विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 456, कुल 493 में से
संदर्भ में पढ़ें( ४५३ ) त्वं दृष्टदोषोऽपि पुनः स्मरेण यत्संगृहीतः शृणु तत्र हेतुम् । अङ्गीकृतस्त्रीवधपातकेन केनापि न स्वीकृत एष भारः ॥६०॥ अन्वयः यत् दृष्टदोषः अपि त्वं स्मरेण पुनः संगृहीतः तत्र हेतुं शृणु । अङ्गी- कृतस्त्रीवधपातकेन केन अपि एष भारः न स्वीकृतः । व्याख्या यत् यतो दृष्ट परिज्ञातो दोषो मित्रसाहाय्यकारित्वाभावरूपो दुर्गुणो यस्य स विज्ञातदुर्गुणोऽपि त्वं वसन्तः, स्मरेण कामेन पुनर्मुहु संगृहीतोऽङ्गीकृतस्तत्र तस्मिन्विषये हेतुं कारणं शृणु समाकर्णय । अङ्गीकृतमुररीकृतं स्त्रीणां नारीणां वधरूपं पातकं पापं येन स तेन स्वीकृतनररोदनरूपपापेन केनाऽपि केनाऽपि व्यक्तिविशेषेण एष स्त्रीवधरूपो भार कार्यं न स्वीकृतो नोररीकृत । भाषा कामदेव ने, मित्र की सहायता न करने के दोष से युक्त भी तुमको फिर से क्यों अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार करने वाले, तुम्हारे सिवाय किसी ने भी इस बोझ को उठाना अर्थात् इस कार्य को करना स्वीकार नहीं किया । अर्थात् स्त्रीवध का पाप किसी के स्वीकार न करने से, तुम जैसे दोषी को भी उसने अपना लिया । इत्थं वियोगज्वरजर्जराणा-मुद्वेजितानां मधुमासलक्ष्म्या । आसन्मुहुः पक्ष्मललोचनानां चैत्रे विचित्रोक्तिविचेष्टितानि ॥६१॥ अन्वयः चैत्रे मधुमासलक्ष्म्या उद्वेजिताना वियोगज्वरजर्जराणां पक्ष्मललोचना- नाम् इत्थं विचित्रोक्तिविचेष्टितानि मुहुः आसन् । व्याख्या चैत्रे वसन्ते मधुमासलक्ष्म्या वसन्तशोभयोद्वेजितानां पीडितानां वियोगज्वरेण पतिविरहरूपज्वरेण जर्जराणां शिथिलीभूतानां पक्ष्मानि घनपक्ष्मयुक्ता 'पक्ष्मलोम्नि किञ्जल्के तत्वाद्यंशेऽप्यणीयसि' इत्यमरः । लोचनानि नयनानि