विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 388, कुल 493 में से
संदर्भ में पढ़ें( ३८१ ) अन्वयः विधिहतकेन अधिनयरसपूरिताभिः विरोधसारिणीभिः अहह एतत् अकीर्तिफलप्रदानसज्ज महत् अनर्थबीजं विहितम् । व्याख्या विधिर्ब्रह्मैव भाग्यमेव वा हतको नीचस्तेन विधिहतकेन दुर्दैवेन 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि ' इत्यमरः । अधिनयो दुराचार एव रसो जलं तस्य पूरेण प्रवाहेण पूरिता परिपूर्णारिताभिर्दुराचारपूरपरिपूर्णाभिर्विरोधो वैरमेव सारिणी जलप्रणालिकाऽपनयो वा ताभिरहहेतिखेदे ! एतद्भ्रातृयुद्धमकीर्ति- र्यश एव फलं परिणामस्तस्य प्रदाने समुत्पादने सज्जं समुद्यतमकीर्तिफलप्रदान- समुद्यतं महत् विशिष्टमनर्थस्याऽनुचितकार्यस्य बीजं कारणं विहितं सम्पादितम् । भाषा अरे रे ! दुर्भाग्य ने, दुराचार रूपी जल की बाढ से भरे वैर रूपी नाला (की सहायता) से, यह, अपयश रूपी फल को पैदा करने में सन्नद्ध, एक विशिष्ट अनुचित कार्य (रूपी वृक्ष) के बीज को बो दिया है । अर्थात् बड़े दुःख की बात है कि दुर्दैव से यह भाइयों का परस्पर युद्ध होकर जगत् में अपकीर्ति फैल जाएगी । इह निह्नवनयः समागतो यत् समममुना परिपन्थिनाऽग्रजो मे । समरशिरसि सञ्चरन्पृषत्कैः कथमपरामृशता मया निवार्यः ॥५७॥ अन्वयः यत् निह्नवनयः मे अग्रजः अमुना परिपन्थिना समं इह समागतः (तन्) समरशिरसि सञ्चरन् (अयम्) पृषत्कैः अपरामृशता मया कथं निवार्यः । व्याख्या यद्यस्मात्कारणाद्निह्नतो न्याययुक्तधर्ममार्गाद्विच्युतो नयो राजनीतिर्यस्य स. परिभ्रष्टनीतिमार्गो मे ममाऽग्रजो ज्येष्ठभ्राता सोमदेवोऽमुनाऽनेन परिपन्थिना शत्रुना 'अभिघाति-पराराति प्रत्यर्थिपरिपन्थिन-' इत्यमरः । द्रविडाधिपति- राज्ञेनेन समं सह 'साकं सत्रा समं सह' इत्यमरः । इहास्मिन्प्रदेशे संग्रामभूमौ