विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 439, कुल 493 में से
संदर्भ में पढ़ें( ४३५ ) अन्वयः वनश्रीः अनुवेलं सुगन्धिनिःश्वासम् इव उद्वेलता दक्षिणमारुते मुग्धस्य मधोः तत् प्रसूनस्मितदन्तुरं मुखं चुचुम्ब । व्याख्या वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमि- सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेलता विस्तारयता दक्षिणमारुतेन मलय- निलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्र- त्येन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्र- भागञ्च चुचुम्ब परिचुम्बितवती । वसन्तौ पुष्पोद्गमेन वनशोभाऽभिव्यक्तासीदिति भावः । समासोक्तिरलंकारः । भाषा वनकी शोभा ने सुगन्धित सास के समान सुगन्धयुक्त दक्षिणानिल के बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों से वन की शोभा प्रकट होती थी । संक्रान्तभृङ्गीपदपंक्तिमुद्रं पौष्पं रजः क्ष्माफलके रराज । क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥ अन्वयः क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तिमुद्रं पौष्पं रजः क्रमात् लिपिज्ञान- कृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज । व्याख्या क्ष्माफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पङ्क्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिंस्तत् पुष्पादण्डं पौष्पं कुसुमसम्वन्धी 'तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर- ज्ञानाभ्यासे कृतो विहितः क्षण उत्सवो येन स तस्य 'निर्व्यापारस्थितौ काल- विशेषोत्सवयोः क्षणः' इत्यमरः । मधोर्वसन्तस्याक्षरमालया वर्णमालया क्षुण्णमिव संभृतमिव रराज शुशुभे । बालको यदाऽक्षरज्ञानाभ्यासे पट्टिकायां