विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 447, कुल 493 में से
संदर्भ में पढ़ें( ४४ ) व्याख्या त्रयाणां लोकानां समाहारस्त्रिलोकी त्रिभुवनं तस्यां विलासिन्यश्च विला- सिनश्चेति विलासिनस्तेषां विलासिनां 'पुमान् स्त्रिया' इत्येकशेषः । काम- विलासयुक्तानामन्योन्यस्य परस्परस्य लीलायां कामक्रीडायां भुजबन्धनानि बाहुबन्धनानि तेषु कामक्रीडाबाहुबन्धनविशेषेष्व्वादिगुरुः प्रथमाचार्यो हठात्प्रवर्तकः, नितरां कामोद्दीपकत्वात् । उत्तम्भितौ युद्धाह्वानायोत्थापितौ, अशोकश्च पला- शश्चाशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो वीरश्चैत्रमल्लः प्रतिमल्लं प्रतिपक्षवीरं न आप युद्धार्थं न प्राप । चैत्रमासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः । तेन तुल्यः कोऽपि नैत्यर्थः । भाषा तीनो भुवनो में काम विलास से युक्त प्राणियो को परस्पर कामक्रीडा में भुजबन्ध की शिक्षा देने वाला, आदि गुरु, और अशोक और पलास रूपी दोनो हाथों को उठाकर युद्ध के लिये ललकारने वाले चैत्र मास रूपी योद्धा को लडने के लिये कोई विपक्षी योद्धा न मिल सका । अर्थात् चैत्र मास में कामोद्दीपक अशोक और पलास के वृक्षो को देख कर सभी प्राणी कामासक्त हो जाते हैं और चैत्र के प्रभाव से कोई भी वञ्चित नही रह सकता । पुरन्ध्रिगण्डूषसुराभिलापं पश्यन्नशोको बकुलद्रुमस्य । प्रियप्रियापादतलप्रहार–मात्मानमल्पव्यसनं विवेद ॥४८॥ अन्वयः बकुलद्रुमस्य पुरन्ध्रिगण्डूषसुराभिलापं पश्यन् अशोकः प्रियप्रियापाद- तलप्रहारम् आत्मानम् अल्पव्यसनं विवेद । व्याख्या बकुलद्रुमस्य केसरवृक्षस्य 'अथ केसरे । बकुलो वञ्जुलोऽशोके' इत्यमरः । 'मौलसरी' इति भाषायाम् । पुरन्ध्रीणां कामिनीनां गण्डूषस्य या सुरा मुखवर्ति मद्यं तस्याऽभिलाषमिच्छां पश्यन्निरीक्षमाणोऽशोकः अशोकद्रुमः प्रियोऽभीष्टः प्रियायाः कान्तायाः पादतलस्य चरणतलस्य प्रहारस्ताडनं यस्य स तमात्मानं स्वमल्पं क्षुद्रं न्यूनं वा व्यसनं प्रवृत्त्या प्रियवस्तु यस्य स तमल्पव्यसनं विवेद ज्ञातवान् । कान्तामुखोच्छिष्टमद्याभिलाषस्य निन्दितत्त्वात्तदपेक्षया कान्तापादतलप्रहारस्याल्प-