विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 66, कुल 493 में से
संदर्भ में पढ़ें( ४१ ) भाषा सोने के समान शरीर के स्वाभाविक रंग के कारण मानो बाणों या अन्य अस्त्रों से न छिद सकने वाले सोने से बने हुए कवच को धारण करने वाला, विजयलक्ष्मी के (बैठने के) सोने के आसन के समान उन्नत स्कन्धप्रदेशों को धारण करने वाला (एक वीर प्रकट हुआ ।) स्वःसुन्दरीबन्दिपरिग्रहाय दत्तोऽञ्जलिः सम्प्रति दानवेन्द्रैः । इति प्रहर्षादमराङ्गनानां नेत्रोत्पलश्रेणिभिरर्च्यमानः ॥५२॥ अन्वयः सम्प्रति दानवेन्द्रैः स्वःसुन्दरीवन्दिपरिग्रहाय अञ्जलिः दत्तः इति प्रहर्षात् अमराङ्गनानां नेत्रोत्पलश्रेणिभिः अर्च्यमानः (सुभटः प्रादुरासीत् ।) व्याख्या सम्प्रत्यधुना राज्ञः समुत्पत्त्यनन्तरं दानवेन्द्रैर्दैत्यपुरन्धरैः स्वः स्वर्गस्य सुन्दर्य एव बन्दिनो वशीकृताः स्त्रियः स्तुतिपाठिका वा 'वन्दिनः स्तुतिपाठकाः' इत्यमरः । तासां परिग्रहाय सुन्दरस्त्रीत्वेन स्तुतिपाठिकात्वेन वा हरणायाऽञ्जलिर्दत्तः । अस्य राज्ञो भयात्सुरसुन्दरीवशीकरणाय तासां हठापहरणम साहसन्तैः परित्यक्त इति प्रहर्षदित्कार्यजनिताऽऽनन्दोद्रेकेणामराङ्गनानां देवाङ्गनानां नेत्राणि नयनान्युत्पलानीव कमलानीव तेषां श्रेणिभिः पङ्क्तिभिरर्च्यमानः पूज्यमानो दृश्यमान इत्यर्थः । न दानवा इतः परमस्य कृपयाऽस्मान्बन्दीकरिष्यन्तीति देवाङ्गनाभिः प्रसन्नताभिर्वृत्तिभिरवलोक्यमान इति भावः । कमलपङ्क्तिभि- रच्यंमाने प्रहर्षस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । नेत्रयोः कमलसाम्यादुपमा । नेत्राण्येव कमलानीति रूपकमपि । अतस्तेषां सङ्करः । भाषा इस वीर के उत्पन्न हो जाने पर अब दानवेन्द्रों ने भय से, स्वर्गीय ललनाओं को, अपनी स्तुति करने के लिये अथवा सुन्दर स्त्री होने के नाते अपने वश में करने के हेतु से, उनका अपहरण करने से मुँह मोड़ लिया है, इस हर्ष से देवाङ्गनाओं के नेत्र रूपी कमलों से पूजित (एक वीर उत्पन्न हुआ ।) अर्थात्