विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 415, कुल 493 में से
संदर्भ में पढ़ें॥ श्री ॥ महाकवि श्री विल्हण-विरचितं विक्रमाङ्कदेवचरितम् सप्तमः सर्गः । स सर्वमावर्ज्य रिपुप्रमाथी मनोरथानामथ पूरणेन । परिभ्रमन्युद्धकुतूहलेन दिग्दन्तिशेषाः ककुभश्चकार ॥१॥ अन्वयः अथ रिपुप्रमाथी सः मनोरथाना पूरणेन सर्वम् आवर्ज्य युद्धकुतूहलेन परिभ्रमन् (सन्) ककुभः दिग्दन्तिशेषाः चकार । व्याख्या अथ विक्रमाङ्कदेवस्य राज्याभिषेकानन्तर रिपूणां शत्रूणा प्रमाथी मर्दक स विक्रमाङ्कदेवो मनोरथानामभिलाषाणां पूरणेन सफलीकरणेन सर्व जनसमूहमावर्ज्य वशीकृत्य युद्धस्य समरस्य कुतूहलमुत्कण्ठा तेन परिभ्रमन् परितो विचरन् ककुभो दिश 'दिशस्तु ककुभ काष्ठा आशाश्च हरितश्च ता'। दिशा वत्तिनो दिग्द- न्तिनो दिग्गजा एव शेषा अवशिष्टा यासु ताश्चकार सम्पादितवान् । सकल- गजाहरणाद्दिग्गजा एवाऽवशिष्टा आसन्निति भावः । सर्गेऽस्मिन्निन्द्रवज्राच्छन्द 'स्यादिन्द्रवज्रा यदि तौ जगौग' इति लक्षणात् ।