विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 401, कुल 493 में से
संदर्भ में पढ़ें( ३९४ ) व्याख्या महति विशाले समरसङ्कटे तुमुले रणे प्रवृत्ते सति युद्धसम्भावेन प्रतिभटानां विपक्षयोद्धृणां निर्दलनान्निःशेषेण खण्डनात् नाशादित्यर्थः । समाप्तं निरन्तर- युद्धकरणाद्भ्रष्टं भ्रष्टञ्च शस्त्रमायुधं यस्य स अन्यः कश्चिद्भटस्सुपोङ्गापणि- तमकिञ्चित्करत्वेनावबुद्ध मरण प्राणनाशो येन स एवम्भूतः सन् वेगाज्जवा- त्प्रविश्य शत्रुसैन्यसमूह प्रसभं समाक्रम्याऽरिकरतो वैरिणो हस्तात्करवालं खङ्गमाचकर्षोऽङ्कृष्टवान् । भाषा घोर संग्राम होने पर विपक्षी शत्रुओं का दलन करने के कारण जिसके शस्त्र समाप्त हो चुके हैं ऐसा एक वीर, मरने की कुछ भी परवाह न कर वेग से शत्रुओं के बीच में घुस कर उनके हाथ से तलवार छीनने लगा । असुभिरपि यियासुभिः प्रविश्य प्रतिभटमूर्धनि कोऽपि दत्तपादः । फलममनुत जन्मनोऽपि लब्धं यशांस रतिर्महतां न देहपिण्डे ॥७७॥ अन्वयः कः अपि असुभिः यियासुभिः अपि (सद्भिः) प्रविश्य प्रतिभटमूर्धनि दत्तपादः (सन्) जन्मनः फलम् अपि लब्धम् अमनुत । महतां रतिः यशसि (भवति) न देहपिण्डे । व्याख्या कोऽप्यन्यः कश्चिद्भटोऽसुभिः प्राणैः 'पुंसि भूम्यसवः प्राणाः' इत्यमरः । यियासुभिरपि गन्तुमिच्छुभिरपि सद्भिन्नासन्नमरणोऽपीत्यर्थः । प्रविश्य मध्येरणं हठात्प्रवेश लब्ध्वा प्रतिभटस्य विपक्षवीरस्य मूर्धनि शिरसि दत्तस्स्थापितः पादश्चरणं येन सः सन् जन्मन स्वजन्मुयः 'जन्तूर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । फलमपि प्रयोजनमपि लब्ध प्राप्तममनुत कृतवान् मन्यते स्म । धीराणां निहतशत्रौ पादाघातो महापुरुषार्थं इति भावः । महतां महामहिम- शालिनां रतिः प्रीतिर्यशसि कीतौ भवति न तु देहपिण्डे शरीरे । अत्रार्थान्तर- न्यासालङ्कारः ।