भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 65, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 65

( ४० ) पानं कृत्वा, नवजातशिशुः पूर्वं दुग्धमेव पिबतीत्याशयः । समुत्थित इव विद्यमान इव सुभटः प्रादुरासीदित्यन्वयः । यशः स्मितञ्च शुभ्रं भवतीति कविसम्प्रदायः । तस्मिन् जातमात्र एव शत्रुयशांसि विनश्यन्ति स्मेति भावः । अधरे पल्लवा- भेदाद्रूपकम् । क्षीरेण यशसः साम्यादुपमा । क्षीररूपयशः पानानन्तरं समुत्था- नरूपोत्प्रेक्षणात्क्रियोत्प्रेक्षा । अत एतेषां संकरः । भाषा अधिक अभिमान से उत्पन्न भई हुई (श्वेत) मुस्कुराहट से विकसित अधरोष्ठ से शोभित (वह वीर) मानो दूध के समान शत्रुओं के उज्वल यशों को पीकर प्रकट भया हुआ (ब्रह्मा जी की अञ्जुली से उत्पन्न हुआ ।) सुवर्णनिर्माणमभेद्यमस्त्रैः स्वभावसिद्धं कवचं दधानः । जयश्रियः काञ्चनविष्टराभं समुद्वहन्नुन्नतयंसकूटम् ॥५१॥ अन्वयः अस्त्रैः अभेद्यं सुवर्णनिर्माणं स्वभावसिद्धं कवचं दधानः जयश्रियः काञ्चनविष्टराभम् उन्नतम् अंसकूटं समुद्वहन् (सुभटो विधातुश्चुलुकादावि- रासीदित्यनेन सम्बन्धः ।) व्याख्या अस्त्रैर्वाणैरन्यास्त्रैर्वाऽभेद्यं भेत्तुमशक्यं सुवर्णस्य काञ्चनाभस्य सुन्दरदेहवर्णस्य निर्माणं निर्मितिर्यस्य स्वभावसिद्धं प्राकृतिकं कवचं तनुत्रं 'अथ तनुत्रं वर्म दंशनम् । उरश्छदः कंकटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । दधानो धारयन्, पक्षे सुवर्णेन हेम्ना निर्माणं यस्यैवम्भूतं कवचम् । श्लिष्टरूपकम् । जयश्रियो विजयलक्ष्म्या उपवेशनाय काञ्चनमय स्वर्णस्य विष्टरमासनं तदाभेयाऽऽभा कान्तिर्यस्य तं सुवर्णसिंहासनसदृशमुन्नतं प्रशस्तमंसकूटं स्कन्धशिखरं समुद्वहन् धारयन् 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । सुभटः प्रादुरासीदित्यन्वयः । काञ्चनाभदेहप्रभाया स्वभावसिद्धकवचत्वस्योत्प्रेक्षणादुत्प्रेक्षा । वाचकाभावाच्च तस्या व्यङ्ग्यत्वम् । अंसकूटे काञ्चनविष्टरस्य साम्यप्रतीत्योपमा । देहरूप सुवर्णे स्वभावसिद्धस्वर्णनिर्मितकवचस्य तादात्म्यारोपाद्रूपकमपीत्युत्प्रेक्षारूपकयोः सन्देहसंकरः ।