विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 475, कुल 493 में से
संदर्भ में पढ़ें( ४ ) श्लोका कार्मुकेषु मिषमात्रमीक्ष्यते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥५१॥ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥ अधर्जातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ षष्ठसर्गे— यशसि रसिकतामुपागतानां तृणगणना सुखरागिणां धनेषु ॥२॥ कुसुममृदूनि मनांसि निर्मलानामू ॥३॥ प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥१४॥ अपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । झटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधौ ॥२६॥ व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । अविनयपथवर्तिनं यदेताः प्रचलमपि प्रधनेषु वञ्चयन्ति ॥३०॥