दिलाई । अब में तुरन्त ही अपने बड़े भाई सोमदेव को (जिसको में ने ही राजगद्दी दिलाई है) कैसे कुचलूँ । अरे रे ! बडा भारी (भावी) अनर्थ मुझे पीडित कर रहा है । अपसरणमितः करोमि किंस्वित् प्रसरति गोत्रवधाय नैष बाहुः । परमयमयशांसि दुष्टलोकः किमपि निपात्य मयि प्रमोद्मेति ॥५६॥

( ३८३ ) अन्वयः किंस्वित् इतः अपसरणं करोमि । एष बाहुः गोत्रवधाय न प्रसरति । परम् अयं दुष्टलोकः अयशांसि मयि निपात्य किम् अपि प्रमोदम् एति । व्याख्या किंस्विदथवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष मे बाहुर्भुजो गोत्रस्य मत्कुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशाय न प्रसरति व्यापारं न कुरुते । परं किन्त्वयं दुष्टलोको दुर्जनसमूहोऽपयशांस्यप- कीर्तीर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिर्वचनीयं प्रमोदमानन्दमेति । सज्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु दुर्जना भीतवैवाऽयं पलायित इति मनसि निर्धार्याऽपयशः प्रसार्य प्रमोदमुद्वहिष्य- न्तीति भावः । भाषा अथवा क्या मैं रणभूमि से भाग चलूँ ? यह मेरी भुजा अपने कुल के प्राणी का नाश करने में अग्रसर नहीं होती है । परन्तु दुष्ट लोग भय से रण छोड़कर भाग गया—ऐसा मेरा अपयश फैलाकर आनन्द करेंगे । इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽसौ । अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयति स्म राजपुत्रः ॥६०॥ अन्वयः विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलङ्कां गिरं शनकैः अभिधाय कति अनुनयवचनानि तस्य पार्श्वे न विसर्जयति स्म । व्याख्या विशदं निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यश एव कीर्तिरेव धनं वित्तं यस्य सःकीर्तिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कलङ्कां कालुष्यरहितां गिरं वाणीं शनकैः शनैरभिधाय व्याहृत्य कति कियन्त्यनुनयस्य प्रार्थनाया वचनान्युक्तीस्तस्य सोमदेवस्य पार्श्वे सन्निधौ न विसर्जयतिस्म न प्रेषयतिस्म । किन्तु दूतद्वारा बहुतरं प्रार्थनामकशेरिति भावः ।

( ३८४ ) भाषा निर्मलचित्त, यशोधन इस राजपुत्र ने पूर्वोक्त कालुष्य रहित बातें धीरे से कह कर कितने प्रार्थना के सन्देश सोमदेव के पास नहीं भेजे । अर्थात् बहुत से प्रार्थना के संदेसे युद्ध में सम्मिलित न होने के लिये भेजे । स तु शपथशतैः प्रपद्य सर्वं वितथवचाः कुलपांसनत्वमाप्तः । क्षणमनुगुणमैक्षत प्रहर्तुं मलिनधियां धिगनाजवं चरित्रम् ॥६१॥ अन्वयः वितथवचाः कुलपांसनत्वम् आप्तः सः तु शपथशतैः सर्वं प्रपद्य प्रहर्तुं अनुगुणं क्षणम् ऐक्षत । मलिनधियां चरित्रं अनार्जवं धिक् । व्याख्या वितथं मिथ्या वचो वचनं यस्य स मिथ्याभाषी कुलस्य गोत्रस्य पांसन- कलङ्कस्तस्य भाव कुलपांसनत्वमाप्तो यशकलङ्कत्वमुपायत स तु सोमदेवस्तु शपथानां शतानि तैश्शपथशपथग्रहणे सर्वं विक्रमाङ्कदेवप्रार्थितं प्रपद्य तथेत्यङ्गी- कृत्य विक्रमाङ्कदेवं प्रहर्तुं मारयितुमनुगुणमनुकूलं क्षणमवसरमैक्षत दृष्टवान् प्रतीक्षते स्मेत्यर्थः । मलिना मलीमसा 'मलोमस तु मलिनं कच्छरं मलदूषितम्' इत्यमरः । धीर्बुद्धिर्येषां ते तेषां मलीमसबुद्धिगता चरित्रं वृत्तमनाजवं कुटिलं कौटिल्यपूर्णमित्यर्थं । इति धिक । अत्राऽर्थान्तरन्यासाऽलङ्कारः । भाषा मिथ्याभाषी, कुलाङ्गारता को प्राप्त यह सोमदेव तो विक्रमाङ्कदेव की प्रार्थनाओं को, सैकड़ों कसमें खा, स्वीकार कर, उसको मार डालने के लिए अनुकूल मौका खोजता था । मलिन बुद्धि वालों के चरित्र को धिक्कार है जो कि सर्वदा कौटिल्यपूर्ण होता है । किमिदमुपनतं यशोविरोधि त्रिदिवगतः किमु वक्ष्यते पिता मे । इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिर्रादिदेश ॥६२॥ अन्वयः शशिमौलिः 'यशोविरोधि इदं किम् उपनतं, त्रिदिवगतः मे पिता किमु वक्ष्यते' इति मनसि निधाय जातनिद्रं नृपतनयम् आदिदेश ।

( ३८५ ) व्याख्या शशोऽस्यास्तीति शशी चन्द्रो मौलौ शिरसि यस्य स शशिमौलि शङ्करो, यशस कीर्तेविरोधि विपरीतमपशस्करमित्यर्थ । इद सोमदेवप्रेरितसमरूपकार्यं किमुपनत कथ प्राप्तम् । त्रिदिव स्वर्ग 'स्वरव्यय स्वर्गनरकत्रिदिवत्रिदशालया.' इत्यमर । गत प्राप्त इति त्रिदिवगत स्वर्गंगतो मे मम विक्रमाङ्कदेवस्य पिताऽऽहवमल्लदेव किमु वक्ष्यते कि कथयिष्यति । इति सर्वं मनसि हृदये निधाय सस्थाप्य जातनिद्र जाता समागता निद्रा स्वापो यस्य स त सुप्त नृपतनय राजकुमार विक्रमाङ्कदेवमाविवेशाऽऽज्ञप्तवान् । भाषा अपयश पैदा करने वाला यह मौका कैसे आ गया ? स्वर्गवासी मेरे पिता आहवमल्लदेव मुझे क्या कहेंगे ? ऐसी बातें मन में रख कर, सोए हुए उस राजकुमार को चन्द्रशेखर महादेव ने (स्वप्न में) आज्ञा दी । त्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मयैव । तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः ॥६३॥ अन्वयः हे वत्स ! मया एव इह महति देवकार्ये गुणवान् त्वं अवतारितः ननु । विकल्पदोला शुद्धधैर्यधाम्नः तव मनः किम् इति मुधा तरलयति । व्याख्या हे वत्स ! हे प्रिय बालक ! मयैव शिवेनैवेत्यर्थ । इहाऽस्मिन जगति महति विशाले देवकार्ये सुरकार्यार्थं गुणवान् दयादाक्षिण्यशौर्यादिगुणशाली त्व विक्रमाङ्कदेवोऽवतारित समुत्पादितो ननु निश्चयेन । विकल्प सन्देह एवोभय- पक्षस्य समबलत्वेनाऽऽश्रयणाद्दोला प्रेखा 'दोला प्रेखादिका स्त्रियाम्' इत्यमरः । शुद्धस्य चाञ्चल्यरहितस्य धैर्यस्य धीरताया धाम स्थानं तस्य तव मनश्चित्त किमिति कथ मृधा व्यर्थ तरलयति चञ्चलयति । सशय विहाय समरोद्यती भवेति भाव । भाषा हे प्रिय बालक ! इस ससार में देवताओ के बडे महत्वयुक्त कार्य करने के लिये दया दाक्षिण्य शौर्य आदि गुणो से युक्त तुम (विक्रमाङ्कदेव) को निश्चय- २५

( ३८६ ) पूर्वक मैंने ही उत्पन्न कराया है। संदेह रूपी हिंडोला, निर्दोष धैर्य के आश्रय स्थान, तुम्हारे मन को व्यर्थ ही क्यों चलायमान कर रहा है। अर्थात् सन्देह छोड़ कर युद्ध करो। सपदि न शुभमस्ति भोगहेतोस्तिलपरिमाणमपि त्वदग्रजस्य । इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोऽपि ॥६४॥ अन्वयः सपदि त्वदग्रजस्य भोगहेतोः तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतानां पुरातनः अपि पुण्यचयः विगलति । व्याख्या सपदि झटिति 'द्राक् झटित्यञ्जसान्ह्वाय द्राङ्मंक्षु सपदि द्रुते' 'सद्यः सपदि तत्क्षणे' इत्यमरः। त्वदग्रजस्य तव ज्येष्ठभ्रातुस्सोमदेवस्य भोगहेतोः सुख- भोगार्थं तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्टं भविष्यतीति भावः। हि यस्मात्कारणाद्विहाऽस्मिञ्जगति विहितानि कृतानि भूरीणि बहूनि दुष्कृतानि कुकर्माणि यैस्ते तेषां कृतपापानां पुरातनोऽपि प्राचीनोडपि पूर्वसञ्चित इत्यर्थः। पुण्यचयः सुकृतसमुदायो विगलति नश्यति समाप्ति- मेतीत्यर्थः। भाषा जल्दी ही तुम्हारे बड़े भाई सोमदेव की सुखानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) न रहेगा। क्योंकि इस संसार में अत्यधिक पाप करने वालो का प्राचीन सञ्चित पुण्य भी क्षीण हो जाता है। भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे । स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥ अन्वयः तत् अत्र भुवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगुणधनुः भव। भुवि एषा तव स्थितिः धर्मविरोधिनां वधाय ननु, इति किं न स्मरसि ।

( ३८७ ) व्याख्या तत्तस्मात्कारणादत्राऽस्मिन् भुवनानां जगतां 'विष्टपं भुवनं जगत्' इत्यमरः । महोत्सवो हर्षो यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्थिनां शत्रूणां प्रमाथाय मन्थने विनाशायेत्यर्थः । प्रगुणं सज्जं धनुश्चापो यस्य सः -सज्जधनुर्भव सपद्यस्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तांक्कीनावस्थानं धर्मस्य सुकृतस्य विरोधिमः प्रतिकूलास्तेषां पापात्मनां वधाय ननु निश्चयेन तेषां विनाशार्थमेवेति किं न, कथं न स्मरसि स्मरणगोचरं करोषि । भाषा इसलिये पृथ्वी को हर्षित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ । इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियों के नाश के लिये ही है यह बात तुम्हें क्यों स्मरण नहीं है । गिरमिति स निशम्य विश्वभर्तुर्गिरितनयादयितस्य मुक्तनिद्रः । वचनमिदमलङ्घ्यमिन्दुमौलेरिति रणकर्मणि निश्चयं चकार ॥६६॥ अन्वयः सः विश्वभर्तुः गिरितनयादयितस्य इति गिरं निशम्य मुक्तनिद्रः (सन्) इन्दुमौलेः इदं वचनम् अलङ्घ्यम् इति रणकर्मणि निश्चयं चकार । व्याख्या स विक्रमाङ्कदेवो विश्वस्य सकलसंसारस्य भर्त्ता पालकस्तस्य गिरेर्हि- माद्रेस्तनयायाः कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणीं निशम्य श्रुत्वा मुक्ता त्यक्ता निद्रा स्वापो येन स जागृतस्सन्निन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शङ्करस्येदं स्वप्नोक्तं वचनं वचोऽ- लङ्घ्यमनतिक्रमणीयमिति हेतो रणकर्मणि युद्धकार्ये योद्धुमित्यर्थः । निश्चयं व्यवसायात्मिकां बुद्धिं चकार कृतवान् । भाषा विक्रमाङ्कदेव ने समस्त संसार का भरण पोषण करने वाले पार्वती के पति महादेव की ऐसी वाणी सुन, जागकर, चन्द्रशेखर शङ्कर की यह वाणी (आज्ञा) अलङ्घनीय है, इस हेतु से युद्ध करने की ठान ली ।

( ३८८ ) प्रसरदुभयतः प्रहारसज्जं बलयुगलं तदवेक्ष्य वीक्षते स्म । समुचितसमरोपभोगलोभात् प्रतिकलमुत्पुलकं भुजद्वयं सः ॥६७॥ अन्वयः सः उभयतः प्रसरत् प्रहारसज्जं तत् बलयुगलम् अवेक्ष्य समुचित- समरोपभोगलोभात् उत्पुलकं भुजद्वयं प्रतिकलम् वीक्षते स्म । अन्वयः स विक्रमाङ्कदेव उभयतोऽग्रतः पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहार- करणे सज्ज तत्पर तदद्भुतं बलयुगलं सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्य- स्समरो युद्धं तस्योपभोगस्याऽऽस्वादस्य लोभादिच्छात् उद्गतः समुत्पन्नः पुलको रोमाञ्चो यस्मिंस्तद्भुजद्वयं बाहुयुगल प्रतिकलं प्रतिक्षणं वीक्षते स्म दृष्टवान् । भाषा वह विक्रमाङ्कदेव, आगे और पीछे दोनो ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्चर्य जनक दोनो सेनाओ को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमाञ्च से युक्त अपनी दोनो भुजाओ को क्षण क्षण में अर्थात् बार २ देखता था । मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥६८॥ अन्वयः उत्कटप्रतापः प्रकटितधीरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम् इव अधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । व्याख्या उत्कट उत्कृष्टः प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणां शक्तिशालिनां मृदङ्गानामिव धीरो गम्भीरो नादो ध्वनिर्यस्य स मदकरटिनं मदान्धगजं मथनगिरिमिव मन्दराचलमिवाऽधिरुह्य तदुपरि स्थित्वा वेगाज्जवात् प्रतिबलमेव शत्रुसैन्यमेव वारिधिः समुद्रस्तस्य लोडनं मथनं चकार विदधे विनाशं चकारेत्यर्थः । उपमारूपकयोः सङ्करालङ्कारः ।

( ३८९ ) भाषा उत्कृष्ट प्रभाव वाले, मृदङ्ग के ऐसे वीरों के गम्भीर शब्दो को प्रकट करने वाले विक्रमाङ्कदेव ने मन्दराचल के समान मदोन्मत्त हाथी पर सवार होकर वेग से शत्रु सेना रूपी समुद्र को मथ डाला। अर्थात् शत्रु की सेना को नष्ट कर दिया। अहमहमिकया प्रधाविताभ्यां मिलितममुष्य बलं तयोर्बलाभ्याम्। सलिलमभिमुखं सहाम्बुराशेस्तदनु महानदयोरिवोदकाभ्याम् ॥६६॥ अन्वयः तदनु अमुष्य बलम् अहमहमिकया अभिमुखं प्रधाविताभ्यां तयोः बलाभ्यां सह अम्बुराशेः सलिलम् अभिमुखं प्रधाविताभ्यां महानद्योः उदकाभ्यां सह इव मिलितम्। व्याख्या तदनु शत्रुसेनासम्मर्दनानन्तरममुष्याऽस्य विक्रमाङ्कदेवस्य बलं सैन्यमहमह- मिकया परस्पराहुङ्कारेण 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः' इत्यमरः। अभिमुखं सम्मुखं प्रधाविताभ्यां द्रततरमाक्रममाणाभ्यां तयोस्सोम- देवराजिगयोः बलाभ्यां सेनाभ्यां सहाऽम्बूनां जलानां राशिः समुद्रस्तस्य समुद्रस्य सलिलं जलमभिमुखं प्रधाविताभ्यां वेगेन सम्मुखं प्रवहद्भ्यां महानद्योर्विशालन- दयोरुदकाभ्यां जलाभ्यां सहेवं मिलितं सङ्गतम्। अत्र पूर्णोपमालङ्कारः। भाषा शत्रु की सेना को कुचलने के बाद, इस विक्रमाङ्कदेव की सेना, परस्पर अहङ्कार से सामने दौड पडी हुई सोमदेव और राजिग की सेनाओं के साथ, समुद्र का जल, सामने से बह कर आते हुए दो विशाल नदो के जलो के समान, मिल गई अर्थात् जिस प्रकार समुद्र मे दो तरफ से आने वाले दो महानद मिल जाते हैं उसी प्रकार दोनों ओर से आने वाली दो सेनाएं विक्रमाङ्कदेव की सेना से बुझ गईं। मुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्बितं दधानः। वदनपरिगृहीतपन्नगस्य व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ॥७०॥

( ३९० ) अन्वयः आपतन्त्या असितपताकया परिचुम्बितं मुखं दधानः ध्वजगरुडः वदन- परिगृहीतपन्नगस्य सत्यगरुत्मतः प्रतिष्ठां व्यतनुत । व्याख्या आपतन्त्या सम्मुखमागच्छन्त्याऽसितपताकया कृष्णवर्णध्वजेन परिचुम्बितं संयुक्तं मुखमग्रभागं दधानो धारयन् ध्वजगरुडः केतुचिह्नभूतो गरुडो वदने मुखे परिगृहीतः संधारितः पन्नगस्सर्पो येन स तस्य मुखधृतसर्पस्य सत्यगरुत्मतो वास्तविकगरुडस्य 'गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः' इत्यमरः । प्रतिष्ठां स्थितिं साम्यमित्यर्थः । व्यतनुत प्राप्तवान् विस्तारित्वानित्यर्थः । कृष्णत्व- साम्यादसितपताकायां सर्पत्वकल्पना । उपमालङ्कारो, निदर्शना वा । भाषा सामने से आने वाली सेना के काले झण्डे के, गरुड के चिह्न वाले झण्डे के अग्रभाग में मिलने से वह झण्डे में का गरुड, मुख में सर्प को पकडे हुए सच्चे गरुड की शोभा को प्रकट करता था । अर्थात् काला झण्डा माना काला सांप ही था । प्रकटितपडुमौक्तिकावतंस-द्विरदशिरःस्थलसङ्गतिं प्रपद्य । अलभत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥७१॥ अन्वयः करिवरकेतुपरिच्युतः मृगेन्द्रः प्रकटितपडुमौक्तिकावतंसद्वीरदशिरःस्थल- सङ्गतिं प्रपद्य परमार्थसिंहलीलाम् अलभत । व्याख्या करिवरस्य हस्तिश्रेष्ठस्य केतुर्ध्वजस्तस्मात्परिच्युतः परिभ्रष्टो मृगेन्द्रः पताका- संलग्नचिह्नभूतः सिंहः प्रकटितानि प्रकाशितानि पटूनि स्थूलान्युज्ज्वलानि च मौक्तिकानि गजमुक्ताफलान्येवावतंसा शिरोभूषणानि येषां ते द्विरदा गजास्तेषां शिरःस्थलानि शिरांसि तैस्सह सङ्गतिं समागमं प्रपद्य प्राप्य परमार्थो वास्तविकश्चासौ सिंहश्च परमार्थसिंहस्तस्य लीलां विलासमलभत प्राप । गजमौक्तिकाभूषणेषु प्रतिबिम्बरूपेण पतितो ध्वजमृगेन्द्र परमार्थसिंहलीलां