भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 399, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 399

( ३९२ ) अन्वयः (सः) रुधिरपटलकर्दमेन रणभुवि दूरं दुर्गमताम् उपागतायाम् (सत्याम्) अनिमिषप्रियाजनस्य अवलम्बनानपेक्षं गमनं प्रियम् अकरोत् । व्याख्या (स विक्रमाङ्कदेव.) रुधिरस्य शोणितस्य पटलं समूहस्तस्य कर्दमः पङ्कस्तेन रणभुवि युद्धभूमौ दूरमत्यन्तं दुर्गनता दुःखेन गन्तुं शक्यतामुपागताया प्राप्तायां सत्या न निमिषन्तीत्यनिमिषा देवास्तेषा प्रियाजनस्याऽङ्गनाजनस्य नास्त्यपेक्षा यस्मिंस्तदनपेक्षमवलम्बनस्याऽऽश्रयरूपसाहाय्यस्य पृथिव्यादेरित्यर्थः । अनपेक्ष- मित्यवलम्बनानपेक्षं गमनं निराश्रया गगनगतिः प्रियमभीष्टमकरोत् कृतवान् । रणस्य दुर्गमत्वाद्देवाङ्गनानां निराश्रया गगनगतिः समरावलोकने तासामिष्टसा- धिकाऽभूदिति भावः । भाषा खून के आधिक्य से कीचड होजाने से युद्ध भूमि के दुर्गम होजाने पर, देवाङ्गनाओ की आश्रयरहित आकाशगति को उसने उनके लिये अभीष्ट- साधक बना दिया । अर्थात् उनको युद्ध देखने में कोई रुकावट न पडी । प्रहतिनिवहमूर्च्छितोऽधिरोहः स्वकरटिकर्णपुटानिलैः प्रबुध्य । अपरसुभटपातिते प्रहर्त्तर्य्यनुशयमापदलब्धवैरशुद्धिः ॥७४॥ अन्वयः प्रहतिनिवहमूर्च्छितः अधिरोहः स्वकरटिकर्णपुटानिलैः प्रबुध्य प्रहर्त्तरि अपरसुभटपातिते (सति) अलब्धवैरशुद्धिः (सन्) अनुशयम् आपत् । व्याख्या प्रहतीनां प्रहरणानां निवहरसमूहस्तेन मूर्च्छितो विगतचेतनोऽधिरोहो गजारोही योद्धा स्वस्याऽत्मनो करटो गजस्तस्य कर्णपुटी श्रोत्रपुटी तयोरनिला वायवस्तैः प्रबुध्य सज्ञा प्राप्य प्रहर्तरि स्वस्योपरिप्रहारकतरि भटेऽपरोऽन्य सुभटो योद्धा तेन पातिते प्रहारेण भूमौ निपातिते सति हते सतीत्यर्थः । अलब्धाऽप्राप्ता वैरस्य शत्रुभावस्य शुद्धिनिष्क्रमो येन सः स्वप्रहर्त्तार स्वयमेव यन्न भूमावपात- यदिर्ति हेतोरनुशय पश्चात्तापमापत्प्राप्त । मयैव करणीयमन्येन कृतमिति सन्तप्तमना अभूदिति भावः ।