विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 382, कुल 493 में से
संदर्भ में पढ़ें( ३७५ ) अन्वयः व्यजनचटुलवालधिप्रपञ्चप्रचुरसमीरखपुञ्जमध्यवर्ती मरुत् येषां त्वरित- गमनलङ्घितः अपि अविभाव्यतया न लज्जते स्म । व्याख्या व्यजनानि तालवृन्तानीव चटुलाश्चपला वालधयः पुच्छप्रदेशपुञ्जाः 'पुच्छोऽस्त्री लूमलांगूले बालहस्तश्च वालधिः' इत्यमरः । तेषां प्रपञ्चा विस्तारास्तेभ्यः प्रचुरा बहुलाः समीराणा वायवस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यजनचटुलवालधिप्रपञ्चप्रचुर-समीरणपुञ्जमध्यवर्ती भरद्वापुर्यषा- मश्वानां त्वरितगमनेन शीघ्रगतिविशेषेण लङ्घितोऽप्यतिक्रान्तोऽप्यविभाव्य- तयाऽलक्ष्यतया न लज्जते स्म नु त्रपते स्म । मरुद्गतिस्तु प्रसिद्धैव । परमश्वानां गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्यजनचटुल- वालधिप्रपञ्चप्रचुरसमीरजपुञ्जवर्तित्वादविभाव्यतया को मां पश्यतीति भावेन लज्जा न सजातेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा ताड के पंखो के समान चंचल पूंछो के हिलने से उत्पन्न अधिक हवाओ के समूह के मध्य में विद्यमान पवन, घोडो से तीव्रगति में पराजित होने पर भी अदृश्य होने से लज्जित न हुआ । अर्थात् घोडो से गति में हरा दिये जाने पर भी अन्य वायुओ के मध्य में रहने से मुझे कौन पहचान सकेगा इस भावना से मरुत् लज्जित न हुआ । प्रतिफलननिभात्सहसमासा मणियमपल्ययनप्रविष्ठितेन । निजरथवहनाथमथिता ये स्वयमधिरुह्य परीक्षिता इवासन् ॥४८॥ अन्वयः ये प्रतिफलनानिभात् काणिमयपल्ययनप्रतिष्ठितेन सहसमासा निजवाह- नार्थम् अर्थिताः (सन्तः) स्वयम् अधिरुह्य परीक्षिताः इव आसन् । व्याख्या येऽश्वाः प्रतिफलनस्य प्रतिबिम्बस्य निभात् व्याजात् 'निभ व्याजसदृक्षयोः' इति कोशः । मणीनां विकार इति मणिमय तादृश पल्ययन पर्याणं (काठी)ति