विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 470, कुल 493 में से
संदर्भ में पढ़ें( ४६८ ) अन्वयः पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेला- चलविपिनतटीपांसुकेलीरसज्ञाः केरलीनां क्रीडाताम्बूलचूर्णाग्लपितमुखहृत- क्लान्तयः स्मरसुभटजयाकाङ्क्षिणः दाक्षिणात्याः समीराः आमोदन्ते । व्याख्या पौलस्त्यस्य रावणस्योद्यानमुपवनमशोकवाटिका तस्य लीलाविटपी क्रीडावृक्षो- ऽशोकतरुस्तस्य तलेऽधो मीलन्त्यो विघटन्त्यो चिरकालादस्पष्टीकृता इत्यर्थः । मैथिल्या सीताया पादमुद्राश्चरणचिह्नानि यैस्ते, कर्पूरद्वीपस्याऽन्तरौपविशेषस्य वेलाचल समुद्रतटस्थपर्वतस्तस्य विपिनतटी वनतटी तस्याः पांसवो धूलयस्तासु केली क्रीडा तस्या रसज्ञा रसिका, केरलीना केरलदेशजकामिनीना क्रीडाभी रत्यादिक्रीडाभिस्ताम्बूलेन चूर्णेन कर्पूरेण च ग्लपितानि खिन्नानि श्रान्तानीत्यर्थः । मुखान्याननानि तेषा हृता दूरीकृता क्लान्तिर्म्लानता यैस्ते, स्मर एव काम एव सुभटो सुयोद्धा राजा तस्य जयस्य विजयस्याऽकाङ्क्षिण इच्छुका दक्षिणे भवा दाक्षिणात्या समीरा वायवो दक्षिणानिला इत्यथ । आमोदन्ते आमोद सुगन्ध हर्षं वा 'आमोद सोऽतिनिर्हारी' इत्यमरः । परितो विस्तारयन्ति । स्रग्धराच्छन्दः । भाषा रावण की बाग में विद्यमान, लीलावृक्ष अशोक के नीचे थी सीता जी के चरणचिह्नों को अधघटा करन वाले, कर्पूर द्वीप में समुद्र तट के पर्वत के प्रान्तभाग में विद्यमान जगल की धूलि में खलवाड करने के रसिक, केरलदेश की अङ्गनाओ के रत्यादिक्रीडाओ में पान और कपूर के खाने से थान्त बत एव खिन्न मुखो की ग्लानि को दूर करने वाले और वीर राजा कामदेव का विजय प्राप्त होने की अभिलाषा रखने वाले दक्षिणानिल, चारो ओर सुगन्ध या हर्ष फैला रहे हैं । यश्चूताङ्कुरकन्दलीकवलनात्कर्णामृतग्रामणी- श्लाघामात्रपरिग्रहेऽपि जगृहे पञ्चेषुजैत्रेषुताम् । ताम्यत्तालुपिटङ्कमङ्कटतटीसञ्चारतः पञ्चमः सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ॥७६॥