विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 417, कुल 493 में से
संदर्भ में पढ़ें( ४१३ ) गायन्तिपञ्चमम्' इति। स्थानस्य शुद्धोच्चारणोपयुक्त-मुखस्थित-कण्ठ ताल्याद्य- भिघातस्थानस्योपदेशमुपदेशकः सङ्गीताचार्यः, शृङ्गारस्य शृङ्गाररसस्य बन्धु- रुद्दीपको मधुर्वसन्त आविरासीत् समाजगाम । मालारूपकमलङ्कारः । भाषा इसी बीच में कामदेव का लगोटिया साथी, लता रूपी स्त्रियों को विभिन्न विलासों का उपदेश देने वाला, नाट्याचार्य; कोयल के पञ्चम स्वर के शुद्ध उच्चारण के लिये कण्ठ तालु आदि स्थानों की शिक्षा देने वाला सङ्गीताचार्य; शृङ्गार रस को उद्दीप्त करने वाला; वसन्त ऋतु आ गया। शीतर्तुभीत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रेः । यन्निःसरन्ति स्म हिमव्यपाये दिवा च रात्रौ च ततः समीराः ॥४॥ अन्वयः समस्ताः समीराः किं चन्दनाद्रेः कन्दरासीमनि शीतर्तुभीत्या विविशुः यत् हिमव्यपाये (ते) दिवा च रात्रौ च ततः निःसरन्ति स्म। व्याख्या समस्तास्सकलात्समीरा वायवः किं चन्दनाद्रेर्मलयपर्वतस्य कन्दरासीमनि दरीमध्ये 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । शीतर्तुभीत्या शिशिरर्तुभयेन विविशुः प्रविष्टाः । यद्यस्मात्कारणात् हिमस्य शिशिरतोर्व्यपाये समाप्तौ ते पवना दिवा दिने च रात्रौ च निशायाञ्च 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । ततश्चन्दनाद्रेर्निःसरन्ति स्म निर्गच्छन्ति स्म । कन्दरासु प्रवेशे शीतर्तुभीतेर्हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । भाषा सम्पूर्ण वायु क्या शिशिर ऋतु के (ठण्डे के) भय से मलयाचल की कन्दराओं में छिप कर बैठे थे ? क्योकि शिशिर ऋतु के (जाड़े के) बीतते ही वे वायु रात दिन मलयाचल से निकलते ही चले आ रहे थे । कृतप्रकोपाः पवनारशनानां. निवासदानादिव पन्नगानाम् । विनिर्ययुश्चन्दनशैलकुञ्जादाशामुदीचीं प्रति गन्धवाहाः ॥५॥