विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 384, कुल 493 में से
संदर्भ में पढ़ें( ३७७ ) प्रतिदिशमधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः । अगणितकृतपङ्क्तयो हयास्ते कमिव न चक्रुरुपक्रमं तदीयाः ॥५०॥ अन्वयः अधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत- पङ्क्तयः ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्रुः । व्याख्या अधिरोहितास्स्वपृष्ठोपरि समुपवेशिता अश्ववाराः सादिनः 'अश्वारोहास्तु सादिनः' इत्यमरः । यैस्ते परिचितानि गात्रेषु शोभार्थं निर्मितानि काञ्चनस्य सुवर्णस्य चित्राः विचित्राः वर्मबन्धाः कवचानि येषां तेऽगणितः संख्यामतिक्रान्ताः कृता बद्धाः पङ्क्तयः श्रेणयो येषां ते तथोक्तास्ते प्रसिद्धस्तदोवास्सोमदेव- सम्बन्धिनो हया अश्वाः प्रतिदिशं दिशि दिशि कमिवोपक्रमं रमणयोगं न चक्रुः न विदधुः सर्वमेवोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकारित्वं सूचितम् । भाषा घुड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र कवचों को धारण करने वाले, असंख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के घोडों ने प्रत्येक दिशा में कौनसा साहसयुक्त कार्य नहीं किया । इति पञ्चभिः कुलकम् । असिविलसितेन तद्बलानामतिलतिकानिबहेन निर्मलेन । गगनगिरितटो नवेन्द्रनील-द्युतिशतनिर्झरधारिणेव रेजे ॥५१॥ अन्वयः गगनगिरितटी तद्बलानाम् असिविलसितेन निर्मलेन असिलतिका- निवहेन नवेन्द्रनीलद्युतिशवनिर्झरधारिणी इव रेजे । व्याख्या गगनमाकाशमेव गिरिः पर्वतस्तस्य तटी प्रान्तभागः (कर्त्री) तस्य सोमदेवस्य बलानि सैन्यानि 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । तेषां