विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 471, कुल 493 में से
संदर्भ में पढ़ें( ४७० ) विरहविधुरकामिनीसहस्र-प्रहितमनोभवलेखसूक्तिमिश्रैः । सुरभिसमयवर्णनैश्कुर्वन्निति नृपतेरथ वन्दिनः प्रमोदम् ॥७७॥ अन्वयः अथ वन्दिनः इति विरहविधुरकामिनीसहस्रप्रहितमनोभवलेखसूक्ति- मिश्रैः सुरभिसमयवर्णनैः नृपतेः प्रमोदम् अकुर्वन् । व्याख्या अथाऽनन्तर वन्दिन स्तुतिपाठका इति पूर्वोक्तप्रकारेण विरहेण कान्तवियो- गेन तज्जनितक्लेशेनेत्यर्थ । विधुरा विह्वला कामिन्यस्तासा सहस्र तेन प्रहिता. प्रेषिता मनोभवलेखा कामसम्बन्धिलिखितपत्राणि तेषु सूक्तयस्सुभाषितानि ताभिर्मिश्रानि मिलितानि तै सुरभिसमयस्य वसन्तौ 'वसन्ते पुष्पसमयस्सुरभि' इत्यमर' । वर्णनानि तैर्नृपते राज्ञो विक्रमाङ्कदेवस्य प्रमोदमानन्द मनोविनोदमि- त्यर्थ । अकुर्वन् चक्रु । पुष्पिताग्रावृत्तम् । भाषा इस प्रकार स्तुतिपाठक लोगो ने, विरह से व्याकुल भई हुई हजारो कामिनिंजी के द्वारा भेजे जाने वाले प्रेमपत्रा की सूक्तियो से मिश्रित, वसन्त ऋतु के वर्णनों से, राजा विक्रमाङ्कदेव को आनन्दित किया । इति श्री त्रिभुवनमल्लदेव विद्यापति-काश्मीरकभट्ट श्री विल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये सप्तम सर्ग । नेत्रान्जाश्वयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात् भारद्वाजसुघोत्तमार्तसमुदितः श्री विश्वनाथः सुधीः । चक्रे रामकुबेरपण्डितघरात्सम्प्राप्तसाहाय्यक— ष्टीकायुग्ममिदं रमाकरुणया स्वर्गे नये सप्तमे ॥ ॐ शान्ति शान्ति शान्ति । ॥ धीसङ्कटनाशिन्यै नम ॥ ❧ हरि ॐ ❧