भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 437, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 437

( ४३३ ) व्याख्या अतिप्रहर्षादानन्दातिशयात् कोकिलाना पिकाना, कूजितानि ध्वनदस्तैषा विहित कृतोऽनुकारोऽनुकरण यैरते लीलाशुका क्रीडाशुका 'कीरशुकौ समौ' इत्यमरः । वियोगिनीभिर्विरहिणीभिर्गृहात्स्वसदनादपाद्यन्त बहिनिष्कास्यन्ते स्म । कोकिलकूजितस्य विरहे दुःखप्रदायित्वेनाऽसहत्वासदनुकारिणा लीला- शुकाना गृहादपसारण ताभि कृतमिति भावः । हि यतः गुणिनां गुणवता गुणः स्वरमाधुर्यादिरूप काले समुचिते समय एव गुणाय प्रहर्षाय भवति नत्वन्यथेति शेष । कीराणां कोकिलशब्दानुकरणं गुण परञ्च विरहावस्थाया स दोष एव जात इति भावः । अत्राऽर्थान्तरन्यासालङ्कारः । भाषा अत्यन्त हर्ष से कोयल के शब्दो का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियो द्वारा दौडा कर बाहर कर दिये गए । क्योकि गुणियो का गुण अवसर पर ही गुणाधायक होता है। अर्थात् सुग्गो का, कोयल की बोली बोलना यह एक गुण है किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है । श्रुत्वेव घृष्टावसरं तुषारं वहिःस्थितानामलिनां निनादैः । द्विवर्षकन्यामुखकोमलामं पङ्कोदरात्पङ्कजमाविरासीत् ॥३३॥ अन्वयः द्विवर्षकन्यामुखकोमलाभं पङ्कजं, बहिः स्थितानाम् अलिना निनादैः तुषार घृष्टावसरं श्रुत्वा इव पङ्कोदरात् आविरासीत् । व्याख्या द्वौ वर्षों यस्या सा द्विवर्षा, द्विवर्षा चाऽसौ कन्या च द्विवर्षकन्या तस्या मुखस्येव कोमला सुकुमाराऽऽभा कान्तिर्यस्य तत् 'स्यु प्रभा रुग्रुचिस्त्विड्भाऽ- माश्छविद्युतयोतय' इत्यमरः । पङ्कज कमल बहि स्थितानां बाह्यस्थान- वर्तिनामलीनां भ्रमराणां निनादैस्झङ्कारैस्तुषार हिमं 'तुषारस्तुहिनं हिमम्' इत्यमर । धूतो निर्गतोऽवसर कालो हेमन्तशिशिरर्तू यस्य स त धूतवेगाऽऽ- कम्यैव पङ्कोदरात्सरस पङ्कमुदरे यस्येति विग्रहात, पङ्कस्य कर्दमस्योदर मध्य तस्माद्वा कर्दमान्तरादाविरासीत्प्रकटीबभूव । हिमसमये पङ्कजानि न समुत्पद्यन्ते भ्रमराश्च न गुञ्जन्ति तस्माद्भ्रमरशब्दश्रवणादिनागममनुमाय वसन्तागम- नात्कोमल कमल प्रादुर्बभूवेति भाव । अत्रोत्प्रेक्षालङ्कार । २८