विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 395, कुल 493 में से
संदर्भ में पढ़ें( ३८८ ) प्रसरदुभयतः प्रहारसज्जं बलयुगलं तदवेक्ष्य वीक्षते स्म । समुचितसमरोपभोगलोभात् प्रतिकलमुत्पुलकं भुजद्वयं सः ॥६७॥ अन्वयः सः उभयतः प्रसरत् प्रहारसज्जं तत् बलयुगलम् अवेक्ष्य समुचित- समरोपभोगलोभात् उत्पुलकं भुजद्वयं प्रतिकलम् वीक्षते स्म । अन्वयः स विक्रमाङ्कदेव उभयतोऽग्रतः पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहार- करणे सज्ज तत्पर तदद्भुतं बलयुगलं सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्य- स्समरो युद्धं तस्योपभोगस्याऽऽस्वादस्य लोभादिच्छात् उद्गतः समुत्पन्नः पुलको रोमाञ्चो यस्मिंस्तद्भुजद्वयं बाहुयुगल प्रतिकलं प्रतिक्षणं वीक्षते स्म दृष्टवान् । भाषा वह विक्रमाङ्कदेव, आगे और पीछे दोनो ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्चर्य जनक दोनो सेनाओ को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमाञ्च से युक्त अपनी दोनो भुजाओ को क्षण क्षण में अर्थात् बार २ देखता था । मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥६८॥ अन्वयः उत्कटप्रतापः प्रकटितधीरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम् इव अधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । व्याख्या उत्कट उत्कृष्टः प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणां शक्तिशालिनां मृदङ्गानामिव धीरो गम्भीरो नादो ध्वनिर्यस्य स मदकरटिनं मदान्धगजं मथनगिरिमिव मन्दराचलमिवाऽधिरुह्य तदुपरि स्थित्वा वेगाज्जवात् प्रतिबलमेव शत्रुसैन्यमेव वारिधिः समुद्रस्तस्य लोडनं मथनं चकार विदधे विनाशं चकारेत्यर्थः । उपमारूपकयोः सङ्करालङ्कारः ।