विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 457, कुल 493 में से
संदर्भ में पढ़ें( ४५४ ) यासां तास्तासां पक्ष्मललोचनानामङ्गनानामित्यमनेन पूर्वोक्तप्रकारेण विचित्रा आश्चर्योत्पादिका उक्तयो भाषितानि 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः । तासां विचेष्टितानि विलासितानि मुहुर्वारम्वारमासन् बभूवुः । भाषा वसन्त ऋतु में वसन्त की शोभा से पीड़ित, और पति विरह से जर्जरित, सुन्दर गशीन पखौनियों वाली नारियों के इस प्रकार के आश्चर्य कारक उक्तियो के विलास बार २ होते थे । अर्थात् विरह के कारण पीड़ित हो, स्त्रियाँ इस प्रकार के अनेक विचित्र उद्गार बार २ निकालती थीं । गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः । दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६२॥ अन्वयः मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यं अन्यप्रमदारदाङ्कः दोषः अपि गुणः एव मेने । व्याख्या माने दर्पे पराङ्मुख्यो यत्तन्तर्तुकरणेनोत्सुक्यादुदासीनास्ताभिर्मानरहिताभिः पुरन्ध्रिभिरङ्गनाभिर्यूनां युवजनानां गम्भीरता धैर्यं चाञ्चल्याभाव इत्यर्थः । चाटुपराङ्मुखत्वमनुनयानुकूल्यप्रेमवार्ताप्रचाररहितत्वं 'अस्त्री चाटुश्चटुश्लाघा प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः । सौभाग्यं सुन्दरभाग्यशालित्वं स्त्रीसमाग- माप्तीच्छायां क्लेशराहित्यमित्यर्थः । अन्यासां प्रमदाना स्त्रीणां रदानां दशना- नामङ्कश्चिह्नं 'कलङ्काङ्कौ लाञ्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । इति दोषोऽपि गुण एव मेने तत्र दोषत्वबुद्धिरेव न जातेतिभावः । वसन्तर्तुकृता- ध्युपकामवेदनया यूनां सकलदोषान् विस्मृत्य ताः कामपरवशञ्जाता इत्यर्थः । यूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः । भाषा स्त्री के सामने विद्यमान रहने पर भी युवकों का धीरता से बिना किसी प्रकार की चञ्चलता दिखाते हुए बैठे रहना, मीठी २ रस भरी प्रेम की बातें न करना, स्त्री समागम की इच्छा रहते हुए भी किसी प्रकार के क्लेश से पीड़ित न होकर, अपनी ही ऐंठ में रहना, और उनके शरीर पर के अन्य स्त्री के या