विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 449, कुल 493 में से
संदर्भ में पढ़ें( ४४६ ) उन्निद्रपङ्क्तिस्थितचम्पकानि चकाशिरे केलिवनान्तराणि । वियोगिनीनां कवलीकृतानां सुवर्णकाञ्चीभिरिवाञ्चितानि ॥५०॥ अन्वयः उन्निद्रपङ्क्तिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगि- नीनां सुवर्णकाञ्चीभिः अञ्चितानि इव चकाशिरे । व्याख्या उद्गता दूरीभूता निद्रा संकोचो येषां तान्युन्निद्राणि विकसितानि पंक्तीषु श्रेणीषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनानां क्रीडोद्यानानामन्तराणि मध्यभागाः कवलीकृतानां चम्पकादिपुष्पसमृद्धिमता वसन्तेन भक्षितानां हृतानामित्यर्थः । वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनर- शनाभिरञ्चितानि तत्समानपीतवर्णत्वात्समन्वितान्येव चकाशिरे विविद्युतिरे । वसन्ते पतिविरहाद्दशमविरहावस्थां प्राप्तानां मृतानामित्यर्थः । वियोगिनीनां पीतवर्णत्वात्काञ्चनकाञ्चीरूपाणीय चम्पकपुष्पाणि शुशुभिर इति भावः । उत्प्रेक्षालंकारः । भाषा फूले हुए और कतार में लगे पीले चम्पे के फूलो से युक्त क्रीडा कानन के मध्यस्थल, बसन्त ऋतु के कारण पति वियोग से दशम विरहावस्था को प्राप्त अर्थात् मृत वियोगिनियो की मानो सोने की पीली करधनियो के रूप से शोभित हो रहे थे । मर्मव्यथाविस्मयघूर्णमान-मूर्धोच्छलत्कुण्डलविभ्रमेण । शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥ अन्वयः वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्धोच्छलत्कुण्डलभ्रमेण पिकानां शब्दानुसारेण कण्ठपाशाः क्षिप्ताः । व्याख्या वियोगिनीभिर्विरहिणीभिर्मर्मव्यथायाः कोकिलकूजितश्रवणजनितमार्मिकवेद- नाया विस्मयेनाऽऽधिक्येनाऽथवा विस्मयो लोकसीमातित्वतित्वं तेन 'विविधेषु