विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 416, कुल 493 में से
संदर्भ में पढ़ें( ४१२ ) गते समाप्तिं नरनाथचक्रे निचोलकारासितचापद्ण्डः । निर्वाप्य चोलस्य पुनः प्रतापं क्रमेण कल्याणमसौ विवेश ॥२॥ अन्वयः असौ चोलस्य प्रतापं निर्वाप्य नरनाथचक्रे क्रमेण समाप्तिं गते (सति) निचोलकारासितचापद्ण्डः (सन्) पुनः कल्याणं विवेश । व्याख्या असौ विक्रमाङ्कदेवो चोलस्य चोलदेशाधिपस्य प्रतापं प्रभावं निर्वाप्य शान्तिं नीत्वा नराणां मनुष्याणां नाथाः स्वामिनस्तेषां चक्रं समूहस्तस्मिन् राजसमूहे क्रमेण शनैः समाप्तिं गते पराजयं प्राप्ते सति निचोल आवरकम् ("खोल" इति भाषार्या प्रसिद्धः ।) एव कारा गूढितगृहं 'कारास्याद्बन्धनलये' इत्यमरः । तस्या- मासितो निवेशितश्चापदण्डो धनुर्दण्डो येन सः । एवम्भूतस्सन् पुनर्मुहुः कल्याणं कल्याणकटकपुर विवेश प्रविष्टवान् समाजगामेत्यर्थः । अत्र रूपकालङ्कारः । भाषा विक्रमाङ्कदेव ने, चोल देश के राजा के प्रताप को रुद्ध कर अर्थात् उसे हराकर, सम्पूर्ण राजाओ को क्रम से पराजित कर देने पर, अपने धनुष्य को खोल में रखकर फिर से कल्याण कटक पुर में प्रवेश किया । अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रकारः । स्थानोपदेशी पिकपञ्चमस्य शृङ्गारबन्धुर्मधुराविरासीत् ॥३॥ अन्वयः अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रधारः पिकपञ्चमस्य स्थानोपदेशी शृङ्गारबन्धुः मधुः आविरासीत् । व्याख्या अत्रान्तरेऽस्मिन्नवकाशे मन्मथस्य कामदेवस्य 'मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः' इत्यमरः । बालमित्रं बालसखा, लता एव वध्वः कान्तास्तासां विभ्रमस्य विलासोपदेशस्य सूत्रधारो नाट्याचार्यः, पिकानां कोकिलानां 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः । पञ्चमः पञ्चमस्वरस्तस्य 'पिकाः