विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 386, कुल 493 में से
संदर्भ में पढ़ें( ३७९ ) बहुभिरभिहितैः किमद्भुतैर्वा भयजननं भुवनैकमल्लसैन्यम् । रणरसचलितं विलोक्य केषामलभत चेतसि नान्तरं विकल्पः ॥५३॥ अन्वयः बहुभिः अद्भुतैः अभिहितैः किं वा । भयजनन भुवनैकमल्लसैन्यं रणरसचलितं विलोक्य केषां चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरनेकैर्द्भुतैराश्चर्यकारिभिरभिहितै कथितैर्वर्णनै रित्यर्थः । किं वा किम्फलं न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत् भयोत्पादक भुवने जगत्पेष्वेकोगद्वितीयो मल्लो वीरस्सोमदेवस्तस्य सैन्यं बल रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्तं विलोक्य दृष्ट्वा केषां नृपाणां चेतसि हृदये विकल्प संशयोन्तरमवकाश 'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये' इत्यमर । नालभत न प्राप । राजानोऽपि तद्वलं वीक्ष्य विजये संशय- युक्ता अभूवन्निति भाव । भाषा बहुत सी आश्चर्य जनक बातें कहने से क्या लाभ ? भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को युद्ध के उत्साह से आई हुई देखकर किन राजाओं के हृदय में सन्देह को अवकाश नहीं मिलता था अर्थात् सभी राजा इसकी पलटन देखकर विजय के विषय में सन्दिग्ध हो जाते थे । द्रविड़बलभरे क्रमादयात निकटमुदारभुजस्य राजसूनोः । अपि नृपतिरसौ समीपमागादपकरणावसरं चिरादवाप्य ॥५४॥ अन्वयः द्रविड़बलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अयाते (सति) असौ नृपतिः अपि अपकरणावसरं चिरात् अवाप्य समीपम् आगात् । व्याख्या द्रविड़बलानि द्रविड़देशाधिपति । चोलराजराजिसंख्यानि तेषां भरस्समूह- 'नित्यानवरताऽजस्रमप्यथातिशयो भर" इत्यमर । तस्मिन् द्रविड़राजसैन्य