विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 469, कुल 493 में से
संदर्भ में पढ़ें( ४६७ ) इव पुष्पैः हर्षात् न वर्षति। अधुना दोलारूढपुरन्ध्रीपीनजघनप्राग्भारम् आधुन्वन्तः लङ्कानिलस्य मानद्रुमभञ्जनाय कि गहनम् । व्याख्या नूत्ने नवीने यौवने युवावस्थायां प्रणयः स्नेहो यस्य स तेन चैत्रेण वसन्तेन चित्रां विचित्रां विविधवर्णयुक्तां लिपिम्अक्षरविन्यासं शोभामित्यर्थः । नीता प्रापिता का काननमही का क्रीडोद्यानभूमिः शुक्लारुणरक्तत्वनोल्लत्वात् कटाक्षैरिवाऽ- पाङ्गदर्शनैरिव 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । पुष्पैः कुसुमैर्हर्षादानन्दातिरेकान्न वर्षति वृष्टिं न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽ- स्मिन्समये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासां पीनं स्थूलं जघन स्त्रीकट्याः पुरोभागः 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः । तस्य प्राग्भारो विस्तारस्तमाधुन्वतः कम्पयतो लङ्कानिलस्य दक्षिण- पवनस्य मानिनीनां मानरूपस्य द्रुमस्य वृक्षस्य भञ्जनाय पातनाव विनाशाथे- र्त्यथः । किं गहनं किं कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनेव मानिनीना मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा नई जवानी में प्रेम रखने वाले वसन्त के कारण, रंग विरंगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के समान फूलों की वृष्टि नही करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है। ऐसे समय में हिंडोलो पर झूलती हुई कामिनियो के तने हुए विस्तृत जघनस्थल को कपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है ? अर्थात् वसन्त ऋतु में रंग बिरंगी फूलों को देखने से, झूला झूलने से जघनस्थल में कंप कंपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियों का मान अनायास ही छूट जाता है। पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेलाचलविपिनतटीपांसुकेलीरसज्ञाः । क्रीडाताम्बूलचूर्णीगलपितमुखहृतक्लान्तयः केरलीना- मामोदन्ते समीराः स्मरसुभटजयाकाङ्क्षिणो दाक्षिणात्याः ॥७५॥