विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 438, कुल 493 में से
संदर्भ में पढ़ें( ४३४ )
भाषा
दो वर्ष की कन्या के मुख के समान कोमल कान्ति वाला, कमल, बाहर रहने वाले भ्रमरों की गुञ्जार से मानो हेमन्त और शिशिर ऋतुओ के बीत जाने की सूचना पाकर तालाब से प्रकट हुआ। अर्थात् हेमन्त और शिशिर ऋतुओ में कमल नही उत्पन्न होते और भ्रमर भी गुञ्जार नहीं करते।
नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन । उत्सङ्गसङ्गी विपिनस्थलीनां बालो वसन्तः किमपि व्यराजत् ॥३४॥
अन्वयः
विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत् ।
व्याख्या
विपिनस्थलीनामरण्यभूमीनां 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्ग्यम्। उत्सङ्गेऽङ्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गश्चिह्नयोरङ्कः' इत्यमरः। अङ्कवर्ती वसन्तो बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन वासन्तिका माधवीलता 'वासन्ती माधवीलता' इत्यमरः। तस्याः कुड्मलानि कलिकास्तासां निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे। वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्ग्यत्वाच्च एकदेशविवर्तिरूपकम्।
भाषा
जंगल की भूमियो की गोद में रहने वाला वसन्त रूपी बालक, नये दांत निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय शोभा को प्राप्त हुआ।
सुगन्धिनिःश्वासमिवानुवेलमुद्वेलता दक्षिणमारुतेन । मुखं प्रसूनस्मितदन्तुरं वचुचुम्ब मुग्धस्य मधोर्वनश्रीः ॥३५॥