विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 394, कुल 493 में से
संदर्भ में पढ़ें( ३८७ ) व्याख्या तत्तस्मात्कारणादत्राऽस्मिन् भुवनानां जगतां 'विष्टपं भुवनं जगत्' इत्यमरः । महोत्सवो हर्षो यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्थिनां शत्रूणां प्रमाथाय मन्थने विनाशायेत्यर्थः । प्रगुणं सज्जं धनुश्चापो यस्य सः -सज्जधनुर्भव सपद्यस्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तांक्कीनावस्थानं धर्मस्य सुकृतस्य विरोधिमः प्रतिकूलास्तेषां पापात्मनां वधाय ननु निश्चयेन तेषां विनाशार्थमेवेति किं न, कथं न स्मरसि स्मरणगोचरं करोषि । भाषा इसलिये पृथ्वी को हर्षित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ । इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियों के नाश के लिये ही है यह बात तुम्हें क्यों स्मरण नहीं है । गिरमिति स निशम्य विश्वभर्तुर्गिरितनयादयितस्य मुक्तनिद्रः । वचनमिदमलङ्घ्यमिन्दुमौलेरिति रणकर्मणि निश्चयं चकार ॥६६॥ अन्वयः सः विश्वभर्तुः गिरितनयादयितस्य इति गिरं निशम्य मुक्तनिद्रः (सन्) इन्दुमौलेः इदं वचनम् अलङ्घ्यम् इति रणकर्मणि निश्चयं चकार । व्याख्या स विक्रमाङ्कदेवो विश्वस्य सकलसंसारस्य भर्त्ता पालकस्तस्य गिरेर्हि- माद्रेस्तनयायाः कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणीं निशम्य श्रुत्वा मुक्ता त्यक्ता निद्रा स्वापो येन स जागृतस्सन्निन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शङ्करस्येदं स्वप्नोक्तं वचनं वचोऽ- लङ्घ्यमनतिक्रमणीयमिति हेतो रणकर्मणि युद्धकार्ये योद्धुमित्यर्थः । निश्चयं व्यवसायात्मिकां बुद्धिं चकार कृतवान् । भाषा विक्रमाङ्कदेव ने समस्त संसार का भरण पोषण करने वाले पार्वती के पति महादेव की ऐसी वाणी सुन, जागकर, चन्द्रशेखर शङ्कर की यह वाणी (आज्ञा) अलङ्घनीय है, इस हेतु से युद्ध करने की ठान ली ।