विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 460, कुल 493 में से
संदर्भ में पढ़ें( ४५७ ) भाषा भौरों के लिये, फूलों में क्रीडापूर्वक स्नान करने योग्य अर्थात् अत्यधिक पुष्प- रस ( मकरन्द ) उत्पन्न हो गया । पञ्चम स्वर, कोकिलों के कण्ठकुहरों में स्थिर हो गया । जगत् का एक छत्र विजय प्राप्त करने की अभिलाषा रखने वाले कामदेव का योद्धा चैत्र, अचानक ही, तीनों भुवनों को जीतने वाला हो गया—यह एक आश्चर्य की बात है । भृङ्गेर्विश्ववियोगिवर्गदलनोत्तालस्य वैतालिकैः प्रारब्धा विरुदावलीव पठितुं शृङ्गारबन्धोर्मधोः । नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते धनुः ॥६५॥ अन्वयः वैतालिकैः भृङ्गैः विश्ववियोगिवर्गदलनोत्तालस्य शृङ्गारबन्धोः मधोः विरुदावली पठितुं प्रारब्धा इव । प्रमुषितत्रैलोक्यमानग्रहः कोकिलयोषितां नादः (प्रारब्धः) । यदि परं सम्प्रति कामः कौतुकात् पौष्पं धनुः धुनीते (तर्हि धुनोतु नाम) । व्याख्या वैतालिकै राज्ञां प्रातःकाले निद्राप्रबोधनस्तवस्तुतिकारकैः 'वैतालिको बोध- कराऽमालिको याष्टिकाधेशः । हर्षामर्षोत्साहेतु मगण बन्दिनः स्तुतिपाठकाः' इत्यमरः । भृङ्गैर्भ्रमरैर्विश्वेषां सर्वेषां वियोगिनां वियोगिस्त्रीपुंगवानां (पुंस्तान्- धिग्येति-एकशेषः) वर्गं समूहस्तस्य दलनं संहारस्तस्मिन्नुत्ताल उत्कटस्तस्य सकल- वियोगिसमूहसंहारोत्कटस्य शृङ्गारस्य स्त्रीपुंसोः परस्परं सम्भोगस्पृहाया बन्धुर्मित्रं सहायक इत्यर्थः । तस्य, उक्तञ्च—"पुंसः स्त्रिया स्त्रियाः पुंसि सम्भोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः" ॥ तदा शृङ्गारस्य कामस्य बन्धोर्मित्रस्य मधोर्वसन्तस्य विरुदावली यशःप्रशस्तीनामावली पङ्क्तिर्वि- रुदावली 'योग्यालिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः' इत्यमरः । पठितु- मुच्चारयितुं प्रारब्धा इव । प्रमुषितो बलादिनाशितस्त्रैलोक्यस्य मानग्रहः कोपग्रहणं येन सः कोकिलयोषितां पिकीनां नादः शब्दोऽपि प्रारब्ध इति भावः । यदि परं यदि केवलं सम्प्रत्यधुना कामो मनोजः कौतुकात्कौतूहलात्पौष्पं कुसुममयं धनुः