विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 393, कुल 493 में से
संदर्भ में पढ़ें( ३८६ ) पूर्वक मैंने ही उत्पन्न कराया है। संदेह रूपी हिंडोला, निर्दोष धैर्य के आश्रय स्थान, तुम्हारे मन को व्यर्थ ही क्यों चलायमान कर रहा है। अर्थात् सन्देह छोड़ कर युद्ध करो। सपदि न शुभमस्ति भोगहेतोस्तिलपरिमाणमपि त्वदग्रजस्य । इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोऽपि ॥६४॥ अन्वयः सपदि त्वदग्रजस्य भोगहेतोः तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतानां पुरातनः अपि पुण्यचयः विगलति । व्याख्या सपदि झटिति 'द्राक् झटित्यञ्जसान्ह्वाय द्राङ्मंक्षु सपदि द्रुते' 'सद्यः सपदि तत्क्षणे' इत्यमरः। त्वदग्रजस्य तव ज्येष्ठभ्रातुस्सोमदेवस्य भोगहेतोः सुख- भोगार्थं तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्टं भविष्यतीति भावः। हि यस्मात्कारणाद्विहाऽस्मिञ्जगति विहितानि कृतानि भूरीणि बहूनि दुष्कृतानि कुकर्माणि यैस्ते तेषां कृतपापानां पुरातनोऽपि प्राचीनोडपि पूर्वसञ्चित इत्यर्थः। पुण्यचयः सुकृतसमुदायो विगलति नश्यति समाप्ति- मेतीत्यर्थः। भाषा जल्दी ही तुम्हारे बड़े भाई सोमदेव की सुखानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) न रहेगा। क्योंकि इस संसार में अत्यधिक पाप करने वालो का प्राचीन सञ्चित पुण्य भी क्षीण हो जाता है। भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे । स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥ अन्वयः तत् अत्र भुवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगुणधनुः भव। भुवि एषा तव स्थितिः धर्मविरोधिनां वधाय ननु, इति किं न स्मरसि ।