भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ३८६ ) पूर्वक मैंने ही उत्पन्न कराया है। संदेह रूपी हिंडोला, निर्दोष धैर्य के आश्रय स्थान, तुम्हारे मन को व्यर्थ ही क्यों चलायमान कर रहा है। अर्थात् सन्देह छोड़ कर युद्ध करो। सपदि न शुभमस्ति भोगहेतोस्तिलपरिमाणमपि त्वदग्रजस्य । इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोऽपि ॥६४॥ अन्वयः सपदि त्वदग्रजस्य भोगहेतोः तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतानां पुरातनः अपि पुण्यचयः विगलति । व्याख्या सपदि झटिति 'द्राक् झटित्यञ्जसान्ह्वाय द्राङ्मंक्षु सपदि द्रुते' 'सद्यः सपदि तत्क्षणे' इत्यमरः। त्वदग्रजस्य तव ज्येष्ठभ्रातुस्सोमदेवस्य भोगहेतोः सुख- भोगार्थं तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्टं भविष्यतीति भावः। हि यस्मात्कारणाद्विहाऽस्मिञ्जगति विहितानि कृतानि भूरीणि बहूनि दुष्कृतानि कुकर्माणि यैस्ते तेषां कृतपापानां पुरातनोऽपि प्राचीनोडपि पूर्वसञ्चित इत्यर्थः। पुण्यचयः सुकृतसमुदायो विगलति नश्यति समाप्ति- मेतीत्यर्थः। भाषा जल्दी ही तुम्हारे बड़े भाई सोमदेव की सुखानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) न रहेगा। क्योंकि इस संसार में अत्यधिक पाप करने वालो का प्राचीन सञ्चित पुण्य भी क्षीण हो जाता है। भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे । स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥ अन्वयः तत् अत्र भुवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगुणधनुः भव। भुवि एषा तव स्थितिः धर्मविरोधिनां वधाय ननु, इति किं न स्मरसि ।

( ३८७ ) व्याख्या तत्तस्मात्कारणादत्राऽस्मिन् भुवनानां जगतां 'विष्टपं भुवनं जगत्' इत्यमरः । महोत्सवो हर्षो यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्थिनां शत्रूणां प्रमाथाय मन्थने विनाशायेत्यर्थः । प्रगुणं सज्जं धनुश्चापो यस्य सः -सज्जधनुर्भव सपद्यस्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तांक्कीनावस्थानं धर्मस्य सुकृतस्य विरोधिमः प्रतिकूलास्तेषां पापात्मनां वधाय ननु निश्चयेन तेषां विनाशार्थमेवेति किं न, कथं न स्मरसि स्मरणगोचरं करोषि । भाषा इसलिये पृथ्वी को हर्षित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ । इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियों के नाश के लिये ही है यह बात तुम्हें क्यों स्मरण नहीं है । गिरमिति स निशम्य विश्वभर्तुर्गिरितनयादयितस्य मुक्तनिद्रः । वचनमिदमलङ्घ्यमिन्दुमौलेरिति रणकर्मणि निश्चयं चकार ॥६६॥ अन्वयः सः विश्वभर्तुः गिरितनयादयितस्य इति गिरं निशम्य मुक्तनिद्रः (सन्) इन्दुमौलेः इदं वचनम् अलङ्घ्यम् इति रणकर्मणि निश्चयं चकार । व्याख्या स विक्रमाङ्कदेवो विश्वस्य सकलसंसारस्य भर्त्ता पालकस्तस्य गिरेर्हि- माद्रेस्तनयायाः कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणीं निशम्य श्रुत्वा मुक्ता त्यक्ता निद्रा स्वापो येन स जागृतस्सन्निन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शङ्करस्येदं स्वप्नोक्तं वचनं वचोऽ- लङ्घ्यमनतिक्रमणीयमिति हेतो रणकर्मणि युद्धकार्ये योद्धुमित्यर्थः । निश्चयं व्यवसायात्मिकां बुद्धिं चकार कृतवान् । भाषा विक्रमाङ्कदेव ने समस्त संसार का भरण पोषण करने वाले पार्वती के पति महादेव की ऐसी वाणी सुन, जागकर, चन्द्रशेखर शङ्कर की यह वाणी (आज्ञा) अलङ्घनीय है, इस हेतु से युद्ध करने की ठान ली ।

( ३८८ ) प्रसरदुभयतः प्रहारसज्जं बलयुगलं तदवेक्ष्य वीक्षते स्म । समुचितसमरोपभोगलोभात् प्रतिकलमुत्पुलकं भुजद्वयं सः ॥६७॥ अन्वयः सः उभयतः प्रसरत् प्रहारसज्जं तत् बलयुगलम् अवेक्ष्य समुचित- समरोपभोगलोभात् उत्पुलकं भुजद्वयं प्रतिकलम् वीक्षते स्म । अन्वयः स विक्रमाङ्कदेव उभयतोऽग्रतः पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहार- करणे सज्ज तत्पर तदद्भुतं बलयुगलं सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्य- स्समरो युद्धं तस्योपभोगस्याऽऽस्वादस्य लोभादिच्छात् उद्गतः समुत्पन्नः पुलको रोमाञ्चो यस्मिंस्तद्भुजद्वयं बाहुयुगल प्रतिकलं प्रतिक्षणं वीक्षते स्म दृष्टवान् । भाषा वह विक्रमाङ्कदेव, आगे और पीछे दोनो ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्चर्य जनक दोनो सेनाओ को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमाञ्च से युक्त अपनी दोनो भुजाओ को क्षण क्षण में अर्थात् बार २ देखता था । मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥६८॥ अन्वयः उत्कटप्रतापः प्रकटितधीरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम् इव अधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । व्याख्या उत्कट उत्कृष्टः प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणां शक्तिशालिनां मृदङ्गानामिव धीरो गम्भीरो नादो ध्वनिर्यस्य स मदकरटिनं मदान्धगजं मथनगिरिमिव मन्दराचलमिवाऽधिरुह्य तदुपरि स्थित्वा वेगाज्जवात् प्रतिबलमेव शत्रुसैन्यमेव वारिधिः समुद्रस्तस्य लोडनं मथनं चकार विदधे विनाशं चकारेत्यर्थः । उपमारूपकयोः सङ्करालङ्कारः ।

( ३८९ ) भाषा उत्कृष्ट प्रभाव वाले, मृदङ्ग के ऐसे वीरों के गम्भीर शब्दो को प्रकट करने वाले विक्रमाङ्कदेव ने मन्दराचल के समान मदोन्मत्त हाथी पर सवार होकर वेग से शत्रु सेना रूपी समुद्र को मथ डाला। अर्थात् शत्रु की सेना को नष्ट कर दिया। अहमहमिकया प्रधाविताभ्यां मिलितममुष्य बलं तयोर्बलाभ्याम्। सलिलमभिमुखं सहाम्बुराशेस्तदनु महानदयोरिवोदकाभ्याम् ॥६६॥ अन्वयः तदनु अमुष्य बलम् अहमहमिकया अभिमुखं प्रधाविताभ्यां तयोः बलाभ्यां सह अम्बुराशेः सलिलम् अभिमुखं प्रधाविताभ्यां महानद्योः उदकाभ्यां सह इव मिलितम्। व्याख्या तदनु शत्रुसेनासम्मर्दनानन्तरममुष्याऽस्य विक्रमाङ्कदेवस्य बलं सैन्यमहमह- मिकया परस्पराहुङ्कारेण 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः' इत्यमरः। अभिमुखं सम्मुखं प्रधाविताभ्यां द्रततरमाक्रममाणाभ्यां तयोस्सोम- देवराजिगयोः बलाभ्यां सेनाभ्यां सहाऽम्बूनां जलानां राशिः समुद्रस्तस्य समुद्रस्य सलिलं जलमभिमुखं प्रधाविताभ्यां वेगेन सम्मुखं प्रवहद्भ्यां महानद्योर्विशालन- दयोरुदकाभ्यां जलाभ्यां सहेवं मिलितं सङ्गतम्। अत्र पूर्णोपमालङ्कारः। भाषा शत्रु की सेना को कुचलने के बाद, इस विक्रमाङ्कदेव की सेना, परस्पर अहङ्कार से सामने दौड पडी हुई सोमदेव और राजिग की सेनाओं के साथ, समुद्र का जल, सामने से बह कर आते हुए दो विशाल नदो के जलो के समान, मिल गई अर्थात् जिस प्रकार समुद्र मे दो तरफ से आने वाले दो महानद मिल जाते हैं उसी प्रकार दोनों ओर से आने वाली दो सेनाएं विक्रमाङ्कदेव की सेना से बुझ गईं। मुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्बितं दधानः। वदनपरिगृहीतपन्नगस्य व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ॥७०॥

( ३९० ) अन्वयः आपतन्त्या असितपताकया परिचुम्बितं मुखं दधानः ध्वजगरुडः वदन- परिगृहीतपन्नगस्य सत्यगरुत्मतः प्रतिष्ठां व्यतनुत । व्याख्या आपतन्त्या सम्मुखमागच्छन्त्याऽसितपताकया कृष्णवर्णध्वजेन परिचुम्बितं संयुक्तं मुखमग्रभागं दधानो धारयन् ध्वजगरुडः केतुचिह्नभूतो गरुडो वदने मुखे परिगृहीतः संधारितः पन्नगस्सर्पो येन स तस्य मुखधृतसर्पस्य सत्यगरुत्मतो वास्तविकगरुडस्य 'गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः' इत्यमरः । प्रतिष्ठां स्थितिं साम्यमित्यर्थः । व्यतनुत प्राप्तवान् विस्तारित्वानित्यर्थः । कृष्णत्व- साम्यादसितपताकायां सर्पत्वकल्पना । उपमालङ्कारो, निदर्शना वा । भाषा सामने से आने वाली सेना के काले झण्डे के, गरुड के चिह्न वाले झण्डे के अग्रभाग में मिलने से वह झण्डे में का गरुड, मुख में सर्प को पकडे हुए सच्चे गरुड की शोभा को प्रकट करता था । अर्थात् काला झण्डा माना काला सांप ही था । प्रकटितपडुमौक्तिकावतंस-द्विरदशिरःस्थलसङ्गतिं प्रपद्य । अलभत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥७१॥ अन्वयः करिवरकेतुपरिच्युतः मृगेन्द्रः प्रकटितपडुमौक्तिकावतंसद्वीरदशिरःस्थल- सङ्गतिं प्रपद्य परमार्थसिंहलीलाम् अलभत । व्याख्या करिवरस्य हस्तिश्रेष्ठस्य केतुर्ध्वजस्तस्मात्परिच्युतः परिभ्रष्टो मृगेन्द्रः पताका- संलग्नचिह्नभूतः सिंहः प्रकटितानि प्रकाशितानि पटूनि स्थूलान्युज्ज्वलानि च मौक्तिकानि गजमुक्ताफलान्येवावतंसा शिरोभूषणानि येषां ते द्विरदा गजास्तेषां शिरःस्थलानि शिरांसि तैस्सह सङ्गतिं समागमं प्रपद्य प्राप्य परमार्थो वास्तविकश्चासौ सिंहश्च परमार्थसिंहस्तस्य लीलां विलासमलभत प्राप । गजमौक्तिकाभूषणेषु प्रतिबिम्बरूपेण पतितो ध्वजमृगेन्द्र परमार्थसिंहलीलां

( ३९१ ) प्रकटयाञ्चकारेति भावः । यतो मृगेन्द्राः पूर्वं गजशिरांस्येव विदारयन्तीति प्रसिद्धिः । निदर्शनालङ्कारः । भाषा श्रेष्ठ हाथी की, सिंह के चिन्ह से अङ्कित ध्वजा में से नीचे आ पडा हुआ सिंह, प्रत्यक्ष दिखाई पड़ने वाले बड़े बड़े चमकदार गजमौक्तिक रूपी शिर के आभूषणों से युक्त हाथियों के मस्तको का समागम प्राप्त कर अथवा शिरोभूषण रूप हाथियों के मस्तको पर के गजमौक्तिको के आभूषणों में प्रतिबिम्बित होकर सच्चे सिंह की लीला को अर्थात् हाथी के गण्डस्थल पर सवार होकर उसी को पहिले विदारण करने की शोभा को प्राप्त हुआ । कथमपि विनिपत्य सञ्चरन्तः क्षतजतरङ्गवतीषु चिन्हमत्स्याः । सुरयुवतिविलोचनानि संख्ये विदधुरकृत्रिममत्स्यशङ्कितानि ॥७२॥ अन्वयः संख्ये क्षतजतरङ्गवतीषु कथम् अपि विनिपत्य सञ्चरन्तः चिन्हमत्स्याः सुरयुवतिविलोचनानि अकृत्रिममत्स्यशङ्कितानि विदधुः । व्याख्या संख्ये समरे 'मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् । अस्त्रियां समरानी- करणाः कलहविग्रहौ' इत्यमरः । क्षतजस्य रुधिरस्य तरङ्गवतीषु नदीषु रुधिर- नदीषु कथमपि केनाऽपि प्रकारेण विनिपत्य पतित्वा सञ्चरन्तः परिभ्रमन्तो वहन्त इत्यर्थः । चिन्हमत्स्याः पताकासंलग्नचिन्हभूतमीनाः' सुराणां देवानां युवतयो नाम्भस्तारा विलोचनानि नयनान्यकृत्रिममत्स्यैर्यथार्थमीनैः शङ्कितानि तदभिन्नत्वेन सम्भावितानि विदधुश्चक्रुः । अत्र भ्रान्तिमानलङ्कारः । भाषा युद्ध में खून की नदियों में किसी प्रकार गिर कर बहने वाली पताका में की चिन्ह भूत मछलियों ने (युद्ध में वीरों को ले जाने के लिये आई हुई) देवों की नारियों के नेत्रों को सच्ची मछलियों के होने की शङ्का उत्पन्न कराई । रुधिरपटलकर्दमेन दूरं रणभुवि दुर्गमतामुपागतायाम् । गमनमनिमिर्षाप्रयाजनस्य प्रियमकरोदवलम्बनानपेक्षम् ॥७३॥ .

( ३९२ ) अन्वयः (सः) रुधिरपटलकर्दमेन रणभुवि दूरं दुर्गमताम् उपागतायाम् (सत्याम्) अनिमिषप्रियाजनस्य अवलम्बनानपेक्षं गमनं प्रियम् अकरोत् । व्याख्या (स विक्रमाङ्कदेव.) रुधिरस्य शोणितस्य पटलं समूहस्तस्य कर्दमः पङ्कस्तेन रणभुवि युद्धभूमौ दूरमत्यन्तं दुर्गनता दुःखेन गन्तुं शक्यतामुपागताया प्राप्तायां सत्या न निमिषन्तीत्यनिमिषा देवास्तेषा प्रियाजनस्याऽङ्गनाजनस्य नास्त्यपेक्षा यस्मिंस्तदनपेक्षमवलम्बनस्याऽऽश्रयरूपसाहाय्यस्य पृथिव्यादेरित्यर्थः । अनपेक्ष- मित्यवलम्बनानपेक्षं गमनं निराश्रया गगनगतिः प्रियमभीष्टमकरोत् कृतवान् । रणस्य दुर्गमत्वाद्देवाङ्गनानां निराश्रया गगनगतिः समरावलोकने तासामिष्टसा- धिकाऽभूदिति भावः । भाषा खून के आधिक्य से कीचड होजाने से युद्ध भूमि के दुर्गम होजाने पर, देवाङ्गनाओ की आश्रयरहित आकाशगति को उसने उनके लिये अभीष्ट- साधक बना दिया । अर्थात् उनको युद्ध देखने में कोई रुकावट न पडी । प्रहतिनिवहमूर्च्छितोऽधिरोहः स्वकरटिकर्णपुटानिलैः प्रबुध्य । अपरसुभटपातिते प्रहर्त्तर्य्यनुशयमापदलब्धवैरशुद्धिः ॥७४॥ अन्वयः प्रहतिनिवहमूर्च्छितः अधिरोहः स्वकरटिकर्णपुटानिलैः प्रबुध्य प्रहर्त्तरि अपरसुभटपातिते (सति) अलब्धवैरशुद्धिः (सन्) अनुशयम् आपत् । व्याख्या प्रहतीनां प्रहरणानां निवहरसमूहस्तेन मूर्च्छितो विगतचेतनोऽधिरोहो गजारोही योद्धा स्वस्याऽत्मनो करटो गजस्तस्य कर्णपुटी श्रोत्रपुटी तयोरनिला वायवस्तैः प्रबुध्य सज्ञा प्राप्य प्रहर्तरि स्वस्योपरिप्रहारकतरि भटेऽपरोऽन्य सुभटो योद्धा तेन पातिते प्रहारेण भूमौ निपातिते सति हते सतीत्यर्थः । अलब्धाऽप्राप्ता वैरस्य शत्रुभावस्य शुद्धिनिष्क्रमो येन सः स्वप्रहर्त्तार स्वयमेव यन्न भूमावपात- यदिर्ति हेतोरनुशय पश्चात्तापमापत्प्राप्त । मयैव करणीयमन्येन कृतमिति सन्तप्तमना अभूदिति भावः ।

( ३९३ ) भाषा शस्त्रो की मार से बेहोश हाथी सवार, अपने हाथी के कानो की हवा से होश में आकर अपने को मारने वाले को दूसरे ने मारकर गिराया हुआ देख कर बदला न ले सकने के कारण पश्चात्ताप करने लगा । नयनगतमरातिवीरचूडा-मणिवलनप्रभवं परागमेकः । करिदर्शनविदारितात्मवक्षः-स्थलरुधिराञ्जलिभिनिराचकार ॥७५॥ अन्वयः एकः नयनगतम् अरातिवीरचूडामणिदलनप्रभवं परागं करिदर्शन- विदारितात्मवक्षःस्थलरुधिराञ्जलिभिः निराचकार । व्याख्या एक कश्चिद्भटो नयनयोर्नेत्रयोर्गतं प्राप्तमरातय शत्रवो वीराश्शूरा इत्यरा- तिवीरास्तेषां चूडामणयोऽलङ्कारभूता शिरोमणयस्तेषां दलनं चूर्णनमेव प्रभव उत्पत्तिस्थानं यस्य स तं परागं धूलिं करिणा हस्तिना दशनैर्दन्तैर्विदारितं भिन्न- मात्मनस्स्वस्य वक्ष स्थलं तस्य रुधिरस्य शोणितस्याऽञ्जलयस्तैर्निराचकार दूरीकृतवान् । येन वीरेण कस्यचिद्भटस्य चूडामणि खण्डितस्तस्य केनाऽपि करिणा वक्ष स्थलं विदारितमिति तुमुलं युद्ध समजनीति भाव । अतिश- योक्त्यलङ्कारः । भाषा किसी योद्धा न अपने आंख में पडी, विपक्षी वीरा के शिरोमणियो को चूर २ कर देने से उत्पन्न धूलि को हाथी के दातो स चीरी हुई अपनी छाती से निकलने वाले खूनो की अञ्जुलियो स धो डाला । अर्थात् आंख में पडी धूल को पानी न होने से खून स ही धोकर सफा कर दिया तात्पर्य यह कि घोर सग्राम होने लगा । महति समरसङ्कटे भटोऽन्यः प्रतिभटनिर्दलनात्समाप्तशस्त्रः । व्यगणितमरणः प्रविश्य वेगादरिकरात् करवालमाचकर्ष ॥७६॥ अन्वयः महति समरसङ्कटे प्रतिभटनिर्दलनात् समाप्तशस्त्रः अन्यः भटः व्यगणितमरणः (सन्) वेगात् प्रविश्य अरिकरात् करवालम् आचकर्ष ।

६. बिल्हण कवि-परिचय, काश्मीर वर्णन व उपसंहार

( ३९४ ) व्याख्या महति विशाले समरसङ्कटे तुमुले रणे प्रवृत्ते सति युद्धसम्भावेन प्रतिभटानां विपक्षयोद्धृणां निर्दलनान्निःशेषेण खण्डनात् नाशादित्यर्थः । समाप्तं निरन्तर- युद्धकरणाद्भ्रष्टं भ्रष्टञ्च शस्त्रमायुधं यस्य स अन्यः कश्चिद्भटस्सुपोङ्गापणि- तमकिञ्चित्करत्वेनावबुद्ध मरण प्राणनाशो येन स एवम्भूतः सन् वेगाज्जवा- त्प्रविश्य शत्रुसैन्यसमूह प्रसभं समाक्रम्याऽरिकरतो वैरिणो हस्तात्करवालं खङ्गमाचकर्षोऽङ्कृष्टवान् । भाषा घोर संग्राम होने पर विपक्षी शत्रुओं का दलन करने के कारण जिसके शस्त्र समाप्त हो चुके हैं ऐसा एक वीर, मरने की कुछ भी परवाह न कर वेग से शत्रुओं के बीच में घुस कर उनके हाथ से तलवार छीनने लगा । असुभिरपि यियासुभिः प्रविश्य प्रतिभटमूर्धनि कोऽपि दत्तपादः । फलममनुत जन्मनोऽपि लब्धं यशांस रतिर्महतां न देहपिण्डे ॥७७॥ अन्वयः कः अपि असुभिः यियासुभिः अपि (सद्भिः) प्रविश्य प्रतिभटमूर्धनि दत्तपादः (सन्) जन्मनः फलम् अपि लब्धम् अमनुत । महतां रतिः यशसि (भवति) न देहपिण्डे । व्याख्या कोऽप्यन्यः कश्चिद्भटोऽसुभिः प्राणैः 'पुंसि भूम्यसवः प्राणाः' इत्यमरः । यियासुभिरपि गन्तुमिच्छुभिरपि सद्भिन्नासन्नमरणोऽपीत्यर्थः । प्रविश्य मध्येरणं हठात्प्रवेश लब्ध्वा प्रतिभटस्य विपक्षवीरस्य मूर्धनि शिरसि दत्तस्स्थापितः पादश्चरणं येन सः सन् जन्मन स्वजन्मुयः 'जन्तूर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । फलमपि प्रयोजनमपि लब्ध प्राप्तममनुत कृतवान् मन्यते स्म । धीराणां निहतशत्रौ पादाघातो महापुरुषार्थं इति भावः । महतां महामहिम- शालिनां रतिः प्रीतिर्यशसि कीतौ भवति न तु देहपिण्डे शरीरे । अत्रार्थान्तर- न्यासालङ्कारः ।

( ३९५ ) भाषा किसी वीर ने मरणासन्न अवस्था में भी युद्ध में घुसकर विपक्षी वीर के मस्तक पर लात देकर अपने जीवन का फल भी श्लाघ्य भरा समझा। बड़े लोगों का प्रेम यश में होता है शरीर में नहीं। विघटितकवचश्चचार कश्चित् प्रतिभटमुज्झितकङ्कटं विलोक्य । विमलविजयलालसाः खलानामवसरमल्पमपि प्रतिक्षिपन्ति ॥७८॥ अन्वयः कश्चित् उज्झितकङ्कटं प्रतिभटं विलोक्य विघटितकवचः सन् चचार। विमलविजयलालसाः खलानाम् अल्पम् अपि अवसरं प्रतिक्षिपन्ति। व्याख्या कश्चिद्भट उज्झितः परित्यक्तः कङ्कटः कवचो 'उरश्छदः कङ्कटको जगादः कवचोऽस्त्रियाम्' इत्यमरः । येन स तं प्रतिभटं विपक्षवीरं विलोक्य दृष्ट्वा, मल्लयुद्धाय सन्नद्धं त्यक्तकवचं प्रतिभटं विलोक्येत्यर्थः । विघटितः स्वशरीरात्पृथक् कृतः कवचो येन स , प्रतिभटेन सार्धं मल्लयुद्धाय कवचं देहात्पृ- थक्कृत्य रणेऽवतीर्णइत्यादिसत्यर्थः । चचार बभ्राम । विमला शुद्धा विजयस्य लालसाऽतिप्रीतिर्येषां ते वीराः खलानां नीचानां निन्दकानामित्यर्थः । अल्पमपि क्षुद्रमप्यवसरं समयं प्रतिक्षिपन्ति दूरीकुर्वन्ति । विमलविजयलालसास्तथा व्यवहरन्ति यथा खलाः स्वल्पमपि निन्दावसरं न प्राप्नुवन्तीतिभावः । भाषा कवच को उतार कर रख देने वाले और मल्लयुद्ध को तैयार विपक्षी योद्धा को देखकर कोई वीर अपना कवच उतार कर मल्लयुद्ध के लिये तैयार होकर टहलने लगा। विशुद्ध विजय से प्रेम रखने वाले वीर खलों को निन्दा करने का थोड़ा भी अवसर नहीं देते। रुधिरभृतकपालपङ्क्तिमध्ये मदकरटी विनिपत्य कर्कवालैः। शिशिरमिव चकार पानपात्र-ग्रहणिनमासवमागतस्य मृत्योः॥७९॥

( ३९६ ) अन्वयः मदकरटी रुधिरभृतकपालपङ्क्तिमध्ये विनिपत्य आगतस्य मृत्योः पानपात्रप्रणयिनम् आसवं कर्णतालैः शिशिरम् इव चकार । व्याख्या मदकरटी मदान्धगजो रुधिरेण शोणितेन भृतानि परिपूरितानि कपालानि शिरोऽस्थीनि तेषां पङ्क्तिः श्रेणी तस्या मध्ये विनिपत्य शस्त्रप्रहारेण भग्नस्सन्प्र- पतित्वाऽऽगतस्य गजार्थं समुपयातस्य मृत्योर्यमस्य पानपात्रे चषके प्रणयिनं स्थित- मास्रवं मद्य कर्णतालैः श्रोत्ररूपतालवृन्तैस्तज्जनितपवनैरित्यर्थः । शिशिरमिव शीतलमिव चकार कृतवान् । उत्प्रेक्षालङ्कार । भाषा कोई मदान्धहाथी खून से भरी गण्डस्थल की हड्डियों की कतार के बीच में, चोट खा जाने से गिरकर, उसको लेने को आए हुए यमराज के कटोरो में के मद्य को मानो अपने कानरूपी ताड के पंखे से हवा कर ठण्डा कर रहा था । उपरि निपतितः कपालशुक्तेः श्रवणपुटः करिणः कृपाणलूनः । समरभुवि कृतान्तपानलीलाचषकपिधानविलासमाससाद ॥८०॥ अन्वयः समरभुवि कपालशुक्तेः उपरि निपतितः कृपाणलूनः करिणः श्रवणपुटः कृतान्तपानलीलाचषकपिधानविलासम् आससाद । व्याख्या समरभुवि युद्धभूमौ कपालशुक्तेः शिरोऽस्थिरूपशुक्तेरुपरि निपतितः सम्प्राप्तः कृपाणेन खड्गेन लूनश्छिन्न करिणो कस्यचिद्गजस्य श्रवणपुटः कर्णपुटः कृतान्तस्य यमस्य ‘कृतान्तो यमुनाभ्राता शमनो यमराड्यमः’ इत्यमरः । पानस्य मद्यपानस्य लीलाचषक प्रियपात्र तस्य पिधानमाच्छादनं तस्य विलासं शोभा- माससाद प्राप । निदर्शनालङ्कार । भाषा समराङ्गण में गण्डस्थल की हड्डी रूपी सीपपर, तलवार से कटकर गिरा

( ३१८ ) उच्चलत्पताकेऽग्रजस्य ज्येष्ठभ्रातुः सोमदेवस्य सैन्ये बले क्षणमुदचलत् । स विक्रमाङ्कदेवो यत्र यत्र यस्मिन् यस्मिन् स्थाने रणभुवि युद्धभूमौ चचार जगाम तत्र तत्र तस्मिन् तस्मिंस्थानेऽरातीनां शत्रूणा यशांसि कीर्तीन्य॑पिबत्पपौ । यत्र सङ्ग्रामे स गतस्तत्रैव शत्रून् पराजितवानित्यर्थः । भाषा वह विक्रमाङ्कदेव झण्डे को फहराने वाले चोल देश के राजा राजिग की सेना में और अपने बडे भाई सोमदेव की सेना में थोडी २ देर के लिये गया । जहाँ २ युद्धभूमि में वह गया वहाँ २ उसने शत्रुओं के यश को पी लिया अर्थात् उनको हराकर निस्तेज कर दिया । पददलितबृहत्कपालजाले करटिनि तस्य दुरापभाजनानाम् । सुभटरुधिरसीधुपानकेलिर्व्यघटत तत्र पिशाचसुन्दरीणाम् ॥८३॥ अन्वयः तत्र तस्य करटिनि पददलितबृहत्कपालजाले (सति) दुरापभाजनानां पिशाचसुन्दरीणां सुभटरुधिरसीधुपानकेलिः व्यघटत । व्याख्या तत्र युद्धे तस्य विक्रमाङ्कदेवस्य करटिनि गजे पदैश्चरणैर्दलितानि खण्डितानि बृहन्ति विशालानि बहूनीत्यर्थः । कपालाना कर्पराणा जालानि समूहा येन स तस्मिन्नेवं भूते सति दुरापानि दुर्लभानि भाजनानि चषकापरपर्यायमद्यपात्राणि यासा तास्तासा पिशाचाना सुन्दर्यस्तासा पिशाचिनीना सुभटाना सुयोधानां रुधिरस्य शोणितस्य शोणितरूपस्येत्यर्थः । सीधोर्मद्यस्य पानकेलिः पानक्रीडा व्यघटत भङ्गनाप खण्डिता बभूवेत्यर्थः । हस्तिना कपालेषु चूर्णितेषु पात्राभावात् पिशाचिनीना रुधिररूपमद्यपानक्रीडा समाप्तेति भाव । भाषा युद्ध में विक्रमाङ्कदेव के हाथी के पाव तले बहुत सी खोपडियो के चूर २ हो जाने पर, पानपात्रो को न प्राप्त करने वाली पिशाचिनियो की, योद्धाओ के रुधिर रूपी शराब को पीने की क्रीड़ा बन्द हो गई । ध्रुवमरिषु पटं व्यधत्त लक्ष्मीः सुरभिकुशेशयकोशकेलिभक्ता । नृपसुतकरवाललेखया यन्मधुकरमालिकयेव चुम्ब्यते स्म ॥८४॥

( ३९९ ) अन्वयः सुरभिकुशेशयकोशकेलिसक्ता लक्ष्मीः ध्रुवम् अरिषु पदं न्यधत्त। यत् मधुकरमालिकया इव नृपसुतकरवाललेखया चुम्ब्यते स्म। व्याख्या सुरभिः सुगन्धिः 'सुरभिर्घ्राणतर्पण.' इत्यमरः। यः कुशेशयस्य कमलस्य "सहस्रपत्रं कमल शतपत्रं कुशेशयम्' इत्यमरः। कोशः कुङ्मलं 'कोशोऽस्त्री कुडमले खड्गपिधानेऽर्थाघदिव्ययोः' इत्यमरः। तस्मिन्‌या केलिः क्रीडा तत्र सक्ता संलग्ना लक्ष्मी राज्यलक्ष्मीः, कमलं लक्ष्म्या निवासस्थानमिति हेतोस्तत्र सक्तेत्यर्थः। ध्रुव निश्चयेनार्द्धरिषु शत्रुपु शत्रुशिरःष्वित्यर्थः। पदं स्थानं चरणं वा व्यधत्त कृतवती। यद्यस्मात्कारणान्मधुकराणां भ्रमराणां मालिका समूहस्तया भ्रमरश्रेण्येव नृपसुतो विक्रमाङ्कदेवस्तस्य करवाललेखा कृष्णवर्णा खड्गरेखा तया चुम्ब्यते स्म प्रेम्णा परिचुम्बिता बभूव। यतो मधुकरमालिकेव कृष्णवर्णा खड्गरेखा शत्रुशिरःसु पतति तस्मात् कुशेशयसक्ता लक्ष्मीरवश्यमेव शत्रुशिरःसु पदं व्यधत्त। कमलाभावे मधुकरमालागमनासम्भवादिति भावः। अत्रोत्प्रेक्षालङ्कारः। भाषा सुगन्धयुक्त कमल की कली में क्रीडा करने में आसक्त लक्ष्मी अवश्यमेव शत्रुओं के मस्तकों पर जा बैठी थी। क्योंकि भ्रमर श्रेणी के समान काले रंग की विक्रमाङ्कदेव के तलवार की धार शत्रुओं के शिरों में विद्यमान लक्ष्मी का चुम्बन करती थी। अर्थात् शत्रुओं की गर्दन काटती थी। अनुकृतसमरर्त्तिपानलोला-चषककरालकपालशुक्तिमध्ये। करिदशनपरम्परा निपत्य श्रियमतनोदुपदंशमूलकानाम् ॥८५॥ अन्वयः करिदशनपरम्परा अनुकृतसमरवर्त्तिशनलीला-चषककरालकपालशुक्ति- मध्ये निपत्य ⁠¹उपदंशमूलकानां श्रियम् अतनोत्। ¹ यथा वेणीसंहारनाटके तृतीयाङ्के—"रुधिर प्रिय ! गृहाणैतत् हस्तिशिरः कपालतञ्चितमग्रमासोपदंशं पिव नवशोणितासवम् ।"

( ४०० ) व्याख्या करीणां गजानां दशनानि दन्तास्तेषां परम्परा श्रेणिरनुकृतोऽनुहृतः समवर्तिनो यमस्य 'धर्मराजः पितृपतिः समवर्ती परेत्तराट्' इत्यमरः । पानलीलाचषको सुरापानपात्रं 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । यैस्तानि करालांनि भयङ्कराणि कपालानि शिरोऽस्थीनि 'स्यात्कर्पंटः कपालोऽस्त्री' इत्यमरः । तान्येव शुक्तयस्तासां मध्यं तस्मिन्निपत्य पतनं विधायोपवंशमूलकानां मध्यपा- नान्तराले चर्व्यमाणमूलकानां ('मूली' इति भाषायां प्रसिद्धः ।) श्रियं शोभाम- तनोद्विस्तारयामास । मूलकश्रीसमश्रीविस्ताररूपार्थस्य प्रतीत्या पदार्थनिदर्शना लङ्कारः । भाषा हाथियों के दांतों की कतार, यमराज के शराब पीने के प्याले का अनुकरण करने वाली, भयङ्कर माथे की हड्डियों रूपी सीपों में गिर कर शराब पीते समय बीच २ में चबाई जाने वाली मूलियों की शोभा दे रही थी । वशमवनिपतिद्वयं नयन्ती चटुलपृषत्ककटाक्षमालिकाभिः । क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनर्त्यत सङ्गराग्ररङ्गे ॥८६॥ अन्वयः सङ्गराग्ररङ्गे क्षितिपतितनयेन चटुलपृषत्ककटाक्षमालिकाभिः अवनि- पतिद्वयं वशं नयन्ती वीरलक्ष्मीः सुचिरम् अनर्त्यत । व्याख्या सङ्गरस्य संग्रामस्य 'प्रतिज्ञाजि सविवापत्सु सङ्गरः' इत्यमरः । अग्रमेव रङ्गो नाट्यशाला रङ्गमञ्च इत्यर्थः । तस्मिन् क्षितिपतेराहवमल्लदेवस्य तनयेन पुत्रेण विक्रमाङ्कदेवेन चटुलाइचञ्चलाः पृषत्का बाणा 'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । एव कटाक्षा नेत्रप्रान्तदर्शनानि 'अपाङ्गो नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां मालिका. पङ्क्तयस्ताभिरवने पृथिव्याः पतिः स्वामीत्यवनिपतिः तयोर्द्वयं युगलं राजिगं सोमदेवञ्च वशं स्वाधीन- तायां नयन्ती प्रापयन्ती वीरलक्ष्मीर्युद्धवीराणां राजलक्ष्मीः सुचिरं बहुकालमनर्त्यत नर्तनाय प्रवर्तिता । रङ्गमञ्चाधिकारिणा रङ्गमञ्चे सचञ्चलकटाक्षा नर्तकीव विक्रमाङ्कदेवेन समराङ्गणे सचञ्चलबाणपरं वीरलक्ष्मीरनर्त्यतेति भावः ।

( ४०१ ) भाषा युद्ध के अग्रभाग रूपी रङ्गमञ्च पर राजपुत्र विक्रमाङ्कदेव ने चञ्चल बाण रूपी कटाक्षों की पङ्क्तियों से दोनों राजाओं को अर्थात् राजिग तथा सोमदेव को वश में लाने वाली वीरश्री को चिरकाल तक नचाया । अर्थात् दोनों राजाओं को बाण मार कर अपनी वीरता से अपने काबू में लाते हुए चिरकाल तक घोर संग्राम किया । कुलिशनिशितकङ्कपत्रभिन्ना-स्त्रिभुवनभीमभुजस्य राजसूनोः । प्रतिभटकरटिस्थिताः प्रथीराः प्रणतिपरा इव सम्मुखा निपेतुः ॥८७॥ अन्वयः त्रिभुवनभीमभुजस्य राजसूनोः कुलिशनिशितकङ्कपत्रभिन्नाः प्रतिभट- करटिस्थिताः प्रवीराः प्रणतिपराः इव सम्मुखाः निपेतुः । व्याख्या त्रयाणां भुवनानां समाहारस्त्रिभुवनं लोकत्रयं तस्मिन् भीमो भयङ्करो 'भयङ्करं प्रतिभयं घोरं भीमं भयानकम्' इत्यमरः । भुजो बाहुर्यस्य स तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य, कुलिशवद्वज्रवन्निशितं तीक्ष्णं कङ्कपत्रं बाणविशेषस्तेन भिन्ना विदारिता, प्रतिभटानां शत्रुपक्षीययोधानां करटिनो गजास्तेषु स्थिताः समारूढाः प्रवीराः प्रकृष्टवीराः प्रणतिपरा इव प्रणामप्रवणा इव प्रणमन्त इवेत्यर्थः । सम्मुखा अभिमुखाः पुरतो निपेतुर्भूमौ निपतितवन्तः । गजोपरिस्थिताः प्रवीरा अस्य बाणैः क्षतास्तस्य पुरतो निपतुरिति भाव । उत्प्रेक्षालङ्कारः । भाषा तीनों लोकों में भयङ्कर भुजावाले अर्थात् भुजशक्ति वाले उस राजकुमार विक्रमाङ्कदेव के वज्र के समान तीखे २ कङ्कपत्रों से घायल शत्रुपक्षीय योद्धाओं के हाथियों पर बैठे हुए प्रधान वीरगण मानों विक्रमाङ्कदेव को प्रणाम करते हुए उसके सामने (हाथियों पर से) गिरने लगे । द्विरदपतिरमुष्य शत्रुसेना-भटमुखपद्मविमर्दकेलिकालः । झटिति रणसरश्चकार लक्ष्मी-करधृतविभ्रमपुण्डरीकशेषम् ॥८८॥ २६

( ४०२ ) अन्वयः अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार। व्याख्या 'अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणां सेना चमूस्तस्या ये भटा योधा- स्तेषां मुखान्येवाननान्येव पद्मानि कमलानि तेषां विमर्दश्चूर्णनमेव केलिः क्रीडा तदर्थं कालो यमो विनाशकारित्वात्। 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः। द्विरदपतिर्गजनाथो रण एव सङ्ग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्रं लक्ष्म्याः श्रियः करेण हस्तेन धृतं धारितं विभ्रमपुण्डरीकं विलाससिताम्भोजं 'पुण्डरीकं सिताम्भोजम्' इत्यमरः। एव शेषोऽवशिष्टोंऽशो यस्य तच्चकार निष्पादितवान्। रूपकालङ्कारः। भाषा शत्रु सेना के योद्धाओं के मुख कमलों को चूर २ कर देने की क्रीड़ा में यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाब को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया। अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलों को रणरूपी सरोवर में नष्ट कर दिया। धृतसुभटकरङ्कमङ्कवर्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त- शेषप्रणयि शिवासहस्रभोग्यम् अनणु रणं बभूव। व्याख्या धृता गृहीताः सुभटानां सुयोधानां करङ्का अस्थिपञ्जरा येन तत्। अङ्के क्रोडे वर्त्तीनि गतानि द्विरदानां गजानां विकटानि भयङ्कराण्यस्थिचक्रवाला- न्यस्थिसमूहा यस्य तत्, कृतान्तस्य यमस्य भुक्तं भोजनं तस्य शेषस्तस्य प्रणयि स्थानं शेषयुक्तमित्यर्थः। तद्यमराजभक्षितमांसावशिष्टयुक्तमिति भावः। शिवानां शृगालीनां सहस्रं तेन भोग्यं भोगयोग्यं रणं युद्धमनणु बहुल बभूव जातम्।

( ४०३ ) भाषा बडे बडे योद्धाओं के अस्थिपञ्जरो को धारण करने वाला, (गोद में) रास ही में हाथियों के समूह की भयङ्कर हड्डियों के ढेर को रखने वाला, यमराज के खाने से बचे हुए मांस वाला और हजारों शृगालियों के उपभोग के योग्य, एक बहुत बडा युद्ध हुआ । किमपरमुपरि प्रतापभाजां विहितपदः स बभञ्ज राजयुग्मम् । द्रविडपतिरगात्क्वचित्पलाय्य न्यविशत बन्धनधाम्नि सोमदेवः ॥६०॥ अन्वयः किम् अपरम् । प्रतापभाजाम् उपरि विहितपदः सः राजयुग्मं बभञ्ज । द्रविडपतिः पलाय्य क्वचित् गतः । सोमदेवः बन्धनधाम्नि न्यविशत । व्याख्या किमपरमन्यात्किं वक्तव्यम् । प्रतापं प्रभावं भजन्ति सेवन्ते ते प्रतापभाज- स्तेषां प्रभावशालिनामुपरि मस्तके विहितं स्थापितं पदं चरणं येन सः स्थापित चरणः स विक्रमाङ्कदेवो राज्ञोर्द्रविडपतिराजिगसोमदेवयोर्युग्मं युगलं बभञ्ज सम्मर्दितवान् । द्रविडपती राजिगः पलाय्य द्रुतगत्या क्वचिदज्ञातास्थाने गतो जगाम । सोमदेवो बन्धनस्य धाम स्थानं तस्मिन् कारागारे न्यविशत निविष्टवान् । भाषा अब और दूसरा क्या कहना है ? प्रताषियों के मस्तक पर चरण रखने वाले विक्रमाङ्कदेव न राजिग और सोमदेव, इन दोनों राजाओं को कुचल डाला । द्रविड देश का राजा राजिग भागकर कहीं अज्ञात स्थान में चला गया । सोमदेव कैद खाने में बन्द हो गया । उभयनरपतिप्रतापलक्ष्म्यौ निलुलुठतुश्चरणद्वये तदीये । त्रिभुवनमहनीयबाहुवीर्यद्रविणविभूतिमसां किमस्त्यसाध्यम् ॥६१॥ अन्वयः उभयनरपतिप्रतापलक्ष्म्यौ तदीये चरणद्वये विलुलुठतुः । त्रिभुवन- महनीयबाहुवीर्यद्रविणविभूतिमसां किम् असाध्यम् (अस्ति) ।

( ४०२ ) अन्वयः अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार । व्याख्या अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणा सेना चमूस्तस्या ये भटा योधा- स्तेषां मुखान्याननान्येव पद्मानि कमलानि तेषा विमर्दश्चूर्णनमेव केलि क्रीडा तदयं कालो यमो विनाशकारित्वात् । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमर । द्विरदपतिर्गजनाथो रण एव संग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्र लक्ष्म्या श्रिय करेण हस्तेन धृत धारित विभ्रमपुण्डरीक विलाससिताम्भोज 'पुण्डरीक सिताम्भोजम्' इत्यमर । एव शेषोऽवशिष्टांशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कार । भाषा शत्रु सेना के योद्धाओ के मुख कमलो को चूर २ कर देने की क्रीडा में यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया । अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलो को रणरूपी सरोवर में नष्ट कर दिया । धृतसुभटकरङ्कमङ्कवर्त्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त- शेषप्रणयि शिवासहस्रभोग्यम् अनणु रण बभूव । व्याख्या धृता गृहीता सुभटाना सुयोधाना करङ्गा अस्थिपञ्जरा येन तत् । अङ्के क्रोडे बर्त्तीनि गतानि द्विरदाना गजाना विकटानि भयङ्कराण्यस्थिचक्रवाला- न्यस्थिसमूहा यस्य तत्, कृतान्तस्य यमस्य भुक्त भोजन तस्य शेषस्तस्य प्रणयि स्थानं शेषयुक्तमित्यर्थ । तद्यमराजभक्षितमावशिष्टयुक्तमिति भाव । शिवानां शृगालीनां सहस्र तेन भोग्य भोगयोग्य रणं युद्धमनणु बहुत्वं बभूव जातम् ।

( ४०७ ) पर, और आकाश के वायुओ द्वारा लाए हुए जल कणो के मिप से मानो आकाशगङ्गा के जल को छिड़कते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अतिविशदतया दिशां मुखेषु स्मितमिव केतकमित्रमुद्वहत्सु । निखिलभुवनमानसेषु हर्ष-प्रसरवशेन नितान्तमुत्सुकेषु ॥६६॥ अन्वयः दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु) इव निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तम् उत्सुकेषु (सत्सु) (विक्र- मादित्यदेवोऽभिषेकमलभतेत्यन्वयः ।) व्याख्या दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वग्रभागेषु वाऽतिविशदतयाऽतिनैर्मल्येन केतक्यः पुष्पं केतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृश स्मितमीषद्धास्यमुद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्य प्राप्तास्वित्यर्थः । निखिलभुवनानां सकललोकस्थितजनानां मान- सानि मनांसि तेषु सकललोकगतजनमनःसु हर्षस्यानन्दस्य प्रसरो विस्तारस्तस्य वशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु (विक्रमादित्य- देवोऽभिषेकमलभतेति । ) भाषा दिशाओं के अत्यन्त निर्मल होने से मानो श्वेत केवड़े के फूलों के समान उनके मुस्कराते रहने पर और समस्त लोकों के मनुष्यों के मनों में आनन्द का सञ्चार होने के कारण उनके उत्कण्ठित हो उठने पर (विक्रमाङ्कदेव का राज्या- भिषेक हुआ । ) ऽ वरकरिषु गभीरदुन्दुभीनां ध्वनिमिव संजनयत्सु गर्जितेन । दिशि दिशि तुरगेषु सान्द्रशङ्ख-स्वनकमनीयसहर्षह्रेषितेषु ॥६७॥ अन्वयः वरकरिषु गर्जितेन गभीरदुन्दुभीनां ध्वनिं संजनयत्सु (सत्सु) इव,

( ४०८ ) दिशि दिशि तुरगेषु सान्द्रशङ्खस्वनकमनीयसहर्षहेषितेषु (सत्सु) (विक्र- मादित्यदेवोऽभिषेकमलभतेत्यन्वयः । ) व्याख्या वरकरिषु श्रेष्ठगजेशु गर्जितेन बृंहितेन गभीरदुन्दुभीनां गम्भीरभेरीणां 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनिं शब्दं संजनयत्सु सत्स्वथ, दिशि दिशि प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खानां कम्बनां स्वनाः शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानार्नि हेषितानि तुरग- रवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोदहेषितेषु सत्सु (विक्रमादित्य- देवोऽभिषेकमलभतेति । भाषा श्रेष्ठ हाथियों की गर्जना से मानो उनके भेरीनाद करते रहने पर और चारों ओर घोड़ों के, गम्भीर शङ्खों की ध्वनि के समान कर्णप्रिय सहर्ष हिन- हिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ।) अथ सुरपथवल्गद्दिव्यभेरीनिनादं प्रशमितपरितापं भर्तृलाभात्पृथिव्याः । अलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी- क्लममुपमभिषेकं विक्रमादित्यदेवः ॥६८॥ अन्वयः अथ विक्रमादित्यदेवः पृथिव्याः भर्तृलाभात् प्रशमितपरितापं सुरपथ- वल्गद्दिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुपम् अभिषेकम् अलभत । व्याख्या अथ समरविजयानन्तरं विक्रमादित्यदेवो विक्रमाङ्कदेवो राजकुमारः पृथिव्याः क्ष्माया भर्तृलाभात् स्वस्वामिप्राप्त्या प्रशमितः शान्तिं प्रापितः परितापस्तन्तापो दुःखं वा येन स तं दूरीकृतदुःखं, सुरपथे गगने वल्गन् समुत्कर्षं प्राप्नुवन्दिव्यायाः स्वर्गीयाया भेर्या निनादः शब्दो यस्मिन् स तं गगनप्रसरतस्वर्गीयभेरीनिस्वनं, चिराच्चिरकालादारभ्य चिराय वा व्याप्ता चिन्ता स्वस्वामिपराजयजन्यशोको-