विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 387, कुल 493 में से
संदर्भ में पढ़ेंसमूहं उबारी महाशक्तिमन्तौ भुजो बाहू यस्य तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य क्रमात् क्रमशॊ निकटं समीपमवाप्ते प्राप्ते सन्नसौ प्रसिद्धो नृपतिर्भूमिपतिस्सोमदेवोऽप्यपकरणस्य वैरनिर्यातनस्याऽवसरं समुचितसमयं चिराद्ब- हुकालानन्तरमवाप्याऽधिगत्य समीप विक्रमाङ्कदेवसमीपमागादाजगाम । भाषा धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के, महा- शक्तिशाली भुजावाले राजपुत्र विक्रमाङ्कदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (विक्रमाङ्क देव के) समीप आ गया । ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः । किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाञ्चकार ॥५५॥ अन्वयः विक्रमाङ्कदेवः प्रहरणसम्मुखम् अग्रजं ग्रहकलितम् इव विलोक्य अश्रु- पूर्णनेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । व्याख्या विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्येष्ठभ्रातर सोमदेवं ग्रहैः शनैश्चरादिपापग्रहैः कलितं ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिर्बाष्पै पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्त्य विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । भाषा विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहो से गृहीत होने के समान, अपने बडे भाई सोमदेव को देखकर आंखो में आंसु भरकर बहुत देर तक कुछ सोच कर कुछ कहना प्रारम्भ किया । अहह महदनर्थभोजमेतद् विधिहतकेन विरोधसारिणीभिः । अविनयसपूरपूरिताभिर्विहितमकीर्तिफलप्रदानसज्जम् ॥५६॥