विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 428, कुल 493 में से
संदर्भ में पढ़ें( ४२४ ) लासो युवतीनामतीव कामोद्दीपक इति भावः । यथा स्वल्पावकाशेऽपि संकुचित- स्थाने विदग्धजनः स्वशरीरं तत्र प्रविश्य सुखानुभूतिं करोतीत्यप्रकृतव्यवहारस्य कुसुमायुधव्यवहारे समारोपात्समासोक्तिरलंङ्कारः ।
भाषा क्रीडा के झूले का तख्ता युवतियों के नितम्बो से चारो तरफ से छेक लिया जाने पर अर्थात् वहाँ बिल्कुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड़ लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झूला झूलने से युवतियाँ कामासक्त हो गई ।
सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास । यदि ⸀प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥
अन्वयः लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास, यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णयितुं जानाति ।
व्याख्या लोलासु चञ्चलासु दोलासु प्रेङ्खास्विन्दीवराणीव नीलकमलानीव लोचनानि नेत्राणि यासां तास्तासामङ्गनानां यत् सौन्दर्यं रामणीयकमुल्ललास प्रादुर्बभूव, यदि मनोभूः कामः प्रसादात्तत्सरस्वत्यनुग्रहात् कवित्वं काव्योत्पादन- प्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्यं वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः² । समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्घाट- यितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव याथार्थ्येन वर्णितं स्यात्प्रत्यस्येति भावः ।
⸀ 'प्रमादात्' इति पाठस्तु लेखकानवधानतंव । चरितचन्द्रिका टिप्पणी- कारस्य 'प्रमादादनवधानता परित्यज्येति भाव ।" इत्यपि चिन्त्यम् । ² त्रिपुरारहस्यमाहात्म्ये-लक्ष्म्यास्त्रिपुराप्रसादेन कामस्य पुत्रत्वेन प्राप्तिः । स कविरासीदिति तस्य "त्रिपुरानवकम्" रचनया सिद्धम् । तन्मन्त्रानुष्ठानेन पण्डिताः कवित्वं प्राप्नुवन्तीति प्रसिद्धिः ।