विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 434, कुल 493 में से
संदर्भ में पढ़ें( ४३० ) सङ्गादजस्रं वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः । आरुह्य दोलासु विलासिनीनां ताभिः सह भ्रेमुरसंभ्रमेण ॥२८॥ अन्वयः लीलावनान्तस्थितयः शकुन्ताः वनदेवतानाम् अजस्रं सङ्गात् विला- सिनीनां दोलासु आरुह्य ताभिः सह असंम्भ्रमेण भ्रेमुः । व्याख्या लीलाबनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिर्निवासो येषां ते क्रीडोद्यानमध्य- वासिनः शकुन्ताः पक्षिणः 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । वनदेवतानामरण्यव्यापिष्ठातृदेवतानामजस्रं निरन्तरं 'नित्यानवरताजस्रमप्ययाति- शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खा- स्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सह्रादसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्ग- तागतं चक्रुः । काव्यलिङ्गमलङ्कारः । भाषा क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर होकर झूला झूलते थे । अर्थात् वे स्त्रिया वनदेवताओं के ऐसी रूपवती थीं । हस्तद्वयीगाढगृहीतलोल—दोलागुणानां जघने वधूनाम् । १असवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥ अन्वयः हस्तद्वयीगाढगृहीतलोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छ्वसितः अभूत् । व्याख्या हस्तयोः करयोर्द्वयीति हस्तद्वयी तया गाढं दृढं गृहीता धृता लोलाइचञ्चला दोलागुणा दोलारज्जवो याभिस्तास्तासां वधूनां नारीणां स्रस्तः स्थानाच्च्यु- १ "असवृतस्रस्तदुकूलबन्धे" इति पाठस्तु चिन्त्यः ।